Friday 21 March 2014

योगशिखोपनिषत्‌

 योगशिखोपनिषत्‌॥

योगज्ञाने यत्पदाप्तिसाधनत्वेन विश्रुते।
तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै।
तेजस्विनावधीतमस्तु मा विद्विषावहै॥ ॐ शान्तिः शान्तिः शान्तिः॥

सर्वे जीवाः सुखैर्दुःखैर्मायाजालेन वेष्टिताः।
तेषां मुक्तिः कथं देव कृपया वद शङ्कर॥ १॥

सर्वसिद्धिकरं मार्गं मायाजालनिकृन्तनम्‌।
जन्ममृत्युजराव्याधिनाशनं सुखदं वद॥ २॥

इति हिरण्यगर्भः पप्रच्छ स होवाच महेश्वरः।
नानामार्गैस्तु दुष्प्रापं कैवल्यं परमं पदम्‌॥ ३॥

सिद्धिमार्गेण लभते नान्यथा पद्मसंभव।
पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः॥ ४॥

स्वात्मप्रकाशरूपं तत्किं शास्त्रेण प्रकाश्यते।
निष्कलं निर्मलं शान्तं सर्वातीतं निरामयम्‌॥ ५॥

तदेव जीवरूपेण पुण्यपापफलैर्वृतम्‌।
परमात्मपदं नित्यं तत्कथं जीवतां गतम्‌॥ ६॥

तत्त्वातीतं महादेव प्रसादात्कथयेश्वर।
सर्वभावपदातीतं ज्ञानरूपं निरञ्जनम्‌॥ ७॥

वायुवत्स्फुरितं स्वस्मिंस्तत्राहंकृतिरुत्थिता।
पञ्चात्मकमभूत्पिण्डं धातुबद्धं गुणात्मकम्‌॥ ८॥

सुखदुःखैः समायुक्तं जीवभावनया कुरु।
तेन जीवामिधा प्रोक्ता विशुद्धे परमात्मनि॥ ९॥

कामक्रोधभयं चापि मोहलोभमथो रजः।
जन्म मृत्युश्च कार्पण्यं शोकस्तन्द्रा क्शुधा तृषा॥ १०॥

तृष्णा लज्जा भयं दुःखं विषादो हर्ष एव च।
एभिर्दोषैर्विनिर्मुक्तः स जीवः शिव उच्यते॥ ११॥

तस्माद्दोषविनाशार्थमुपायं कथयामि ते।
ज्ञानं केचिद्वदन्त्यत्र केवलं तन्न सिद्धये॥ १२॥

योगहीनं कथं ज्ञानं मोक्शदं भवतीह भोः।
योगोऽपि ज्ञानहीनस्तु न क्शमो मोक्शकर्मणि॥ १३॥

तस्माज्ज्ञानं च योगं च मुमुक्शुर्दृढमभ्यसेत्‌।
ज्ञानस्वरूपमेवादौ ज्ञेयं ज्ञानैकसाधनम्‌॥ १४॥

अज्ञानं कीदृशं चेति प्रविचार्यं मुमुक्शुणा।
ज्ञातं येन निजं रूपं कैवल्यं परमं पदम्‌॥ १५॥

असौ दोषैर्विनिर्मुक्तः कामक्रोधभयादिभिः।
सर्वदोषैर्वृतो जीवः कथं ज्ञानेन मुच्यते॥ १६॥

स्वात्मरूपं यथा ज्ञानं पूर्णं तद्व्यापकं तथा।
कामक्रोधादिदोषाणां स्वरूपान्नास्ति भिन्नता॥ १७॥

पश्चात्तस्य विधिः किंनु निषेधोऽपि कथं भवेत्‌।
विवेकी सर्वदा मुक्तः संसारभ्रमवर्जितः॥ १८॥

परिपूर्णं स्वरूपं तत्सत्यं कमलसंभव।
सकलं निष्कलं चैव पूर्णत्वाच्च तदेव हि॥ १९॥

कलिना स्फूर्तिरूपेण संसारभ्रमतां गतम्‌।
निष्कलं निर्मलं साक्शात्सकलं गगनोपमम्‌॥ २०॥

उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविवर्जितम्‌।
एतद्रूपं समायातः स कथं मोहसागरे॥ २१॥

निमज्जति महाबाहो त्यक्त्वा विद्यां पुनः पुनः।
सुखदुःखादिमोहेषु यथा संसारिणां स्थितिः॥ २२॥

तथा ज्ञानी यदा तिष्ठेद्वासनावासितस्तदा।
तयोर्नास्ति विशेषोऽत्र समा संसारभावना॥ २३॥

ज्ञानं चेदीदृशं ज्ञातमज्ञानं कीदृशं पुनः।
ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः॥ २४॥

विना देहेन योगेन न मोक्शं लभते विधे।
अपक्वाः परिपक्वाश्च देहिनो द्विविधाः स्मृताः॥ २५॥

अपक्वा योगहीनास्तु पक्वा योगेन देहिनः।
सर्वो योगाग्निना देहो ह्यजडः शोकवर्जितः॥ २६॥

जडस्तु पार्थिवो ज्ञेयो ह्यपक्वो दुःखदो भवेत्‌।
ध्यानस्थोऽसौ तथाप्येवमिन्द्रियैर्विवशो भवेत्‌॥ २७॥

तानि गाढं नियम्यापि तथाप्यन्यैः प्रबाध्यते।
शीतोष्णसुखदुःखाद्यैर्व्याधिभिर्मानसैस्तथा॥ २८॥

अन्यैर्नानाविधैर्जीवैः शस्त्राग्निजलमारुतैः।
शरीरं पीड्यते तैस्तैश्चित्तं संक्शुभ्यते ततः॥ २९॥

तथा प्राणविपत्तौ तु क्शोभमायाति मारुतः।
ततो दुःखशतैर्व्यापत्ं चित्तं क्शुब्धं भवेन्नृणाम्‌॥ ३०॥

देहावसानसमये चित्ते यद्यद्विभावयेत्‌।
तत्तदेव भवेज्जीव इत्येवं जन्मकारणम्‌॥ ३१॥

देहान्ते किं भवेज्जन्म तन्न जानन्ति मानवाः।
तस्माज्ज्ञानं च वैराग्यं जीवस्य केवलं श्रमः॥ ३२॥

पिपीलिका यथा लग्ना देहे ध्यानाद्विमुच्यते।
असौ किं वृश्चिकैर्द्रष्टो देहान्ते वा कथं सुखी॥ ३३॥

तस्मान्मूढा न जानन्ति मिथ्यातर्केण वेष्टिताः।
अहंकृतिर्यदा यस्य नष्टा भवति तस्य वै॥ ३४॥

देहस्त्वपि भवेन्नष्टो व्याधयश्चास्य किं पुनः।
जलाग्निशस्त्रखातादिबाधा कस्य भविष्यति॥ ३५॥

यदा यदा परिक्शीणा पुष्टा चाहंकृतिर्भवेत्‌।
तमनेनास्य नश्यन्ति प्रवर्तन्ते रुगादयः॥ ३६॥

कारणेन विना कार्यं न कदाचन विद्यते।
अहंकारं विना तद्वद्देहे दुःखं कथं भवेत्‌॥ ३७॥

शरीरेण जिताः सर्वे शरीरं योगिभिर्जितम्‌।
तत्कथं कुरुते तेषां सुखदुःखादिकं फलम्‌॥ ३८॥

इन्द्रियाणि मनो बुद्धिः कामक्रोधादिकं जितम्‌।
तेनैव विजितं सर्वं नासौ केनापि बाध्यते॥ ३९॥

महाभूतानि तत्त्वानि संहृतानि क्रमेण च।
सप्तधातुमयो देहो दग्धा योगाग्निना शनैः॥ ४०॥

देवैरपि न लक्श्येत योगिदेहो महाबलः।
भेदबन्धविनिर्मुक्तो नानाशक्तिधरः परः॥ ४१॥

यथाकाशस्तथा देह आकाशादपि निर्मलः।
सूक्श्मात्सूक्श्मतरो दृश्यः स्थूलात्स्थूलो जडाज्जडः॥ ४२॥

इच्छारूपो हि योगीन्द्रः स्वतन्त्रस्त्वजरामरः।
क्रीडते त्रिषु लोकेषु लीलया यत्रकुत्रचित्‌॥ ४३॥

अचिन्त्यशक्तिमान्योगी नानारूपाणि धारयेत्‌।
संहरेच्च पुनस्तानि स्वेच्छया विजितेन्द्रियः॥ ४४॥

नासौ मरणमाप्नोति पुनर्योगबलेन तु।
हठेन मृत एवासौ मृतस्य मरणं कुतः॥ ४५॥

मरणं यत्र सर्वेषां तत्रासौ परिजीवति।
यत्र जीवन्ति मूढास्तु तत्रासौ मृत एव वै॥ ४६॥

कर्तव्यं नैव तस्यास्ति कृतेनासौ न लिप्यते।
जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः॥ ४७॥

विरक्ता ज्ञानिनश्चान्ये देहेन विजिताः सदा।
ते कथं योगिभिस्तुल्या मांसपिण्डाः कुदेहिनः॥ ४८॥

देहान्ते ज्ञानिभिः पुण्यात्पापाच्च फलमाप्यते।
ईदृशं तु भवेत्तत्तद्भुक्त्वा ज्ञानी पुनर्भवेत्‌॥ ४९॥

पश्चात्पुण्येन लभते सिद्धेन सह सङ्गतिम्‌।
ततः सिद्धस्य कृपया योगी भवति नान्यथा॥ ५०॥

ततो नश्यति संसारो नान्यथा शिवभाषितम्‌।
योगेन रहितं ज्ञानं न मोक्शाय भवेद्विधे॥ ५१॥

ज्ञानेनैव विना योगो न सिद्ध्यति कदाचन।
जन्मान्तरैश्च बहुभिर्योगो ज्ञानेन लभ्यते॥ ५२॥

ज्ञानं तु जन्मनैकेन योगादेव प्रजायते।
तस्मायोगात्परतरो नास्ति मार्गस्तु मोक्शदः॥ ५३॥

प्रविचार्य चिरं ज्ञानं मुक्तोऽहमिति मन्यते।
किमसौ मननादेव मुक्तो भवति तत्क्शणात्‌॥ ५४॥

पश्चाज्जन्मशन्तान्तरैर्योगादेव विमुच्यते।
न तथा भवतो योगाज्जन्ममृत्यू पुनः पुनः॥ ५५॥

प्राणापानसमायोगाच्चन्द्रसूर्यैकता भवेत्‌।
सप्तधातुमयं देहमग्निना रञ्जयेद्ध्रुवम्‌॥ ५६॥

व्याधयस्तस्य नश्यन्ति च्छेदखातादिकास्तथा
तदासौ परमाकाशरूपो देह्यवतिष्ठति॥ ५७॥

किं पुनर्बहुनोक्तेन मरणं नास्ति तस्य वै।
देहीव दृश्यते लोके दग्धकर्पूरवत्स्वयम्‌॥ ५८॥

चित्तं प्राणेन संबद्धं सर्वजीवेषु संस्थितम्‌।
रज्ज्वा यद्वत्सुसंबद्धः पक्शी तद्वदिदं मनः॥ ५९॥

नानाविधैर्विचारैस्तु न बाध्यं जायते मनः।
तस्मात्तस्य जयोपायः प्राण एव हि नान्यथा॥ ६०॥

तर्कैर्जल्पैः शास्त्रजालैर्युक्तिभिर्मन्त्रभेषजैः।
न वशो जायते प्राणः सिद्धोपायं विना विधे॥ ६१॥

उपायं तमविज्ञाय योगमार्गे प्रवर्तते।
खण्डज्ञानेन सहसा जायते क्लेशवत्तरः॥ ६२॥

यो जित्वा पवनं मोहाद्योगमिच्छति योगिनाम्‌।
सोऽपक्वं कुम्भमारुह्य सागरं तर्तुमिच्छति॥ ६३॥

यस्य प्राणो विलीनोऽन्तः साधके जीविते सति।
पिण्डो न पतितस्तस्य चित्तं दोषैः प्रबाधते॥ ६४॥

शुद्धे चेतसि तस्यैव स्वात्मज्ञानं प्रकाशते।
तस्माज्ज्ञानं भवेद्योगाज्जन्मनैकेन पद्मज॥ ६५॥

तस्माद्योगं तमेवादौ साधको नित्यमभ्यसेत्‌।
मुमुक्शुभिः प्राणजयः कर्तव्यो मोक्शहेतवे॥ ६६॥

योगात्परतरं पुण्यं योगात्परतरं शिवम्‌।
योगात्परतरं सूक्श्मं योगात्परतरं नहि॥ ६७॥

योऽपानप्राणयोरैक्यं स्वरजोरेतसोस्तथा।
सूर्याचन्द्रमसोर्योगो जीवात्मपरमात्मनोः॥ ६८॥

एवं तु द्वन्द्वजालस्य  संयोगो योग उच्यते।
अथ योगशिखां वक्श्ये सर्वज्ञानेषु चोत्तमाम्‌॥ ६९॥

यदानुध्यायते मन्त्रं गात्रकम्पोऽथ जायते।
आसनं पद्मकं बद्ध्वा यच्चान्यदपि रोचते॥ ७०॥

नासाग्रे दृष्टिमारोप्य हस्तपादौ च संयतौ।
मनः सर्वत्र संगृह्य ॐकारं तत्र चिन्तयेत्‌॥ ७१॥

ध्यायते सततं प्राज्ञो हृत्कृत्वा परमेश्वरम्‌।
एकस्तम्भे नवद्वारे त्रिस्थूणे पञ्चदैवते॥ ७२॥

ईदृशे तु शरीरे वा मतिमान्नोपलक्शयेत्‌।
आदित्यमण्डलाकारं रश्मिज्वालासमाकुलम्‌॥ ७३॥

तस्य मध्यगतं वह्निं प्रज्वलेद्दीपवर्तिवत्‌।
दीपशिखा तु या मात्रा सा मात्रा परमेश्वरे॥ ७४॥

भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः।
द्वितीयं सुषुम्नाद्वारं परिशुभ्रं समर्पितम्‌॥ ७५॥

कपालसंपुटं पीत्वा ततः पश्यति तत्पदम्‌।
अथ न ध्यायते जन्तुरालस्याच्च  प्रमादतः॥ ७६॥

यदि त्रिकालमागच्छेत्स गच्छेत्पुण्यसंपदम्‌।
पुण्यमेतत्समासाद्य संक्शिप्य कथितं मया॥ ७७॥

लब्धयोगोऽथ बुद्ध्येत प्रसन्नं परमेश्वरम्‌।
जन्मान्तरसहस्रेषु यदा क्शीणं तु किल्बिषम्‌॥ ७८॥

तदा पश्यति योगेन संसारोच्छेदनं महत्‌।
अधुना संप्रवक्श्यामि योगाभ्यासस्य लक्शणम्‌॥ ७९॥

मरुज्जयो यस्य सिद्धः सेवयेत्तं गुरुं सदा।
गुरुवस्त्रप्रसादेन कुर्यात्प्राणजयं बुधः॥ ८०॥
वितस्तिप्रमितं दैर्घ्यं चतुरङ्गुलविस्तृतम्‌।
मृदुलं धवलं प्रोक्तं वेष्टनाम्बरलक्शणम्‌॥ ८१॥

निरुध्य मारुतं गाढं शक्तिचालनयुक्तितः।
अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम्‌॥ ८२॥

पायोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्तदा।
मृत्युचक्रगतस्यापि तस्य मृत्युभयं कुतः॥ ८३॥

एतदेव परं गुह्यं कथितं तु मया तव।
वज्रासनगतो नित्यमूर्ध्वाकुञ्चनमभ्यसेत्‌॥ ८४॥

वायुना ज्वलितो वह्निः कुण्डलीमनिशं दहेत्‌।
सन्तप्ता साग्निना जीवशक्तिस्त्रैलोक्यमोहिनी॥ ८५॥

प्रविशेच्चन्द्रतुण्डे तु सुषुम्नावदनान्तरे।
वायुना वह्निना सार्धं ब्रह्मग्रन्थिं भिनत्ति सा॥ ८६॥

विष्णुग्रन्थिं ततो भित्त्वा रुद्रग्रन्थौ च तिष्ठति।
ततस्तु कुम्भकैर्गाढं पूरयित्वा पुनःपुनः॥ ८७॥

अथाभ्यसेत्सूर्यभेदमुज्जायीं चापि शीतलीम्‌।
भस्त्रां च सहितो नाम स्याच्चतुष्टयकुम्भकः॥ ८८॥

बन्धत्रयेण संयुक्तः केवलप्राप्तिकारकः।
अथास्य लक्शणं सम्यक्कथयामि समासतः॥ ८९॥

एकाकिना समुपगम्य विविक्तदेशं
     प्राणादिरूपममृतं परमार्थतत्त्वम्‌।
लघ्वाशिना धृतिमता परिभावितव्यं
     संसाररोगहरमौषधमद्वितीयम्‌॥ ९०॥

सूर्यनाड्या समाकृष्य वायुमभ्यासयोगिना।
विधिवत्कुम्भकं कृत्वा रेचयेच्छ्रीतरश्मिना॥ ९१॥

उदरे बहुरोगघ्नं क्रिमिदोषं निहन्ति च।
मुहुर्मुहुरिदं कार्यं सूर्यभेदमुदाहृतम्‌॥ ९२॥

नाडीभ्यां वायुमाकृष्य कुण्डल्याः पार्श्वयोः क्शिपेत्‌।
धारयेदुदरे पश्चाद्रेचयेदिडया सुधीः॥ ९३॥

कण्ठे कफादि दोषघ्नं शरीराग्निविवर्धनम्‌।
नाडीजलापहं धातुगतदोषविनाशनम्‌॥ ९४॥

गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं तु कुम्भकम्‌।
मुखेन वायुं संगृह्य घ्राणरन्ध्रेण रेचयेत्‌॥ ९५॥

शीतलीकरणं चेदं हन्ति पित्तं क्शुधां तृषम्‌।
स्तनयोरथ भस्त्रेव लोहकारस्य वेगतः॥ ९६॥

रेच्येत्पूरयेद्वायुमाश्रमं देहगं धिया।
यथा श्रमो भवेद्देहे तथा सूर्येण पूरयेत्‌॥ ९७॥

कण्ठसंकोचनं कृत्वा पुनश्चन्द्रेण रेचयेत्‌।
वातपित्तश्लेष्महरं शरीराग्निविवर्धनम्‌॥ ९८॥

कुण्डलीबोधकं वक्त्रदोषघ्नं शुभदं सुखम्‌।
ब्रह्मनाडीमुखान्तस्थकफाद्यर्गलनाशनम्‌॥ ९९॥

सम्यग्बन्धुसमुद्भूतं ग्रन्थित्रयविभेदकम्‌।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम्‌॥ १००॥

बन्धत्रयमथेदानीं प्रवक्श्यामि यथाक्रमम्‌।
नित्यं कृतेन तेनासौ वायोर्जयमवाप्नुयात्‌॥ १०१॥

चतुर्णामपि भेदानां कुम्भके समुपस्थिते।
बन्धत्रयमिदं कार्यं वक्श्यमाणं मयहि तत्‌॥ १०२॥

प्रथमो मूलबन्धस्तु द्वितीयोड्डीयनाभिधः।
जालन्धारस्तृतीयस्तु लक्शणं कथयाम्यहम्‌॥ १०३॥

गुदं पार्ष्ण्या तु संपीड्य पायुमाकुञ्चलेद्बलात्‌।
वारंवारं यथा चोर्ध्वं समायाति समीरणः॥ १०४॥

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम्‌।
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः॥ १०५॥

कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः।
बन्धो येन सुषुम्नायां प्राणस्तूड्डीयते यतः॥ १०६
तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः।
उड्डियानं तु सहजं गुरुणा कथितं सदा॥ १०७॥

अभ्यसेत्तदतन्द्रस्तु वृद्धोऽपि तरुणो भवेत्‌।
नाभेरूर्ध्वमधश्चापि त्राणं कुर्यात्प्रयत्नतः॥ १०८॥

षाण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः।
पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः॥ १०९॥

कण्ठसंकोचरूपोऽसौ वायुर्मार्गनिरोधकः।
कण्ठमाकुञ्च्य हृदये स्थापयेद्दृढमिच्छया॥ ११०॥

बन्धो जालन्धराख्योऽयममृताप्यायकारकः।
अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते॥ १११॥

मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः।
वज्रासनस्थितो योगी चालयित्वा तु कुण्डलीम्‌॥ ११२॥

कुर्यादनन्तरं भस्त्रीं कुण्डलीमाशु बोधयेत्‌।
भिद्यन्ते ग्रन्थयो वंशे तप्तलोहशलाकया॥ ११३॥

तथैव पृष्ठवंशः स्याद्ग्रन्थिभेदस्तु वायुना।
पिपीलिकायां लग्नायां कण्डूस्तत्र प्रवर्तते॥ ११४॥

सुषुम्नायां तथाभ्यासात्सततं वायुना भवेत्‌।
रुद्रग्रन्थिं ततो भित्त्वा ततो याति शिवात्मकम्‌॥ ११५॥

चन्द्रसूर्यौ समौ कृत्वा तयोर्योगः प्रवर्तते।
गुणत्रयमतीतं स्याद्ग्रन्थित्रयविभेदनात्‌॥ ११६॥

शिवशक्तिसमायोगे जायते परमा स्थितिः।
यथा करी करेणैव पानीयं प्रपिबेत्सदा॥ ११७॥

सुषुम्नावज्रनालेन पवमानं ग्रसेत्तथा।
वज्रदण्डसमुद्भूता मणयश्चैकविंशतिः॥ ११८॥

सुषुम्नायां स्थितः सर्वे सूत्रे मणिगणा इव।
मोक्शमार्गे प्रतिष्ठानात्सुषुम्ना विश्वरूपिणी॥ ११९॥

यथैव निश्चितः कालश्चन्द्रसूर्यनिबन्धनात्‌।
आपूर्य कुम्भितो वायुर्बहिर्नो याति साधके॥ १२०॥

पुनःपुनस्तद्वदेव पश्चिमद्वारलक्शणम्‌।
पूरितस्तु स तद्द्वारैरीषत्कुम्भकतां गतः॥ १२१॥

प्रविशेत्सर्वगात्रेषु वायुः पश्चिममार्गतः।
रेचितः क्शीणतां याति पूरितः पोषयेत्ततः॥ १२२॥

यत्रैव जातं सकलेवरं मन-
     स्तत्रैव लीनं कुरुते स योगात्‌।
स एव मुक्तो निरहंकृतिः सुखी
     मूढा न जानन्ति हि पिण्डपातिनः॥ १२३॥

चित्तं विनिष्टं यदि भासितं स्या-
     त्तत्र प्रतीतो मरुतोऽपि नाशः।
न चेद्यदि स्यान्न तु तस्य शास्त्रं
     नात्मप्रतीतिर्न गुरुर्न मोक्शः॥ १२४॥

जलूका रुधिरं यद्वद्बलादाकर्षति स्वयम्‌।
ब्रह्मनाडी तथा धातून्सन्तताभ्यासयोगतः॥ १२५॥

अनेनाभ्यासयोगेन नित्यमासनबन्धतः।
चित्तं विलीनतामेति बिन्दुर्नो यात्यधस्तथा॥ १२६॥

रेचकं पूरकं मुक्त्वा वायुना स्थीयते स्थिरम्‌।
नाना नादाः प्रवर्तन्ते संस्रवेच्चन्द्रमण्डलम्‌॥ १२७॥

नश्यन्ति क्शुत्पिपासाद्याः सर्वदोषास्ततस्तदा।
स्वरूपे सच्चिदानन्दे स्थितिमाप्नोति केवलम्‌॥ १२८॥

कथितं तु तव प्रीत्या ह्येतदभ्यासलक्शणम्‌।
मन्त्रो लयो हठो राजयोगोऽन्तर्भूमिकाः क्रमात्‌॥ १२९॥

एक एव चतुर्धाऽयं महायोगोऽभिधीयते।
हकारेण बहिर्याति सकारेण विशेत्पुनः॥ १३०॥

हंसहंसेति मन्त्रोऽयं सर्वैर्जीवश्च जप्यते।
गुरुवाक्यात्सुषुम्नायां विपरीतो भवेज्जपः॥ १३१॥

सोऽहंसोऽहमिति प्रोक्तो मन्त्रयोगः स उच्यते।
प्रतीतिर्मन्त्रयोगाच्च जायते पश्चिमे पथि॥ १३२॥

हकारेण तु सूर्यः स्यात्सकारेणेन्दुरुच्यते।
सूर्याचन्द्रमसोरैक्यं हठ इत्यभिधीयते॥ १३३॥

हठेन ग्रस्यते जाड्यं सर्वदोषसमुद्भवम्‌।
क्शेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत्‌॥ १३४॥

तदैक्ये साधिते ब्रह्मंश्चित्तं याति विलीनताम्‌।
पवनः स्थैर्यमायाति लययोगोदये सति॥ १३५॥

लयात्संप्राप्यते सौख्यं स्वात्मानदं परं पदम्‌।
योनिमध्ये महाक्शेत्रे जपाबन्धूकसंनिभम्‌॥ १३६॥

रजो वसति जन्तूनां देवीतत्त्वं समावृतम्‌।
रजसो रेतसो योगाद्राजयोग इति स्मृतः॥ १३७॥

अणिमादिपदं प्राप्य राजते राजयोगतः।
प्राणापानसमायोगो ज्ञेयं योगचतुष्टयम्‌॥ १३८॥

संक्शेपात्कथितं ब्रह्मन्नान्यथा शिवभाषितम्‌।
क्रमेण प्राप्यते प्राप्यमभ्यासादेव नान्यथा॥ १३९॥

एकेनैव शरीरेण योगाभ्यासाच्छनैःशनैः।
चिरात्संप्राप्यते मुक्तिर्मर्कटक्रम एव सः॥ १४०॥

योगसिद्धिं विना देहः प्रमादाद्यदि नश्यति।
पूर्ववासनया युक्तः शरीरं चान्यदाप्नुयात्‌॥ १४१॥

ततः पुण्यवशात्सिद्धो गुरुणा सह संगतः।
पश्चिमद्वारमार्गेण जायते त्वरितं फलम्‌॥ १४२॥

पूर्वजन्मकृताभ्यासात्सत्त्वरं फलमश्नुते।
एतदेव हि विज्ञेयं तत्काकमतमुच्यते॥ १४३॥

नास्ति काकमतादन्यदभ्यासाख्यमतः परम्‌।
तेनैव प्राप्यते मुक्तिर्नान्यथा शिवभाषितम्‌॥ १४४॥

हठयोगक्रमात्काष्ठासहजीवलयादिकम्‌।
नाकृतं मोक्शमार्गं स्यात्प्रसिद्धां पश्चिमं विना॥ १४५॥

आदौ रोगाः प्रणश्यन्ति पश्चाज्जाड्यं शरीरजम्‌।
ततः समरसो भूत्वा चन्द्रो वर्षत्यनारतम्‌॥ १४६॥

धातूंश्च संग्रहेद्वह्निः पवनेन समन्ततः।
नाना नादाः प्रवर्तन्ते मार्दवं स्यात्कलेवरे॥ १४७॥

जित्वा वृष्ट्यादिकं जाड्यं खेचरः स भवेन्नरः।
सर्वज्ञोसौ भवेत्कामरूपः पवनवेगवान्‌॥ १४८॥

क्रीडते त्रिषु लिकेषु जायन्ते सिद्धयोऽखिलाः।
कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते॥ १४९॥

अहंकारक्शये तद्वद्देहे कठिना कुतः।
सर्वकर्ता च योगीन्द्रः स्वतन्त्रोऽनन्तरूपवान्‌॥ १५०॥

जीवन्मुक्तो महायोगी जायते नात्र संशयः।
द्विविधाः सिद्धयो लोके कल्पिताऽकल्पितास्तथा॥ १५१॥

रसौषधिक्रियाजालमन्त्राभ्यासाधिसाधनात्‌।
सिद्ध्यन्ति सिद्धयो यास्तु कल्पितास्ताः प्रकीर्तिताः॥ १५२॥

अनित्या अल्पवीर्यास्ताः सिद्धयः साधनोद्भवाः।
साधनेन विनाप्येवं जायन्ते स्वत एव हि॥ १५३॥

स्वात्मयोगैकनिष्ठेषु स्वातन्त्र्याद्दीश्वरप्रियाः।
प्रभूताः सिद्धयो यास्ताः कल्पनारहिताः स्मृताः॥ १५४।
सिद्धानित्या महावीर्या इच्छारूपाः स्वयोगजाः।
चिरकालात्प्रजायन्ते वासनारहितेषु च॥ १५५॥

तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये।
विना कार्यं सदा गुप्तं योगसिद्धस्य लक्शणम्‌॥ १५६॥

यथाकाशं समुद्दिश्य गच्छद्भिः पथिकैः पथि।
नाना तीर्थानि दृश्यन्ते नानामार्गास्तु सिद्धयः॥ १५७॥

स्वयमेव प्रजायन्ते लाभालाभविवर्जिते।
योगमार्गे तथैवेदं सिद्धिजालं प्रवर्तते॥ १५८॥

परीक्शकैः स्वर्णकारैर्हेम संप्रोच्यते यथा।
सिधिभिर्लक्शयेत्सिद्धं जीवन्मुक्तं तथैव च॥ १५९॥

अलौकिकगुणस्तस्य कदाचिद्दृश्यते ध्रुवम्‌।
सिद्धिभिः परिहीनं तु नरं बद्धं तु लक्शयेत्‌॥ १६०॥

अजरामरपिण्डो यो जीवन्मुक्तः स एव हि।
पशुकुक्कुटकीटाद्या मृतिं संप्राप्नुवन्ति वै॥ १६१॥

तेषां किं पिण्डपातेन मुक्तिर्भवति पद्मज।
न बहिः प्राण आयाति पिण्डस्य पतनं कुतः॥ १६२॥

पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते।
देहे ब्रह्मत्वमायाते जलानां सैन्धवं यथा॥ १६३॥

अनन्यतां यदा याति तदा मुक्तः स उच्यते।
विमतानि शरीराणि इन्द्रियाणि तथैव च॥ १६४॥

ब्रह्म देहत्वमापन्नं वारि बुद्बुदतामिव।
दशद्वार पुरं देहं दशनाडीमहापथम्‌॥ १६५॥

दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम्‌।
षडाधारापवरकं षडन्वयमहावनम्‌॥ १६६॥

चतुःपीठसमाकीर्णं चतुराम्नायदीपकम्‌।
बिन्दुनादमहालिङ्गं शिवशक्तिनिकेतनम्‌॥ १६७॥

देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम्‌।
गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम्‌॥ १६८॥

शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्शते।
यत्र कुण्डलिनीनाम परा शक्तिः प्रतिष्ठिता॥ १६९॥

यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते।
यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते॥ १७०॥

यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः।
तदेतत्कामरूपाख्यं पीठं कामफलप्रदम्‌॥ १७१॥

स्वाधिष्ठानाह्वयं चक्रं लिङ्गमूले षडस्रके।
नाभिदेशे स्थितं चक्रं दशारं मणिपूरकम्‌॥ १७२॥

द्वादशारं महाचक्रं हृदये चाप्यनाहतम्‌।
तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव॥ १७३॥

कण्ठकूपे विशुद्ध्याख्यं यच्चक्रं षोडशास्रकम्‌।
पीठं जालन्धर नाम तिष्ठत्यत्र सुरेश्वर॥ १७४॥

आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम्‌।
उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम्‌॥ १७५॥

चतुरस्रं धरण्यादौ ब्रह्मा तत्राधिदेवता।
अर्धचन्द्राकृति चलं विष्णुस्तस्याधिदेवता॥ १७६॥

त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता।
वायोर्बिम्बं तु षट्कोणमीश्वरोऽस्याधिदेवता॥ १७७॥

आकाशमण्डलं वृत्तं देवतास्य सदाशिवः।
नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः॥ १७८॥

इति प्रथमोऽध्यायः॥ १॥

पुनर्योगस्य माहात्म्यं श्रोतुमिच्छामि शङ्कर।
यस्य विज्ञानमात्रेण खेचरीसमतां व्रजेत्‌॥ १॥

शृणु ब्रह्मन्प्रवक्श्यामि गोपनीयं प्रयत्नतः।
द्वादशाब्दं तु शुश्रूषां यः कुर्यादप्रमादतः॥ २॥

तस्मै वाच्यं यथातथ्यं दान्ताय ब्रह्मचारिणे।
पाण्डित्यादर्थलोभाद्वा प्रमादाद्वा प्रयच्छति॥ ३॥

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम्‌।
मूलमन्त्रं विजानाति यो विद्वान्गुरुदर्शितम्‌॥ ४॥

शिवशक्तिमयं मन्त्रं मूलाधारात्समुत्थितम्‌।
तस्य मन्त्रस्य वै ब्रह्मञ्छ्रोता वक्ता च दुर्लभः॥ ५॥

एतत्पीठमिति प्रोक्तं नादलिङ्गं चिदात्मकम्‌।
तस्य विज्ञानमात्रेण जीवन्मुक्तो भवेज्जनः॥ ६॥

अणिमादिकमैश्वर्यमचिरादेव जायते।
मननात्प्राणनाच्चैव मद्रूपस्यावबोधनात्‌॥ ७॥

मन्त्रमित्युच्यते ब्रह्मन्मदधिष्ठानतोऽपि वा।
मूलत्वात्सर्वमन्त्राणां मूलाधारात्समुद्भवात्‌॥ ८॥

मूलस्वरूपलिङ्गत्वान्मूलमन्त्र इति स्मृतः।
सूक्श्मत्वात्कारणात्वाच्च लयनाद्गमनादपि॥ ९॥

लक्शणात्परमेशस्य लिङ्गमित्यभिधीयते।
संनिधानात्समस्तेषु जन्तुष्वपि च सन्ततम्‌॥ १०॥

सूचकत्वाच्च रूपस्य सूत्रमित्यभिधीयते।
महामाया महालक्श्मीर्महादेवी सरस्वती॥ ११॥

आधारशक्तिरव्यक्ता यया विश्वं प्रवर्तते।
सूक्श्माभा बिन्दुरूपेण पीठरूपेण वर्तते॥ १२॥

बिन्दुपीठं विनिर्भिद्य नादलिङ्गमुपस्थितम्‌।
प्राणेनोच्चार्यते ब्रह्मन्षण्मुखीकरणेन च॥ १३॥

गुरूपदेशमार्गेण सहसैव प्रकाशते।
स्थूलं सूक्श्मं परं चेति त्रिविधं ब्रह्मणो वपुः॥ १४॥

पञ्चब्रह्ममयं रूपं स्थूलं वैराजमुच्यते।
हिरण्यगर्भं सूक्श्मं तु नादं बीजत्रयात्मकम्‌॥ १५॥

परं ब्रह्म परं सत्यं सच्चिदानन्दलक्शणम्‌।
अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम्‌॥ १६॥

शुद्धं सूक्श्मं निराकारं निर्विकारं निरञ्जनम्‌।
अनन्तमपरिच्छेद्यमनूपममनामयम्‌॥ १७॥

आत्ममन्त्रसदाभ्यासात्परतत्त्वं प्रकाशते।
तदभिव्यक्तचिह्नानि सिद्धिद्वाराणि मे शृणु॥ १८॥

दीपज्वालेन्दुखद्योतविद्युन्नक्शत्रभास्वराः।
दृश्यन्ते सूक्श्मरूपेण सदा युक्तस्य योगिनः॥ १९॥

अणिमादिकमैश्वर्यमचिरात्तस्य जायते।
नास्ति नादात्परो मन्त्रो न देवः स्वात्मनः परः॥ २०॥

नानुसन्धेः परा पूजा न हि तृप्तेः परं मुखम्‌।
गोपनीयं प्रयत्नेन सर्वदा सिद्धिमिच्छता।
मद्भक्त एतद्विज्ञाय कृत कृत्यः सुखी भवेत्‌॥ २१॥

यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः॥ २२॥ इति॥

इति द्वितीयोऽध्यायः॥ २॥

यन्नमस्यं चिदाख्यातं यत्सिद्धीनां च कारणम्‌।
येन विज्ञातमात्रेण जन्मबन्धात्प्रमुच्यते॥ १॥

अक्शरं परमो नादः शब्दब्रह्मेति कथ्यते।
मूलाधारगता शक्तिः स्वाधारा बिन्दुरूपिणी॥ २॥

तस्यामुत्पद्यते नादः सूक्श्मबीजादिवाङ्कुरः।
तां पश्यन्तीं विदुर्विश्वं यया पश्यन्ति योगिनः॥ ३॥

हृदये व्यज्यते घोषो गर्जत्पर्जन्यसंनिभः।
तत्र स्थिता सुरेशान मध्यमेत्यभिधीयते॥ ४॥

प्राणेन च स्वराख्येन प्रथिता वैखरी पुनः।
शाखापल्लवरूपेण ताल्वादिस्थानघट्टनात्‌॥ ५॥

अकारादिक्शकारान्तान्यक्शराणि समीरयेत्‌।
अक्शरेभ्यः पदानि स्युः पदेभ्यो वाक्यसंभवः॥ ६॥

सर्वे वाक्यात्मका मन्त्रा वेदशास्त्राणि कृत्स्नशः।
पुराणानि च काव्यानि भाषाश्च विविधा अपि॥ ७॥

सप्तस्वराश्च गाथाश्च सर्वे नादसमुद्भवाः।
एषा सरस्वती देवी सर्वभूतगुहाश्रया॥ ८॥

वायुना वह्नियुक्तेन प्रेर्यमाणा शनैः शनैः।
तद्विवर्तपदैर्वाक्यैरित्येवं वर्तते सदा॥ ९॥

य इमां वैखरी शक्तिं योगी स्वात्मनि पश्यति।
स वाक्सिद्धिमवाप्नोति सरस्वत्याः प्रसादतः॥ १०॥

वेदशास्त्रपुराणानां स्वयं कर्ता भविष्यति।
यत्र बिन्दुश्च नादश्च सोमसूर्याग्निवायवः॥ ११॥

इन्द्रियाणि च सर्वाणि लयं गच्छन्ति सुव्रत।
वायवो यत्र लीयन्ते मनो यत्र विलीयते॥ १२॥

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः।
यस्मिंस्थितो न दुःखेन गुरुणापि विचाल्यते॥ १३॥

यत्रोपरमते चित्तं निरुद्धं योगसेवया।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति॥ १४॥

सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम्‌।
एतत्क्शराक्शरातीतमनक्शरमितीर्यते॥ १५॥

क्शरः सर्वाणि भूतानि सूत्रात्माऽक्शर उच्यते।
अक्शरं परमं ब्रह्म निर्विशेषं निरञ्जनम्‌॥ १६॥

अलक्शणमलक्शं तदप्रतर्क्यमनूपमम्‌।
अपारपारमच्छेद्यमचिन्त्यमतिनिर्मलम्‌॥ १७॥

आधारं सर्वभूतानामनाधारमनामयम्‌।
अप्रमाणमनिर्देश्यमप्रमेयमतीन्द्रियम्‌॥ १८                                                                                                      
अस्थूलमनणुह्रस्वमदीर्घमजमव्ययम्‌।
अशब्दमस्पर्शरूपमचक्शुःश्रोत्रनामकम्‌॥ १९॥

सर्वज्ञं सर्वगं शान्तं सर्वेषां हृदये स्थितम्‌।
सुसंवेद्यं गुरुमतात्सुदुर्बोधमचेतसाम्‌॥ २०॥

निष्कलं निर्गुणं शान्तं निर्विकारं निराश्रयम्‌।
निर्लेपकं निरापायं कूटस्थमचलं ध्रुवम्‌॥ २१॥

ज्योतिषामपि तज्ज्योतिस्तमःपारे प्रतिष्ठितम्‌।
भावाभावविनिर्मुक्तं भावनामात्रगोचरम्‌॥ २२॥

भक्तिगम्यं परं तत्त्वमन्तर्लीनेन चेतसा।
भावनामात्रमेवात्र कारणं पद्मसंभव॥ २३॥

यथा देहान्तरप्राप्तेः कारणं भावना नृणाम्‌।
विषयं ध्यायतः पुंसो विषये रमते मनः॥ २४॥

मामनुस्मरतश्चित्तं मय्येवात्र विलीयते।
सर्वज्ञत्वं परेशत्वं सर्वसंपूर्णशक्तिता।
अनन्तशक्तिमत्त्वं च मदनुस्मरणाद्भवेत्‌॥ २५॥ इति॥

इति तृतीयोऽध्यायः॥ ३॥

चैतनस्यैकरूपत्वद्भेदो युक्तो न कर्हिचित्‌।
जीवत्वं च तथा ज्ञेयं रज्ज्वां सर्पग्रहो यथा॥ १॥

रज्ज्वज्ञानात्क्शणेनैव यद्वद्रज्जुर्हि सर्पिणी।
भाति तद्वच्चितिः साक्शाद्विश्वाकारेण केवला॥ २॥

उपादानं प्रपञ्चस्य ब्रह्मणोऽन्यन्न विद्यते।
तस्मात्सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत्‌॥ ३॥

व्याप्यव्याप्यकता मिथ्या सर्वमात्मेति शासनात्‌।
इति ज्ञाते परे तत्त्वे भेदस्यावसरः कुतः॥ ४॥

ब्रह्मणः सर्वभूतानि जायन्ते परमात्मनः।
तस्मादेतानि ब्रह्मैव भवन्तीति विचिन्तय॥ ५॥

ब्रह्मैव सर्वनामानि रूपाणि विविधानि च।
कर्माण्यपि समग्राणि बिभर्तीति विभावय॥ ६॥

सुवर्णाज्जायमानस्य सुवर्णत्वं च शाश्वतम्‌।
ब्रह्मणो जायमानस्य ब्रह्मत्वं च तथा भवेत्‌॥ ७॥

स्वल्पमप्यन्तरं कृत्वा जीवात्मपरमात्मनोः।
यस्तिष्ठति विमूढात्मा भयं तस्यापि भाषितम्‌॥ ८॥

यदज्ञानद्भवेद्द्वैतमितरत्तत्प्रपश्यति।
आत्मत्वेन तदा सर्वं नेतरत्तत्र चाण्वपि॥ ९॥

अनुभूतोऽप्ययं लोको व्यवहारक्शमोऽपि सन्‌।
असद्रूपो यथा स्वप्न उत्तरक्शणबाधितः॥ १०॥

स्वप्ने जागरितं नास्ति जागरे स्वप्नता नहि।
द्वयमेव लये नास्ति लयोऽपि ह्यनयोर्न च॥ ११॥

त्रयमेव भवेन्मिथ्या गुणत्रयविनिर्मितम्‌।
अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः॥ १२॥

यद्वन्मृदि घटभ्रान्तिः शुक्तौ हि रजतस्थितिः।
तद्वद्ब्रह्मणि जीवत्वं वीक्शमाणे विनश्यति॥ १३॥

यथा मृदि घटो नाम कनके कुण्डलाभिधा।
शुक्तौ हि रजतख्यातिर्जीवशब्दस्तथा परे॥ १४॥

यथैव व्योम्नि नीलत्वं यथा नीरं मरुस्थले।
पुरुषत्वं यथा स्थाणौ तद्वद्विश्वं चिदात्मनि॥ १५॥

यथैव शून्यो वेतालो गन्धर्वाणं पुरं यथा।
यथाकाशे द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः॥ १६॥

यथा तरङ्गकल्लोलैर्जलमेव स्फुरत्यलम्‌।
घटनाम्ना यथा पृथ्वी पटनाम्ना हि तन्तवः॥ १७॥

जगन्नाम्ना चिदाभाति सर्वं ब्रह्मैव केवलम्‌।
यथा वन्ध्यासुतो नास्ति यथा नस्ति मरौ जलम्‌॥ १८॥

यथा नास्ति नभोवृक्शस्तथा नास्ति जगत्स्थितिः।
गृह्यमाने घटे यद्वन्मृत्तिका भाति वै बलात्‌॥ १९॥

वीक्श्यमाणे प्रपञ्चे तु ब्रह्मैवाभाति भासुरम्‌।
सदैवात्मा विशुद्धोऽस्मि ह्यशुद्धो भाति वै सदा॥ २०॥

यथैव द्विविधा रज्जुर्ज्ञानिनोऽज्ञानिनोऽनिशम्‌।
यथैव मृन्मयः कुंभस्तद्वद्देहोऽपि चिन्मयः॥ २१॥

आत्मानात्मविवेकोऽयं मुधैव क्रियते बुधैः॥

सर्पत्वेन यथा रज्जू रजतत्वेन शुक्तिका॥ २२॥

विनिर्णीता विमूढेन देहत्वेन तथात्मता।
घटत्वेन यथा पृथ्वी जलत्वेन मरीचिका॥ २३॥

गृहत्वेन हि काष्ठानि खड्गत्वेन हि लोहता।
तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः॥ २४॥ इति॥

इति चतुर्थोऽध्यायः॥ ४॥
पुनर्योगं प्रवक्श्यामि गुह्यं ब्रह्मस्वरूपकम्‌।
समाहितमना भूत्वा शृणु ब्रह्मन्यथाक्रमम्‌॥ १॥

दशद्वारपुरं देहं दशनाडीमहापथम्‌।
दशभिर्वायुभिर्व्याप्तं दशेन्द्रियपरिच्छदम्‌॥ २॥

षडाधारापवरकं षडन्वयमहावनम्‌।
चतुःपीठसमाकीर्णं चतुराम्नायदीपकम्‌॥ ३॥

बिन्दुनादमहालिङ्गविष्णुलक्श्मीनिकेतनम्‌।
देहं विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम्‌॥ ४॥

गुदमेढ्रान्तरालस्थं मूलाधारं त्रिकोणकम्‌।
शिवस्य जीवरूपस्य स्थानं तद्धि प्रचक्शते॥ ५॥

यत्र कुण्डलिनी नाम परा शक्तिः प्रतिष्ठिता।
यस्मादुत्पद्यते वायुर्यस्माद्वह्निः प्रवर्तते॥ ६॥

यस्मादुत्पद्यते बिन्दुर्यस्मान्नादः प्रवर्तते।
यस्मादुत्पद्यते हंसो यस्मादुत्पद्यते मनः॥ ७॥

तदेतत्कामरूपाख्यं पीठं कामफलप्रदम्‌।
स्वाधिष्ठानह्वयं चक्रं लिङ्गमूले षडस्रकम्‌॥ ८॥

नाभिदेशे स्थितं चक्रं दशास्रं मणिपूरकम्‌।
द्वादशारं महाचक्रं हृदये चाप्यनाहतम्‌॥ ९॥

तदेतत्पूर्णगिर्याख्यं पीठं कमलसंभव।
कण्ठकूपे विशुद्धाख्यं यच्चक्रं षोडशास्रकम्‌॥ १०॥

पीठं जालन्धरं नाम तिष्ठत्यत्र चतुर्मुख।
आज्ञा नाम भ्रुवोर्मध्ये द्विदलं चक्रमुत्तमम्‌॥ ११॥

उड्यानाख्यं महापीठमुपरिष्टात्प्रतिष्ठितम्‌।
स्थानान्येतानि देहेऽस्मिञ्छक्तिरूपं प्रकाशते॥ १२॥

चतुरस्रधरण्यादौ ब्रह्मा तत्राधिदेवता।
अर्धचन्द्राकृति जलं विष्णुस्तस्याधिदेवता॥ १३॥

त्रिकोणमण्डलं वह्नी रुद्रस्तस्याधिदेवता।
वायोर्बिंबं तु षट्कोणं संकर्षोऽत्राधिदेवता॥ १४॥

आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता।
नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं विदुः॥ १५॥

शांभवस्थानमेतत्ते वर्णितं पद्मसंभव।
अतः परं प्रवक्श्यामि नाडीचक्रस्य निर्णयम्‌॥ १६॥

मूलाधारत्रिकोणस्था सुषुम्ना द्वादशाङ्गुला।
मूलार्धच्छिन्नवंशाभा ब्रह्मनाडीति सा स्मृता॥ १७॥

इडा च पिङ्गला चैव तस्याः पार्श्वद्वये गते।
विलंबिन्यामनुस्यूते नासिकान्तमुपागते॥ १८॥

इडायां हेमरूपेण वायुर्वामेन गच्छति।
पिङ्गलायां तु सूर्यात्मा याति दक्शिणपार्श्वतः॥ १९॥

विलंबिनीति या नाडी व्यक्ता नाभौ प्रतिष्ठिता।
तत्र नाड्यः समुत्पन्नस्तिर्यगूर्ध्वमधोमुखाः॥ २०॥

तन्नाभिचक्रमित्युक्तं कुक्कुटाण्डमिव स्थितम्‌।
गान्धारी हस्तिजिह्वा च तस्मान्नेत्रद्वयं गते॥ २१॥

पूषा चालम्बुसा चैव श्रोत्रद्वयमुपागते।
शूरा नाम महानाडी तस्माद्भ्रूमध्यमाश्रिता॥ २२॥

विश्वोदरी तु या नाडी सा भुङ्क्तेऽन्नं चतुर्विधम्‌।
सरस्वती तु या नाडी सा जिह्वान्तं प्रसर्पति॥ २३॥

राकाह्वया तु या नाडी पीत्वा च सलिलं क्शणात्‌।
क्शुतमुत्पादयेद् घ्राणे श्लेष्माणं संचिनोति च॥ २४॥

कण्ठकूपोद्भवा नाडी शङ्खिनाख्या त्वधोमुखी।
अन्नसारं समादाय मूर्ध्नि संचिनुते सदा॥ २५॥

नाभेरधोगतास्तिस्रो जाडयः स्युरधोमुखः।
मलं त्यजेत्कुहूर्नाडी मूत्रं मुञ्चति वारुणी॥ २६॥

चित्राख्या सीविनि नाडी शुक्लमोचनकारणी।
नाडीचक्रमिति प्रोक्तं बिन्दुरूपमतः शृणु॥ २७॥

स्थूलं सूक्श्मं परं चेति त्रिविधं ब्रह्मणो वपुः।
स्थूलं शुक्लात्मकं बिन्दुः सूक्श्मं पञ्चाग्निरूपकम्‌॥ २८॥

सोमात्मकः परः प्रोक्तः सदा साक्शी सदाच्युतः।
पातालानामधोभागे कालाग्निर्यः प्रतिष्ठितः॥ २९॥

समूलाग्निः शरीरेऽग्निर्यस्मान्नादः प्रजायते।
वडवाग्निः शरीरस्थो ह्यस्थिमध्ये प्रवर्तते॥ ३०॥

काष्ठपाषाणयोर्वह्निर्ह्यस्थिमध्ये प्रवर्तते।
काष्ठपाषणजो वह्निः पार्थिवो ग्रहणीगतः॥ ३१॥

अन्तरिक्शगतो वह्निर्वैद्युतः स्वान्तरात्मकः।
नभस्थः सूर्यरूपोऽग्निर्नाभिमण्डलमाश्रितः॥ ३२॥

विषं वर्षति सूर्योऽसौ स्रवत्यमृतमुन्मुखः।
तालुमूले स्थितश्चन्द्रः सुधां वर्षत्यधोमुखः॥ ३३॥

भ्रूमध्यनिलयो बिन्दुः शुद्धस्फटिकसंनिभः।
महाविष्णोश्च देवस्य तत्सूक्श्मं रूपमुच्यते॥ ३४॥

एतत्पञ्चाग्निरूपं यो भावयेद्बुद्धिमान्धिया।
तेन भुक्तं च पीतं च हुतमेव न संशयः॥ ३५॥

सुखसंसेवितं स्वप्नं सुजीर्णमितभोजनम्।ज्।
शरीरशुद्धिं कृत्वादौ सुखमासनमास्थितः॥ ३६॥

प्राणस्य शोधयेन्मार्गं रेचपूरककुम्भकैः।
गुदमाकुञ्च्य यत्नेन मूलशक्तिं प्रपूजयेत्‌॥ ३७॥

नाभौ लिङ्गस्य मध्ये तु उड्यानाख्यं च बन्धयेत्‌।
उड्डीय याति तेनैव शक्तितोड्यानपीठकम्‌॥ ३८॥

कण्ठं सङ्कोचयेत्किंचिद्बन्धो जालन्धरि ह्ययम्‌।
बन्धयेत्खेचरि मुद्रां दृढचित्तः समाहितः॥ ३९॥

कपालविवरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी॥ ४०॥

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न पीयूषं पतत्यग्नौ न च वायुः प्रधावति॥ ४१॥

न क्शुधा न तृषा निद्रा नैवालस्यं प्रजायते।
न च मृत्युर्भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्‌॥ ४२॥

ततः पूर्वापरे व्योम्नि द्वादशान्तेऽच्युतात्मके।
उड्ड्यानपीठे निर्द्वन्द्वे निरालम्बे निरञ्जने॥ ४३॥

ततः पङ्कजमध्यस्थं चन्द्रमण्डलमध्यगम्‌।
नारायणमनुध्यायेत्स्रवतममृतं सदा॥ ४४॥

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्शीयन्ते चास्य कर्माणि तस्मिद्नृष्टे परावरे॥ ४५॥

अथ सिद्धिं प्रवक्श्यामि सुखोपायं सुरेश्वर।
जितेन्द्रियाणां शान्तानां जितश्वासविचेतसाम्‌॥ ४६॥

नादे मनोलयं ब्रह्मन्दूरश्रवणकारणम्‌।
बिन्दौ मनोलयं कृत्वा दूरदर्शनमाप्नुयात्‌॥ ४७॥

कालात्मनि मनो लीनं त्रिकालज्ञानकारणम्‌।
परकायमनोयोगः परकायप्रवेशकृत्‌॥ ४८॥

अमृतं चिन्तयेन्मूर्ध्नि क्शुत्तृषाविषशान्तये।
पृथिव्यां धारयेच्चित्तं पातालगमनं भवेत्‌॥ ४९॥

सलिले धारयेच्चित्तं नाम्भसा परिभूयते।
अग्नौ सन्धारयेच्चित्तमग्निना दह्यते न सः॥ ५०॥

वायौ मनोलयं कुर्यादाकाशगमनं भवेत्‌।
आकाशे धारयेच्चित्तमणिमादिकमाप्नुयात्‌॥ ५१॥

विराड्रूपे मनो युञ्जन्महिमानमवाप्नुयात्‌।
चतुर्मुखे मनो युञ्जञ्जगत्सृष्टिकरो भवेत्‌॥ ५२॥

इन्द्ररूपिणमात्मानं भावयन्मर्त्यभोगवान्‌।
विष्णुरूपे महायोगी पालयेदखिलं जगत्‌॥ ५३॥

रुद्ररूपे महायोगी संहरत्येव तेजसा।
नारायणे मनो युञ्जन्सर्वसिद्धिमवाप्नुयात्‌॥ ५४॥

यथा संकल्पयेद्योगी योगयुक्तो जितेन्द्रियः।
तथा तत्तदवाप्नोति भाव एवात्र कारणम्‌॥ ५५॥

गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवः सदाच्युतः।
न गुरोरधिकः कश्चित्त्रिषु लोकेषु विद्यते॥ ५६॥

दिव्यज्ञानोपदेष्टारं देशिकं परमेश्वरम्‌।
पूजयेत्परया भक्त्या तस्य ज्ञानफलं भवेत्‌॥ ५७॥

यथा गुरुस्तथैवेशो यथैवेशोस्तथा गुरुः।
पूजनीयो महाभक्त्या न भेदो विद्यतेऽनयोः॥ ५८॥

नाद्वैतवादं कुर्वीत गुरुणा सह कुत्रचित्‌।
अद्वैतं भावयेद्भक्त्या गुरोर्देवस्य चात्मनः॥ ५९॥

योगशिखां महागुह्यं यो जानाति महामतिः।
न तस्य किंचिदज्ञातं त्रिषु लोकेषु विद्यते॥ ६०॥

न पुण्यपापे नास्वस्थो न दुःखं न पराजयः।
न चास्ति पुनरावृत्तिरस्मिन्संसारमण्डले॥ ६१॥

सिद्धौ चित्तं न कुर्वीत चञ्चलत्वेन चेतसः।
तथा विज्ञाततत्त्वोऽसौ मुक्त एव न संशयः॥ ६२॥
इत्युपनिषत्‌॥ इति पञ्चमोऽध्यायः॥ ५॥
उपासनाप्रकारं मे ब्रूहि त्वं परमेश्वर।
येन विज्ञातमात्रेण मुक्तो भवति संसृतेः॥ १॥

उपासनाप्रकारं ते रहस्यं श्रुतिसारकम्‌।
हिरण्यगर्भ वक्श्यामि श्रुत्वा सम्यगुपासय॥ २॥

सुषुम्नायै कुण्डलीन्यै सुधायै चन्द्रमण्डलात्‌।
मनोन्मन्यै नमस्तुभ्यं महाशक्त्यै चिदात्मने॥ ३॥

शतं चैका च हृदयस्य नाड्य-
     स्तासां मूर्धानमभिनिःसृतैका।
तयोर्ध्वमायन्नमृतत्वमेति
     विश्वङ्ङ्न्या उत्क्रमणे भवन्ति॥ ४॥

एकोत्तरं नाडिशतं तासां मध्ये परा स्मृता।
सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी॥ ५॥

इडा तिष्ठति वामेन पिङ्गला दक्शिणेन तु।
तयोर्मध्ये परं स्थानं यस्तद्वेद स वेदवित्‌॥ ६॥

प्राणान्सन्धारयेत्तस्मिन्नासाभ्यान्तरचारिणः।
भूत्वा तत्रायतप्राणः शनैरेव समभ्यसेत्‌॥ ७॥

गुदस्य पृष्ठभागेऽस्मिन्वीणादन्डः स देहभृत्‌।
दीर्घास्तिदेहपर्यन्तं ब्रह्मनाडीति कथ्यते॥ ८॥

तस्यान्ते सुषिरं सूक्श्मं ब्रह्मनाडीति सूरभिः।
इडापिङ्गलयोर्मध्ये सुषुम्ना सूर्यरूपिणी॥ ९॥

सर्वं प्रतिष्ठितं तस्मिन्सर्वगं विश्वतोमुखम्‌।
तस्य मध्यगताः सूर्यसोमाग्निपरमेश्वराः॥ १०॥

भूतलोका दिशः क्शेत्राः समुद्राः पर्वताः शिलाः।
द्वीपाश्च निम्नगा वेदाः शास्त्रविद्याकलाक्शराः॥ ११॥

स्वरमन्त्रपुराणानि गुणाश्चैते च सर्वशः।
बीजं बीजात्मकस्तेषां क्शेत्रज्ञः प्राणवायवः॥ १२॥

सुषुम्नान्तर्गतं विश्वं तस्मिन्सर्वं प्रतिष्ठितम्‌।
नानानाडीप्रसवगं सर्वभूतान्तरात्मनि॥ १३॥

ऊर्ध्वमूलमधःशाखं वायुमार्गेण सर्वगम्‌।
द्विसप्ततिसहस्राणि नाड्यः स्युर्वायुगोचराः॥ १४॥

सर्वमार्गेण सुषिरास्तिर्यञ्चः सुषिरात्मताः।
अधश्चोर्ध्वं च कुण्डल्याः सर्वद्वारनिरोधनात्‌॥ १५॥

वायुना सह जीवोर्ध्वज्ञानान्मोक्शमवाप्नुयात्‌।
ज्ञात्वा सुषुम्नां तद्भेदं कृत्वा पायुं च मध्यगम्‌॥ १६॥

कृत्वा तु चैन्दवस्थाने घ्राणरन्ध्रे निरोधयेत्‌।
द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे॥ १७॥

सुषुम्ना शाम्भवी शक्तिः शेषास्त्वन्ये निरर्थकाः।
हृल्लेखे परमानन्दे तालुमूले व्यवस्थिते॥ १८॥

अत ऊर्ध्वं निरोधे तु मध्यमं मध्यमध्यमम्‌।
उच्चारयेत्परां शक्तिं ब्रह्मरन्ध्रनिवासिनीम्‌।
यदि भ्रमरसृष्टिः स्यात्संसारभ्रमणं त्यजेत्‌॥ १९॥

गमागमस्थं गमनादिशून्यं
     चिद्रूपदीपं तिमिरान्धनाशम्‌।
पश्यामि तं सर्वजनान्तरस्थं
     नमामि हंसं परमात्मरूपम्‌॥ २०॥

अनाहतस्य शब्दस्य तस्य शब्दस्य यो ध्वनिः।
ध्वनेरन्तर्गतं ज्योतिर्ज्योतिषोऽन्तर्गतं मनः।
तन्मनो विलयं याति तद्विष्णोः परमं पदम्‌॥ २१॥

केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती।
आधाराज्जायते विश्वं विश्वं तत्रैव लीयते॥ २२॥

तस्मात्सर्वप्रयत्नेन गुरुपादं समाश्रयेत्‌।
आधारशक्तिनिद्रायां विश्वं भवति निद्रया॥ २३॥

तस्यां शक्तिप्रबोधेन त्रैलोक्यं प्रतिबुध्यते।
आधारं यो विजानाति तमसः परमश्नुते॥ २४॥

तस्य विज्ञानमात्रेण नरः पापैः प्रमुच्यते॥ २५॥

आधारचक्रमहसा विद्युत्पुञ्जसमप्रभा।
तदा मुक्तिर्न सन्देहो यदि तुष्टः स्वयं गुरुः॥ २६॥

आधारचक्रमहसा पुण्यपापे निकृन्तयेत्‌।
आधारवातरोधेन लीयते गगनान्तरे॥ २७॥

आधारवातरोधेन शरीरं कंपते यदा।
आधारवातरोधेन योगी नृत्यति सर्वदा॥ २८॥

आधारवातरोधेन विश्वं तत्रैव दृश्यते।
सृष्टिमाधारमाधारमाधारे सर्वदेवताः।
आधारे सर्ववेदाश्च तस्मादाधारमाश्रयेत्‌॥ २९॥

आधारे पश्चिमे भागे त्रिवेणीसङ्गमो भवेत्‌।
तत्र स्नात्वा च पीत्वा च नरः पापात्प्रमुच्यते॥ ३०॥

आहारे पश्चिमं लिङ्गं कवाटं तत्र विद्यते।
तस्योद्घाटनमात्रेण मुच्यते भवबन्धनात्‌॥ ३१॥

आधारपश्चिमे भागे चन्द्रसूर्यौ स्थिरौ यदि।
तत्र तिष्ठति विश्वेशो ध्यात्वा ब्रह्ममयो भवेत्‌॥ ३२॥

आधारपश्चिमे भागे मूर्तिस्तिष्ठति संज्ञया।
षट् चक्राणि च निर्भिद्य ब्रह्मरन्ध्राद्बहिर्गतम्‌॥ ३३॥

वामदक्शे निरुन्धन्ति प्रविशन्ति सुषुम्नया।
ब्रह्मरन्ध्रं प्रविश्यान्तस्ते यान्ति परमां गतिम्‌॥ ३४॥

सुषुम्नायां यदा हंसस्त्वध ऊर्ध्वं प्रधावति।
सुषुम्नायां यदा प्राणं भ्रामयेद्यो निरन्तरम्‌॥ ३५॥

सुषुम्नायां यदा प्राणः स्थिरो भवति धीमताम्‌।
सुषुम्नायां प्रवेशेन चन्द्रसूर्यौ लयं गतौ॥ ३६॥

तदा समरसं भावं यो जानाति स योगवित्‌।
सुषुम्नायां यदा यस्य म्रियते मनसो रयः॥ ३७॥

सुषुम्नायां यदा योगी क्शणैकमपि तिष्टति।
सुषुम्नायां यदा योगी क्शणार्धमपि तिष्ठति॥ ३८॥

सुषुम्नायां यदा योगी सुलग्नो लवणाम्बुवत्‌।
सुषुम्नायां यदा योगी लीयते क्शीरनीरवत्‌॥ ३९॥

भिद्यते च तदा ग्रन्थिश्चिद्यन्ते सर्वसंशयाः।
क्शीयन्ते परमाकाशे ते यान्ति परमां गतिम्‌॥ ४०॥

गङ्गायां सागरे स्नात्वा नत्वा च मणिकर्णिकाम्‌।
मध्यनाडीविचारस्य कलां नार्हन्ति षोडशीम्‌॥ ४१॥

श्रीशैलदर्शनान्मुक्तिर्वाराणस्यां मृतस्य च।
केदारोदकपानेन मध्यनाडीप्रदर्शनात्‌॥ ४२॥

अश्वमेधसहस्राणि वाजपेयशतानि च।
सुषुम्नाध्यानयोगस्य कलां नार्हन्ति षोडशीम्‌॥ ४३॥

सुषुम्नायां सदा गोष्ठीं यः कश्चित्कुरुते नरः।
स मुक्तः सर्वपापेभ्यो निश्रेयसमवाप्नुयात्‌॥ ४४॥

सुषुम्नैव परं तीर्थं सुषुम्नैव परं जपः।
सुषुम्नैव परं ध्यानं सुषुम्नैव परा गतिः॥ ४५॥

अनेकयज्ञदानानि व्रतानि नियमास्तथा।
सुषुम्नाध्यानलेशस्य कलां नार्हन्ति षोडशीम्‌॥ ४६॥

ब्रह्मरन्ध्रे महास्थाने वर्तते सततं शिवा।
चिच्छक्तिः परमादेवी मध्यमे सुप्रतिष्ठिता॥ ४७॥

मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजे तथा।
नादरूपा पराशक्तिर्ललाटस्य तु मध्यमे॥ ४८॥

भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके।
बिन्दुमध्ये च जीवात्मा सूक्श्मरूपेण वर्तते॥ ४९॥

हृदये स्थूलरूपेण मध्यमेन तु मध्यगे॥ ५०॥

प्राणापानवशो जीवो ह्यधश्चोर्ध्वं च धावति।
वामदक्शिणमार्गेण चञ्चलत्वान्न दृश्यते॥ ५१॥

आक्शिप्तो भुजदण्डेन यथोच्चलति कन्दुकः।
प्राणापानसमाक्शिप्तस्तथा जीवो न विश्रमेत्‌॥ ५२॥

अपानः कर्षति प्राणं प्राणोऽपानं च कर्षति।
हकारेण बहिर्याति सकारेण विशेत्पुनः॥ ५३॥

हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा।
तद्विद्वानक्शरं नित्यं यो जानाति स योगवित्‌॥ ५४॥

कन्दोर्ध्वे कुण्डलीशक्तिर्मुक्तिरूपा हि योगिनाम्‌।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्‌॥ ५५॥

भूर्भुवःस्वरिमे लोकाश्चन्द्रसूर्याऽग्निदेवताः।
यासु मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति॥ ५६॥

त्रयः कालास्त्रयो देवास्त्रयो लोकास्त्रयः स्वराः।
त्रयो वेदाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ५७॥

चित्ते चलति संसारो निश्चलं मोक्श उच्यते।
तस्माच्चित्तं स्थिरीकुर्यात्प्रज्ञया परया विधे॥ ५८॥

चित्तं कारणमर्थानां तस्मिन्सति जगत्त्रयम्‌।
तस्मिन्क्शीणे जगत्क्शीणं तच्चिकित्स्यं प्रयत्नतः॥ ५९॥

मनोहं गगनाकारं मनोहं सर्वतोमुखम्‌।
मनोहं सर्वमात्मा च न मनः केवलः परः॥ ६०॥

मनः कर्माणि जायन्ते मनो लिप्यति पातकैः।
मनश्चेदुन्मनीभूयान्न पुण्यं न च पातकम्‌॥ ६१॥

मनसा मन आलोक्य वृत्तिशून्यं यदा भवेत्‌।
ततः परं परब्रह्म दृश्यते च सुदुर्लभम्‌॥ ६२॥

मनसा मन आलोक्य मुक्तो भवति योगवित्‌।
मनसा मन आलोक्य उन्मन्यन्तं सदा स्मरेत्‌॥ ६३॥

मनसा मन आलोक्य योगनिष्ठः सदा भवेत्‌।
मनसा मन आलोक्य दृश्यन्ते प्रत्यया दश॥ ६४॥

यदा प्रत्यया दृश्यन्ते तदा योगीश्वरो भवेत्‌॥ ६५॥

बिन्दुनादकलाज्योतीरवीन्दुध्रुवतारकम्‌।
शान्तं च तदतीतं च परंब्रह्म तदुच्यते॥ ६६॥

हसत्युल्लसति प्रीत्या क्रीडते मोदते तदा।
तनोति जीवनं बुद्ध्या बिभेति सर्वतोभयात्‌॥ ६७॥

रोध्यते बुध्यते शोके मुह्यते न च संपदा।
कंपते शत्रुकार्येषु कामेन रमते हसन्‌॥ ६८॥

स्मृत्वा कामरतं चित्तं विजानीयात्कलेवरे।
यत्र देशे वसेद्वायुश्चित्तं तद्वसति ध्रुवम्‌॥ ६९॥

मनश्चन्द्रो रविर्वायुर्दृष्टिरग्निरुदाहृतः।
बिन्दुनादकला ब्रह्मन् विष्णुब्रह्मेशदेवताः॥ ७०॥

सदा नादानुसन्धानात्संक्शीणा वासना भवेत्‌।
निरञ्जने विलीयेत मरुन्मनसि पद्मज॥ ७१॥

यो वै नादः स वै बिन्दुस्तद्वै चित्तं प्रकीर्तितम्‌।
नादो बिन्दुश्च चित्तं च त्रिभिरैक्यं प्रसादयेत्‌॥ ७२॥

मन एव हि बिन्दुश्च उत्पत्तिस्थितिकारणम्‌।
मनसोत्पद्यते बिन्दुर्यथा क्शीरं घृतात्मकम्‌॥ ७३॥

षट् चक्राणि परिज्ञात्वा प्रविशेत्सुखमण्डलम्‌।
प्रविशेद्वायुमाकृष्य तथैवोर्ध्वं नियोजयेत्‌॥ ७४॥
वायुं बिन्दुं तथा चक्रं चित्तं चैव समभ्यसेत्‌।
समाधिमेकेन समममृतं यान्ति योगिनः॥ ७५॥

यथाग्निर्दारुमध्यस्थो नोत्तिष्ठेन्मथनं विना।
विना चाभ्यासयोगेन ज्ञानदीपस्तथा नहि॥ ७६॥

घटमध्ये यथा दीपो बाह्ये नैव प्रकाशते।
भिन्ने तस्मिन् घटे चैव दीपज्वाला च भासते॥ ७७॥

स्वकायं घटमित्युक्तं यथा जीवो हि तत्पदम्‌।
गुरुवाक्यसमाभिन्ने ब्रह्मज्ञानं प्रकाशते॥ ७८॥

कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववदृढम्‌।
अभ्यासवासनाशक्त्या तरन्ति भवसागरम्‌॥ ७९॥

इत्युपनिषत्‌। इति योगशिखोपनिषदि षष्ठोऽध्यायः॥ ६॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै।
तेजस्विनवधीतमस्तु मा विद्विषावहै॥

ॐ शान्तिः शान्तिः शान्तिः॥ ॐ तत्सत्‌॥

इति योगशिखोपनिषत्समाप्ता॥

सिद्ध सिद्धन्त पद्धति

उप्देश १

आदिनाथं नमस्कृत्य शक्तियुक्तं जगद्गुरुम्।
वक्ष्ये गोरक्षनाथोऽहं सिद्धसिद्धान्तपद्धतिम्॥ १॥

नास्ति सत्यविचारेऽस्मिन्नुत्पत्तिश्चाण्डपिण्डयोः।
तथापि लोकवृत्त्यर्थं वक्ष्ये सत्सम्प्रदायतः॥ २॥

सा पिण्डोत्पत्त्यादिः सिद्धमते सम्यक् प्रसिद्धा पिण्डोत्पत्तिः पिण्डविचारः पिण्डसंवित्तिः पिण्डाधारः पिण्डपदसमरसभावः श्रीनित्यावधूतः॥ ३॥

यदा नास्ति स्वयं कर्ता कारणं न कुलाकुलम्।
अव्यक्तञ्च परं ब्रह्म अनामा विद्यते तदा॥ ४॥

अनामेति स्वयमनादिसिद्ध एकमेवानादिनिधनं सिद्धसिद्धान्तप्रसिद्धं तस्येच्छमात्रधर्माधर्मिणी निजा शक्तिः प्रसिद्धा॥ ५॥

तस्योन्मुखत्वमात्रेण पराशक्तिरुत्थिता॥ ६॥

तस्य स्पन्दनमात्रेण अपराशक्तिरुत्थिता॥ ७॥

ततोऽहंतार्थमात्रेण सूक्ष्मशक्तिरुत्पन्ना॥ ८॥

ततो वेदनशीला कुण्डलिनी शक्तिरुद्गता॥ ९॥

नित्यता निरञ्जनता निष्पन्दतानिराभासता निरुत्थान्ता इति पञ्चगुणा निजाशक्तिः॥ १०॥

अस्तिता अप्रमेयता अभिन्नता अनन्तता अव्यक्ता इति पञ्चगुणा पराशक्तिः॥ ११॥

स्फुरता स्फुटता स्फारता स्फोटता स्फूर्तितेति पञ्चगुणाऽपरा शक्तिः॥११॥

निरंशता निरन्तरता निश्चलता निश्चयता निर्विकल्पतेति पञ्चगुणा सूक्ष्माशक्तिः॥ १३॥

पूर्णता प्रतिबिम्बता प्रबलता प्रोच्चलता प्रत्यङ्मुखतेति कुण्डलिनी शक्तिः॥१४॥

एवं शक्तितत्त्वे पञ्च पञ्च गुणयोगात् परपिण्डोत्पत्तिः॥ १५॥

उक्तञ्च-
निजापराऽपरासूक्ष्माकुण्डलिन्यासु पञ्चधा।
शक्तिचक्रक्रमेणोत्थो जातः पिण्डपरः शिवः॥ १६॥

अपरम्परं परमपदं शून्यं निरञ्जनं परमोत्मेति॥ १७॥

अपरम्परात् स्फुरतामात्रमुत्पन्नं परमपदाद् भावनामात्रमुत्पन्नं शून्यात्स्वसत्तामात्रमुत्पन्नं निरञ्जनात् स्वसाक्षात्कारमात्रमुत्पन्नं परमात्मनः परमात्मोत्पन्नः॥ १८॥

अकलंकत्वमनुपमत्वमपारत्वममूर्तत्वमनुदयत्वमिति पञ्चगुणमपरम्परम्॥ १९॥

निष्कलत्वमणुतरत्वमचलत्वमसंख्यत्वमनाधारत्वमिति पञ्चगुणं परमपदम्॥। २०॥

लीनता पुर्णतोन्मनी लोलता मुर्च्छतेति पञ्चगुणं शून्यम्॥ २१॥


सत्यत्वं सहजत्वं समरसत्वं सावधानत्वं सर्वगतत्वमिति पञ्चगुणंनिरञ्जनम्॥ २२॥

अक्षयत्वमभेद्यत्वमच्छेद्यत्वमविनाशत्वमदाह्यत्वमिति पञ्चगुणः परमात्मा इत्यनादिपिण्डस्य पञ्चतत्वं पञ्चविंशति गुणाः॥ २३॥

उक्तञ्च-
अपरम्परं परमपदं शून्यं निरञ्जनपरमात्मानौ पञ्चभिरेतै सगुणैरनाद्यपिण्दः समुत्पन्नः॥ २४॥

अनाद्यात् परमानन्दः परमानन्दात् प्रबोधः प्रबोधाच्चिदुदयश्चदुदयात्चित्प्रकाशः चित्प्रकाशात् सोऽहं भावः॥ २५॥

उदय उल्लासोऽवभासो विकासः प्रभा इति पंचगुणः प्रबोधः॥ २७॥

सद्भावो विचारः कर्तृत्वं ज्ञातृत्वं स्वतन्त्रत्वमिति पंचगुणश्चिदुदयः॥२८॥

निर्विकारत्वं निष्कलत्वं निर्विकल्पत्वं समता विश्रान्तिरिति पञ्चगुणः चित्प्रकाशः॥२९॥

अहन्ताऽखण्डैश्वर्यं स्वात्मता विश्वानुभवसामर्थ्यं सर्वज्ञत्वमिति पञ्चगुणः सोऽहंभावः। इत्याद्यपिण्डस्य पञ्चतत्त्वं पञ्चविंशति गुणाः। परमानन्दः प्रबोधश्चिदुदयश्चित्प्रकाशः सोऽहंभाव इत्यन्त आद्यपिण्दो महातत्त्वयुक्तः समुत्थितः॥ ३०॥

आद्यान्महाकाशो महाकाशान्महावायुर्महावायोर्महातेजो महातेजसो महासलिलं महासलिलान्महापृथ्वी॥३१॥

अवाकाशोऽच्छिद्रमस्पृशत्वं नीलवर्णत्वं शब्दत्वमिति पञ्चगुण अवकाशः॥३२॥

सञ्चारः सञ्चालनं स्पर्शनं शोषनं धूम्रवर्णत्वमिति पञ्चगुणो महवायुः॥३३॥

दाहकत्वं पाचकत्वमुष्णत्वं प्रकाशत्वं रक्तवर्णत्वमिति पञ्चगुणं महातेजः॥३४॥

महाप्रवाह अप्यायनं द्रवो रसः श्वेतवर्णत्वमिति पञ्चगुणं सलिलम्॥३५॥

स्थूलता नानाकारता काठिन्यं गन्धः पीतवर्णत्वमिति पञ्चगुणामहापृथ्वी।
इति महासाकारपिण्डस्य पञ्चविंशति गुणाः॥३६॥

तद् ब्रह्मणः सकाशादवलोकनेन नरनारीरूपप्रकृतिपिण्डः समुत्पन्नस्तच्च पञ्चपञ्चात्मक शरीरम्॥३८॥

अस्थिमांसत्वङ् नाड़ीरोमाणीति पञ्चगुणा भूमिः॥३९॥

लाला मुत्रं शुक्रं शोणितं स्वेद इतिपञ्चगुणा आपः॥४०॥

क्षुधा तृषा निद्रा कान्तिरालस्यमिति पञ्चगुणं तेजः॥४१॥
kṣudhā tṛṣā nidrā kāntirālasyamiti pañcaguṇaṁ tejaḥ ||41||

धावनं भ्रमणं प्रसारणमाकुञ्चनं निरोधनमिति पञ्चगुणो वायुः॥४२॥

रागो द्वेषो भयं लज्जा मोह इति पञ्चगुन आकाशः इति पञ्चविंशति गुणानां भूतानां पिण्डः॥४३॥

मनो बुद्धिरहंकारश्चित्तं चैतन्यमित्यन्तःकरणः पञ्चकम्॥४४॥

संकल्पो विकल्पो मूर्च्छा जड़ता मननमिति पञ्चगुनं मनः॥४५॥

विवेको वैराग्यं शान्तिः संतोषः क्षमेति पंचगुणा बुद्धि॥४६॥

अभिमानं मदीयं मम सुखं मम दुःखं ममेदमिति पञ्चगुणोऽहंकारः॥४७॥
मतिर्धृतिस्मृतिस्त्यागः स्वीकार इति पञ्चगुणं चित्तम्॥४८॥

विमर्शः शीलनं धैर्यं चिन्तनं निःस्पृहत्वमिति पञ्चगुणं चैतयमेवमन्तःकरणगुणाः॥४९॥

सत्त्वं रजस्तमः कालो जीव इति कुलपञ्चकम्॥५०॥

दया धर्मः क्रियाभक्तिः श्रद्धेति पञ्चगुणं सत्त्वम्॥५१॥

दानं भोगः शृङ्गारो वस्तुग्रहणं स्वार्थसंग्रहणमिति पञ्चगुणं रजः॥५२॥

विवादः कलहः शोको वधो वञ्चनमिति पञ्चगुणं तमः॥५३॥

कलना कल्पना भ्रान्तिः प्रमादः अनर्थ इति पञ्चगुणः कालः॥५४॥

जाग्रत् स्वप्नः सुषुप्तिस्तुरीयातुर्यातीतमिति पञ्चगुण जीवः॥५५॥

इच्छा क्रिया माया प्रकृतिर्वागिति व्यक्तिपञ्चकम्॥५६॥

उन्मादो वासना वाञ्छा चिन्ता चेष्टेति पञ्चगुणेच्छा ५७॥

स्मरणं उद्योगः कार्यं निश्चयः स्वकुलाचार इति पञ्चगुणा क्रिया॥५८॥

मदो मात्सर्यं दम्भः कृत्रिमत्त्वमसत्यमिति पञ्चगुणा माया॥५९॥

आशा तृष्णा स्पृहा काङ्क्षामिथ्येति पञ्चगुणा प्रकृतिः॥६०॥

परा पश्यन्ती मध्यमा वैखरी मातृकेति पञगुणा वाक् इति व्यक्तिपञ्चकः पञ्चर्विशति गुणा॥६१॥

कर्म कामश्चन्द्रः सूर्योऽग्निरिति प्रत्यक्षकरणपञ्चकम्॥६२॥

शुभमशुभं यशोऽपकीर्तिरदृष्टफलसाधनमिति पञ्चगुणं कर्म॥६३॥

रतिः प्रीतिः क्रीडा कामना आतुरतेति पञगुणः कामः॥६४॥

उल्लोला कल्लोलिनी उच्चलन्ती उन्मादिनी तरङ्गिणी शोषिणी लम्पटा प्रवृत्ति लहरी लोला लेलिहाना प्रसरन्ती प्रवाहा सौम्या प्रसन्नता प्लवन्ती एवं चन्द्रस्य षोडशकला सप्तदशीकला निवृत्ति साऽमृतकला॥६५॥

तापिनी ग्रासिका उग्रा आकुञ्चनी शोषिणी प्रबोधिनी स्मरा आकर्षिणी तुष्टवर्धनी ऊर्मीरेखा किरणवती प्रभावतीति द्वादशकला सूर्यस्य त्रयोदशी स्वप्रकाशता निजकला॥६६॥

दीपका राजिका ज्वलिनी विस्फुलिङ्गिनी प्रचण्डा पाचिका रौद्री दाहिका रागिणी शिखावती इत्यग्नेर्दशकला एकादशी कला ज्योतिरिति प्रत्यक्षकरणगुणकलासमूहः॥६७॥

अथ नाडीनां दश द्वाराणि। इडापिङ्गला नासाद्वरयोर्वहतः सुषुम्णा नाडी तु ब्रह्मदण्डामार्गेण ब्रह्मरन्ध्रपर्यन्तं वहति सरस्वती मुखद्वारे वहति पूषाऽलम्बुषा चक्षुर्द्वारयोर्वहतो गान्धारी हस्तिजिह्विका च कर्णद्वारयोवहतः कुहूर्गुदाद्वारे वहति शंखिनी लिङ्गद्वारे वहति एवं दशद्वारेषु वहन्ति॥६८॥

अथ दशवायवः। हृदये प्राणवायुरूच्छ्वासनिःश्वासकारो हकारसकारात्मकश्चास्यैवावस्थाभेदे हठयोग इति सज्ञा हकारः कीर्तितः सूर्यष्ठकारश्चन्द्र उच्यते। सूर्याचन्द्रमसोर्योगाद् हठयोगो निगद्यते॥ गुदेत्वपानवायू रेचककुम्भकपूरकश्च नाभौ समानवायुर्दीपकः पाचकश्च सर्वाङ्ग व्यापकश्चालकश्च कूर्मवायुः
कम्पकश्चक्षरुन्मेषकारकश्च कृकल उद्गारकः क्षुत्कारकश्चदेवदत्तो मुखविजम्भकः धनञ्जयो नादघोषक इति दशवाय्ववलोकनेन पिण्डोत्पत्तिर्नरनारीरूपः॥६९॥

अथ गर्भोली पिण्डोत्पत्तिर्भवति नरनारीसंयोगे ऋतुकाले रजोविन्दुसंयोरे जीवः॥ ७०॥

प्रथमदिने कललं भवति सप्तरात्रे बुद्बुदाकारं भवति। अर्धमासे गोलाकारं भवति। मासमात्रेण कठिनं मासद्वयेन शिरो भवति। तृतीयामासि हस्तपादादिक भवति। चर्तुर्थे मासि चक्षुःकर्णादिनासिकामुखमेढ्रगुदं भवति। पञ्चमे मासि पृष्ठोदरौ भवतः। षष्ठे मासि नखकेशादिकं भवति।  सप्तमे मासे सर्वचेतन्युक्तो भवति। अष्टमे मासि सर्वलक्षणयुक्तो भवति । नवमे  मासि सत्यज़्ञानयुक्तो भवति। दशमे मासि योनिसंस्पर्शादज्ञानी बालको भवति॥७१॥

शुक्राधिकेषु पुरुषो रक्ताधिका कन्यका समशुक्ररक्ताभ्यां नपुंसकः परस्परं चिन्ताव्याकुलत्वादन्धः कुब्जो वामनः पङ्गु रङ्गहीनश्च भवति। परस्परं रतिकालेऽङ्गनिःपीडनकरगुणौः शुक्रो द्वस्त्रिवारं पतति येन द्वितीयो बालको भवति॥ ७२॥


सार्धपलत्रयं शुक्रं विंशतिपलं रक्तं द्वादशपलं मेदः दशपलं मज्जा शतपलं मांसं दशपलं पित्तं विंशतिपलं श्लेष्मा तद्वद्वातः स्यात् षष्टयधिकशतत्रयमस्थीन्यस्थिमात्रं सन्धयः सार्धत्रयकोटिरोमाकूपाणि पितृमातृवीर्यं भवति वातपित्तश्लेष्मधातुत्रयं दशधातुमयं शरीरमिति गर्भोत्थपिण्डोत्पत्तिः॥ ७३॥

इति शिवगोरक्षविरचितसिद्धसिद्धान्तपद्धतौ प्रथमोपदेशः॥

-------------------------------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------------------------------

द्वितीयोप्देशः

अत पिण्डविचारः कथ्यते॥

पिण्डे नवचक्राणि। आधारे ब्रह्मचक्रं त्रिधावर्तं भगमण्डलाकारं तत्र मूलकन्दस्तत्र शक्तिं पावकाकारां ध्यायेत् तत्रैव कामरूपपीठं सर्वकामप्रदं भवति॥१॥

द्वितीयं स्वाधिष्ठानं चक्रं तन्मध्ये पश्चिमाभिमुखलिङ्गं प्रवालाङ्कुरसदृशं ध्यायेत् तत्रैवोड्डीयानपीठं जगदाकर्षणं भवति॥२॥

तृतीयं नाभिचक्रं पञ्चावर्तं सर्पवत् कुण्डलाकारं तन्मध्ये कुण्डलिनीं शक्तिं बालार्ककोटिसदृशीं ध्यायेत् सा मध्यमा शक्तिः सर्वसिद्धिदा भवति॥३॥

चतुर्थं हृदयाधारमष्टदलकमलमधोमुखं तन्मध्ये कर्णिकायां लिङ्गाकारां ज्योतिरूपां ध्यायेत्। सैव हंसकला सर्वेन्द्रियाणि वश्यानि भवन्ति॥४॥

पञ्चमं कण्ठचक्रं चतुरङ्गुलं तत्र वाम इदा चन्द्रनाडी दक्षिणे पिङ्गला सूर्यनाडी तन्मध्ये सुषुम्णा ध्यायेत् सैवानाहतकलाऽनाहतसिद्धिर्भवति॥५॥

षष्ठं तालुचक्रं तत्रामृतधाराप्रवाहः घण्टिकालिङ्गमूलरन्ध्रराजदन्तं शंखिनीविवरं दशमद्वारं तत्र शून्यं  धयायेत् चित्तलयो भवति॥६॥

सप्तमं भ्रूचक्रं मध्यमंगुष्ठमात्रं ज्ञाननेत्रं दीपशिखाकारं ध्यायेद् वाचां सिद्धिर्भवति॥७॥

अष्टमं ब्रह्मरन्ध्रं निर्वणचक्रं सूचिकाग्रभेद्यं धूमशिखाकारं ध्यायेत् तत्र जालन्धरपीठं मोक्षप्रदं भवति॥८॥

नवममाकाशचक्रं षोडशदलकमलमूर्ध्वमुखं तन्मध्ये कर्णिकायां त्रिकूटाकारां तदूर्ध्वशक्तिं तां परमशून्यां ध्यायेत् तत्रैव पूर्णगिरिपीठं सर्वेच्छसिद्धिर्भवति। इति नवचक्रस्य विचारः॥९॥

अथ षोदशाधारः क्थ्यते तत्र प्रथमं पदाङ्गुष्ठाधारं तत्राग्रस्तेजोमयं ध्यायेत्। दृष्टिः स्थिरा भवति॥१०॥

द्वितीयं मूलाधारसूत्रं वामपार्ष्णिना निःपीडयितव्यम्। तत्राग्निदीपनं भवति॥११॥

तृतीयं गुदाधारं विकाससंकोचनेन निराकुञ्चयेत्। अपानवायुः स्थिरो भवति॥१२॥

चतुर्थं मेढ्राधारं लिङ्गसंकोचनेन ब्रह्मग्रन्थित्रयं भित्त्वा भ्रमणगुहायां विश्रम्य तत ऊर्ध्वमुखे विन्दुस्तम्भनं भवति। एषा वज्रोली प्रसिद्धा॥१३॥

पञ्चममोड्याणाधारयोर्बन्धनान्मलमूत्रसंकोचनं भवति॥१४॥

षष्ठे नाभ्याधार ओङ्कारमेकचित्तेनोच्चारिते नादलयो भवति॥१५॥

सप्तमे हृदयाधारे प्राणं निरोधयेत् कमलविकासो भवति॥१६॥

अष्टमे कण्ठाधारे कण्ठमूलं चिबुकेन निरोधयेत् इडापिङ्गलयोर्वायुः स्थिरो भवति॥१७॥

नवमे घण्टिकाधारे जिह्वाग्रं धारयेदमृतकला स्रवति॥१८॥

दशमे ताल्वाधारे ताल्वन्तर्गर्भे लम्बिकां चालनदोहनाम्यां दीर्धीकृत्वा विपरीतेन प्रवेशयेत् काष्ठी भवति॥१९॥

एकादशमथ जिह्वाधारं तत्र जिह्वाग्रं धारयेत् सर्वरोगनाशो भवति॥२०॥

द्वादशं भ्रूमाध्याधारं तत्र चन्द्रमण्डलं धारयेत् शीतलतां याती॥२१॥

त्रयोदशं नासाधारं तस्याग्रं लक्ष्येन्मनः स्थिरं भवेत्॥२२॥

चतुर्दशं नासामूलक कपाटाधारं तत्र दृष्टिं धारयेत् षण्मासाज्ज्योतिः पुञ्जं पश्यति॥२३॥

पञ्चदशं ललाटाधारं तत्र ज्योतिःपुञ्जं लक्षयेत् तेजस्वी भवति॥२४॥

अवशिष्टे षोडशे ब्रह्मरन्ध्र आकाशचक्रं तत्र श्रीगुरुचरणाम्बुजयुग्मं सदावलोकयेदाकाशवत्पूर्णो भवति। इति षोडशाधारः॥२५॥

अथ लक्ष्यत्रयन्तत्रतावदन्तर्लक्ष्यं कथ्यते। मूलकन्दाद् दण्डलग्नां ब्रह्मनाडीं श्वेतवर्णां ब्रह्मरन्ध्रपर्यन्तं गतां संस्मरेत् तन्मध्ये कमलतन्तुनिभां विद्युत्कोटिप्रभामूर्ध्वगामिनीं तां मूर्ति मनसा ध्यायेत् तत्र सर्वसिद्धिदा भवति॥२६॥

अथवा ललाटोर्ध्वे गोल्लाटमण्डपे स्फुरदाकारं लक्षयेदथवा भ्रमरगुहामध्य आरक्तभ्रमराकारं लक्षयेदथवा कर्णद्वयं तर्जनीभ्यां निरोधयेत् ततः शिरोमध्ये धूं धूं कारं नादं शृणोत्यथवा चक्षुर्मध्ये नीलज्योतिरूपं पुतल्याकारं लक्षयेदित्यन्तर्लक्ष्यम् ॥२७॥

बहिर्लक्ष्यं कथ्यते नासाग्राद् बहिरङ्गुलद्वयमारक्तं तेजस्तत्वं लक्षयेदथवा दशाङ्गुले कल्लोलवदप्तत्वं लक्षयेदथवा नासाग्राद् वा दशाङ्गुले पीतवर्णं पार्थिवतत्वं लक्षयेदथवाकाशमुखं दृष्ट्वाऽवलोकयेत् किरणानाकुलितं पश्यति सर्वं निर्मलीकरणमथवोर्ध्वदृष्ष्ट्यन्तरालं लक्षयेज्ज्योतिर्मुखानि पश्यत्यथवा तदभुन्तरं तत्राकाशं लक्षयेदाकाशसदृशचित्तं मुक्तिप्रदं भवत्यथवा दृष्ट्यन्तस्तप्तकाञ्चनसन्निभां भूमिं लक्षयेद् दृष्टिः स्थिरा भवति। इत्यनेकविध बहिर्लक्ष्यम्॥२८॥

बहिर्लक्ष्यं कथ्यते॥ नासाग्राद् बहिरङ्गुलचतुष्टये नीलज्योतिः संकाशं लक्षयेत्। अतवा नासाग्रात् षडण्गुल अधोवायुतत्वं धूम्रवर्णं लक्षयेदथवा अष्टांगुले आरक्तं तेजस्तत्वं लक्षयेदथवा दशाङ्गुले कल्लोलवदप्तत्वं लक्षयेदथवा नासाग्रात् द्वादशाङ्गुले पीतवर्णं पार्थिवतत्वं लक्षयेत्। अथवाकाशमुखं दृष्ट्वाऽवलोकयेत् किरणानाकुलितं पश्यति सर्वं निर्मलीकरणमथवोर्ध्वदृष्ष्ट्यन्तरालं लक्षयेज्ज्योतिर्मुखानि पश्यत्यथवा तदभ्यन्तरं तत्राकाशं लक्षयेदाकाशसदृशचित्तं मुक्तिप्रदं भवत्यथवा दृष्ट्यन्तस्तप्तकाञ्चनसन्निभां भूमिं लक्षयेद् दृष्टिः स्थिरा भवति। इत्यनेकविध बहिर्लक्ष्यम्॥२८॥  सेचोन्द्

अथ मध्यमं लक्ष्यं कथ्यते श्वेतवर्णं वा रक्तवर्णं वा कृष्णवर्णं वाग्निशिखाकारं वा ज्योतीरूपं वा विद्युदाकारं वा सूर्यमण्डलाकारं वाऽर्धचन्द्राकारं वा यथेष्ट स्वपिण्डमात्रं स्थानवर्जितं मनसा लक्षयेदित्यनेकविधं मध्यमं लक्ष्यम्॥२९॥

अथ व्योमपञ्चकं लक्षयेदाकाशं पराकाशं महाकाशं तत्त्वाकाशं सूर्याकाशमिति व्योमपञ्चकं बाह्याभ्यन्तरेऽत्यन्तं निर्मलं निराकारमाकाशं लक्षयेदथवा बाह्याभ्यन्तरेऽत्यन्तान्धकारनिभं परकाशमवलोकयेत् अथवाबाह्याभ्यन्तरे कालानलसंकाशं महाकाशमवलोकयेत् अथवा बाह्याभ्यन्तरे निजतत्वस्वरुपं तत्वाकाशवलोकयेत् अथवा वाह्याभ्यन्तरे सूर्यंकोटिनिभं सूर्याकाशमवलोकयेत् स्वयं व्योमपञ्चकावलोकनेन व्योमसदृशो भवति॥३०॥

उक्तञ्च
नवचक्रं कलाधारम् त्रिलक्ष्यं व्योमपञ्चकम्।
सम्यगेतन्न जानाति स योगी नामधारकः॥३१॥

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावङ्गानि। यम इति उपशमः सर्वेद्रियजयाहारनिद्राशीतवातातपजयश्चैवं शनैः शनैः साधयेत्॥३२॥

नियम इति मनीवृत्तिनां नियमनमित्येकान्तवासो निःसङ्गतौ दासीन्यं यथाप्राप्तिसन्तुष्टिर्वैरस्यं गुरुचरणावरूढत्वमितिनियमलक्षनम्॥३३॥

आसनमिति स्वस्वरूपे समासन्नता स्वस्तिकासनं पद्मासनं सिद्धासनमेतेषां मध्ये यथेष्टमेकं विधाय सावधानेन स्थातव्यम्। इत्यासनलक्षणम्॥३४॥

प्राणायाम इति प्राणस्य स्थिरता। रेचकपूरककुम्भक संघटकरणानि चत्वारि प्राणायामलक्षणानि॥३५॥

प्रत्याहारमिति चैतन्यतुरङ्गाणां प्रत्याहरणं विकारग्रसन उत्पन्नविकारस्यापि निवृत्तिर्निर्भातीति प्रत्याहारलक्षणम्॥३६॥

धारणेति सा बाह्याभ्यन्तर एकमेवनिजतत्वस्वरूपमेवान्तः करणेन साधयेत् यथा यद्यदुत्पद्यते तत्तन्निराकारे धारयेत् स्वात्मानं निर्वांतदीपमिव संधारयेदिति धारणालक्षणं॥३७॥

अथ ध्यानमिति कश्चन परमाद्वैतस्य भावः स एवात्मति यथा यद्यत्स्फुरति तत्तत्स्वरूपमेवेति भावयेत् सर्वभूतेषु समदृष्टिश्च इति ध्यानलक्षणम्॥३८॥

अथ समाधिलक्षणं सर्वतत्त्वानां समावस्था निरुद्यमत्त्वमनायासस्थितिमत्त्वमिति समाधिलक्षणम्। इत्यष्टाङ्गयोगलक्षणम्॥३९॥

॥इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डविचारो नाम द्वितीयोपदेशः॥

-------------------------------------------------------------------------------------------------------------

-------------------------------------------------------------------------------------------------------------


तृतीयोपदेशः

अथ पिण्ड संवित्तिः कथ्यते।
पिण्डमध्ये चराचरौ यो जानाति स योगी पिण्डसंवित्तिर्भवति॥ १॥

कूर्म पादतले वस्ति पातालं पादाङ्गुष्ठे तलातलमङ्गुष्ठाग्रे महातलं पादपृष्ठे रसातलं गुल्फे सुतलं जङ्घायां वितलं जान्वोरतलमूर्वेरेव सप्तपातालां रुद्रदेवाधिपतये तिष्ठति पिण्डमध्ये क्रोधरूपी भावः स एव कालाग्निरुद्रः॥ २॥

भुर्लोकं गुह्यस्थाने भुवर्लोकं लिङ्गस्थाने स्वर्लोकं नाभिस्थाने। एवं लोकत्रय इन्द्रो देवता पिण्डमध्ये सर्वेन्द्रियनियामकः स एवेन्द्रः। ३॥

दण्डाङ्कुरे महर्लिको दण्डकुहरे जनोलोको दण्डनाले तपो लोको मूलकमले सत्यलोक एवं लोकचतुष्टये ब्रह्मादिदेवता पिण्डमध्येऽनेकमानाभिमानस्वरूपो तिष्ठति॥ ४॥

विष्णुलोकः कुक्षौ तिष्ठति तत्र विष्णुर्देवता पिण्डमध्येऽनेकव्यापारको भवति। हृदये रुद्रलोकस्तत्र रुद्रो देवता पिण्डमध्ये उग्रस्वरूपी तिष्ठति। वक्षः स्थल इश्वरलोकस्तत्रेश्वरो देवता पिण्डमध्ये तृप्तिस्वरूपी तिष्ठति। कण्ठमध्ये नीलकण्ठलोकस्तत्र नीलकण्ठो देवता पिण्डमध्ये नित्यं तिष्ठति। तालुद्वारे शिवलोकस्तत्र शिवो देवता पिण्डमध्येऽनुपमस्वरूपी तिष्ठति। लम्बिकामूले भैरवलोकस्तत्र भैरवो देवता पिण्डमध्ये सर्वोत्तमस्वरूपी तिष्ठति। ललाटमध्येऽनादिलोकस्तत्रानादि देवता पिण्डमध्ये आनन्द पराहंतास्वरूपी तिष्ठति। शृंङ्गाटे कुललोकस्तत्रकुलेश्वरो देवता पिण्डमध्ये आनन्दस्वरूपी तिष्ठति। शङ्खमध्ये नलिनीस्थानेऽकुलेश्वरो देवता पिण्डमध्ये निरभिमानावस्था तिष्ठति। ब्रह्मरन्ध्रे परब्रह्मलोकस्तत्र परब्रह्म देवता पिण्डमध्ये परिपूर्णदशा तिष्ठति। ऊर्ध्वकमले लोकस्तत्र परमेश्वरो देवता पिण्डमध्ये परापरभावस्तिष्ठति। त्रिकूटस्थाने शक्तिलोकस्तत्र पराशक्तिर्देवता पिण्डमध्ये ऽस्तित्वावस्था सर्वासाण् सर्वासां सर्वकर्त्तृत्वावस्था तिष्ठति। एवं पिण्डमध्ये सप्तपातालसहितैकविंशति ब्रह्माण्डस्थानविचारः॥ ५॥

सदाचारतत्त्वे ब्राह्मणास्तिष्ठन्ति। शौर्ये क्षत्रिया व्यव्साये वैश्याः सेवाभावे शूद्राश्चतुष्षष्ठिकलास्वपि चतुष्षष्ठि वर्णाः॥ ६॥

अथ सप्तसमुद्राः सप्तद्वीपाश्च कथ्यन्ते। मज्जायां जम्बूद्वीपोऽस्थिषु शकद्वीपः शिरासु सुक्ष्मद्वीपश्चत्वक्षु क्रौञ्च द्वीपो रोमसु गोमय द्वीपो नखेषु श्वेतद्वीपो मांसे प्लक्षद्वीप एवं सप्तद्वीपाः॥ ७॥

मूत्रे क्षारसमुद्रो लालायां क्षीरसमुद्रः कफे दधिसमुद्रो मेदसि घृतसमुद्रो वसायां मधुसमुद्रो रक्ते इक्षुसमुद्रः शुक्रेऽमृत समुद्र एवं सप्तसमुद्राः॥ ८॥

नवखण्डा नवद्वारेषु वसन्ति। भारतखण्डः कर्परखण्डः काश्मीरखण्डः श्रीखण्ड शङ्खखण्ड एकपादखण्डो गान्धार खण्डः कैवर्त्तखण्डो महामेरुखण्ड एवं नवखण्डाः॥ ९॥

मेरुपर्वतो मेरुदण्ड तिष्ठति कैलासो ब्रह्मकपाटे वसति हिमालयः पृष्ठे मलयो वामकन्धरे मन्दरो दक्षिणकन्धरे विन्ध्याद्रिर्दक्षिणकर्णे मैनाको वामकर्णे श्रीपर्वतो ललाट एवमष्तकुलपर्वताः अन्य उपपर्वताः सर्वाङ्गुलिषु वसन्ति॥ १०॥

पीनसा यमुना गङ्गा चन्द्रभागा सरस्वति पिपासा शतरुद्रा श्रीरात्रिर्श्रीनर्मदा एवं नवनेद्यो नवनाडीषु वसन्ति। अन्य उपनद्यः कुल्योपकुल्याः द्विसप्ततिसहस्रनाडीषु वसन्ति॥ ११॥

सप्तविंशति नक्षत्राणि द्वादशराशयो नवग्रहाः पञ्चदशतिथय एतेऽन्तर्वलये द्विसप्ततिसहस्रकोष्ठेषु वसन्ति। अनेकतारामण्डलमूर्मिपुञ्जे वसति। त्रयस्त्रिंशत् कोटिदेवता बहुरोमकूपेषु वसन्ति। दानवयक्षराक्षसपिशाचभूतप्रेता अस्थिसन्धिषु वसन्ति। अनेकपीठोपपीठका रोमकूपेषु वसन्ति। अन्ये पर्वता उदरलोमसु वसन्ति। गन्धर्वकिंनरकिंपुरुषा अप्सरोगणा उदरे वसन्ति। अन्ये खेचरीलीलामातरः शक्तयः उग्रदेवता वायुवेगे वसन्ति। अनेकमेघा अश्रुपाते वसन्ति अनान्तसिद्धा मतिप्रकाशे वसन्ति। चन्द्रसूर्यौ नेत्रद्वये वसतः। अनेकवृक्षलता गुल्मतृणानि जङ्गारोमकस्थाने वसन्ति अनेककृमिकीटपतङ्गा पुरिषे वसन्ति॥ १२॥

यत्सुखं तत्स्वर्गं यद्दुःखं तन्नरकं यत्कर्मतद्बन्धनं यन्निर्विकल्पं तन्मुक्तिः स्वरूपदशायां निद्रादौ स्वात्मजागरः शान्तिर्भवति। एवं सर्वदेहेषु विश्वरूपपरमेश्वरः परमात्माऽखण्डस्वभावेन घटे ग़्हटे चित्स्वरूपो तिष्ठति। एवं पिण्डसंवित्तिर्भवति॥ १३॥

इतिश्रीगोरक्षरचितसिद्धसिद्धान्तपद्धतौ तृतीयोपदेशः।

-------------------------------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------------------------------


चतुर्थोपदेशः

अथपिण्डाधारः कथ्यते॥

अस्ति काचिदपरंपरा संवित्स्वरुपा
सर्वपिण्डाधारत्वेन नित्यप्रबुद्धा निजा शक्तिः प्रसिद्धा कार्यकारणकर्तृणामुत्थानदशाङ्कुरोन्मीलनेन कर्त्तारं करोतीत्यनन्तरावाधारशक्तिरिति कथ्यते। अत्यन्तनिजप्रकाशस्वसंवेद्यानुभवैकगम्यमाना शास्त्रलौकिकसाक्षात्कारसाक्षिणी सा परा चिद्रूपिणी शक्तिर्गीयते। सैव शक्तिर्यदा सहजेन स्वस्मिन्नुन्मीलिन्यां वर्तते तदा शिव स एव भवति। १।

अतएव कुलाकुलस्वरूपा सामरस्यनिजभूमिका निगद्यते। २।

कुलमिति परा सत्ताऽहंता स्फुरता कलास्वरूपेण सैव पञ्चधाविश्वस्याधारत्वेन तिष्ठति। ३।

अतएव परापरा निराभासावभासकान् प्रकाशस्वरूपा या सा परा ।४।

अनादिसंसिद्धं पारमाद्वैतपरमेकमेवास्तीति याऽङ्गीकारं करोति स सत्ता।५।

अनादिनिधनोऽप्रमेयः स्वभावकिरणानन्दोऽहमस्मीत्यहं सूचनशीला या सा पराऽहंता। ६।

स्वानुभवचित्तचमत्कारनिरूत्थानदशां प्रस्फुटी करोति या सा स्फुरता। ७।

नित्यशुद्धबुद्धस्वरूपस्वयंप्रकाशत्वमाकलयतीति  या सा पराकलेत्युच्यते। ८।
अकुलमिति जातिवर्णगोत्राद्यखिलनिमित्तत्वेनैकमेवास्तीति प्रसिद्धं तथा चोक्तमुमामहेशरसंवादेः
निरुत्तरेऽनन्यत्वादखण्डत्वादद्वयत्वादनन्य त्वान्निर्धर्मत्वादनामत्वादकुलस्यनिरुत्तरमिति। ९।

एवं कुलाकुलरूपा समरस्यप्रकाशभूमिकास्फुटीकरण एकैवमर्था या साऽपरंपरा शक्तिरेवावशिष्यते अपरंपरं निखिलविश्वप्रपञ्चजालं परतत्त्वं सम्पादयत्येकीकरोतीत्यपराशक्तिराज्ञवती प्रसिद्धा। १०।

अकुलकुलमाधत्ते कुलण्चकुलमिच्छति जलबुद्बुद्वन्न्यायादेकाकारः परः शिवः॥ ११॥

अतएवैकाकारोऽनन्तशक्तिमान् निजानान्दतयावस्थितोऽपि नानाकारत्वेन विलसन् स्वप्र्तिष्ठं स्वप्रतिष्ठां स्वयमेव भजतीति व्यव्हारः। अलुप्तशक्तिमान्नित्यं सर्वाकारतया स्फुरन्पुनः स्वेनैव रूपेण एकएवावशिष्यते॥ १२॥

अतएव परमकारणं परमेश्वरः परात्परः शिवः स्वस्वरूपतया सर्वतोमुखः सर्वाकारतया स्फुरितुं शक्नीतीत्यतः शक्तिमान् शिवोऽपि शक्तिरहितः शक्तः कर्तु न किञ्चन। स्वशक्त्यासाहित सोऽपि सर्वस्याभासका भवेत्॥ १३॥

अतएवानन्तशक्तिमान् परमेश्वरः स विश्वरूपीविश्वमयो भवतीति प्रसिद्धं सिद्धानां च परापरस्वरूपा कुण्डलिनी वर्तते । अतस्ते पिण्डसिद्धाः प्रसिद्ध सा कुण्डलिनी प्रबुद्धा अप्रबुद्धा चेति द्विधा। अप्रबुद्धेति तत्रपिण्डचेतनारूपा स्वभावेन नानाचिन्ताव्यापारोद्यमप्रपञ्चरूपा कुटिलस्वभावा कुण्डलिनी रव्याता सैव योगिनां तत्तद्विलसित विकाराणां निवारणोद्यमस्वरूपा कुण्डलिन्यूर्ध्वगामिनी प्रसिद्धा भवति॥ १४॥

ऊर्ध्वमिति सर्वतत्वान्यपि स्वस्वरूपमेवेत्यूर्ध्वे वर्तते अतएव सा विमर्शरूपिणि योगिनः स्वस्वरूपमवगच्छन्तीति सुप्रसिद्धा॥ १५॥

मध्यशक्तिप्रबोधेन अधःशक्तिनिकुञ्चनात्।
ऊर्ध्वशक्तिनिपातेन प्राप्यते परमं पदम्॥ १६॥

एकैवा सा मध्योधोर्ध्वाधः प्रभेदेन त्रिधा भिन्ना शक्तिरभिधीयते॥ १७॥

बाह्येन्द्रियव्यापारनानचिन्तामया सैवाधः शक्तिरि त्युच्यते। अतएव योगिनस्तस्या आकुञ्चने रता यस्या आकुञ्चन मूलाधारबन्धनात्सिद्धं स्यात्॥ १८॥

यस्माच्चराचरं जगदिदं चिदचिदात्मकं प्रभवति तदेव मूलाधारं संवित्प्रसरं प्रसिद्धम्॥ १९॥

सर्वशक्तिप्रसरसंकोचाभ्यां जगत्सृष्टिः संहृतिश्चभवत्येव न सन्देहस्तस्मात्सा मूलमित्युच्यते। अतः प्रायेण सर्वे सिद्धा मूलाधाररता भवन्ति॥ २०॥

तरङ्गितस्वभावं जीवात्मानं वृथाभ्रमनतमपि स्वप्रकाश मध्ये स्वस्वरूपतया सदा धारयितुं समर्था या सा कुण्डलिनी मध्याशक्तिर्गीयते स्थूलसूक्ष्मरूपेण महासिद्धानां प्रतीयत इति निश्चयः॥ २१॥

स्थूलेति निखिलग्राह्याधारविग्राह्य स्वरूपापि पदार्थन्तरे भ्राम्यमाणा चिद्रूपा या वर्तते सा कुण्डलिनी साकारास्थूलापुनस्त्वियमेव स्वप्रसारचातुर्यतया वर्तमाना योगिनां परमानन्दतया कुण्डलिनी या निश्चयभूता वर्तते सा सुक्ष्मा निराकारा प्रबुद्धा महासिद्धानां मते प्रसिद्धा॥ २२॥

सृष्टिकुण्डलिनी ख्याता द्विधा भागवती तु सा। एकधा स्थूलरूपा च लोकानां प्रत्यगात्मिका। अपरा सर्वगा सूक्ष्मा व्याप्ति व्यापकवर्जिता। तस्या भेदं न जानाति मोहिता प्रत्ययेन तु॥ २३॥

तस्मात् सूक्ष्मापरा संवित्स्वरूपा मध्या शक्ति कुण्डलिनी योगिभिर्देहसिद्ध्यर्थ सद्गुरुमुखाज्ज्ञात्वा स्वस्वरूपदशायां प्रबोधनीया॥ २४॥

अथ ऊर्ध्वशक्तिनिपातः कथ्यते सर्वेषां तत्त्वानामुपरिवर्तमानत्वान्निर्नाम परमं पदमेवमूर्ध्वप्र्सिद्धं तस्याः स्वसंवेदन नानासाक्षात्कारसूचनशीलाया सोर्ध्वशक्तिरभिधीयते तस्या निपातममिति स्वस्वरूपद्विधाभासनिरासः किन्तु स्वस्वरूपाखण्डत्वेन भवति॥ २५॥

शिवस्याभ्यन्तरे शक्ति शक्तेराभ्यतरः शिवः।
अन्तरं नैव जानीयाच्चन्द्रचन्द्रिकयोरिव॥ २६॥

अत ऊर्ध्वशक्तिनिपातेन योगिभिः परमं पदं प्राप्यत इति सिद्धम्॥ २७॥

सत्त्वे सत्त्वे सकलरचना राजते संविदेका
तत्त्वे तत्त्वे परममहिमा संविदेवावभाति।
भावे भावे बहुलतरला लम्पटा संविदेषा
भासे भासे भजनचतुरा बृंहिता संविदेव॥ २८॥

किमुक्तं भवति परावरविमर्शरूपिणी संविन्नानाशक्तिरूपेण निखिलपिण्डाधारत्वेन वर्त्तते इति सिद्धान्तः॥ २९॥

इति शिवगोराक्षविरचितसिद्धसिद्धान्तपद्धतौ चतुर्थोपदेशः॥

-------------------------------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------------------------------

पञ्चमोपदेशः

अथ पिण्डपदयोः समरसकरणं कथ्यते-
महासिद्धयोगिभिः पूर्वोक्तक्रमेण परपिण्डादिस्वपिण्डान्तं ज्ञात्वा परमपदे समरसं कूर्यात्॥१॥

परमपदमिति स्वसंवेद्यं अत्यन्ताभासाभासकमयं॥२॥

उक्तं तत्त्वसंहितायामः-
यत्र बुद्धिर्मनो नास्ति तत्त्वविन्नापरा कला।
ऊहापोहौ न कर्तव्यौ वाचा तत्र करोति किम्॥
वाग्मिना गुरूणा सम्यक् कथं तत्पदमियते ।
तस्मादुक्तं शिवेनैव स्वसंवेद्यं परंपदम्॥३॥

अतएव नानाविधि- विचारचातुर्य-चर्चा विस्मयां गत्वा कृपातत्वमात्रेण निर्णीतत्वात् स्वसंवेद्यमेव परमं पदम् प्रसिद्धमिति सिद्धान्तः॥४॥

गुरुरत्र सम्यक् सन्मार्गदर्शनशीलो भवति।
सन्मार्गो योगमार्गस्तदितरः पाषंडमार्गः।

तदुक्तमादिनाथेनः-
योगमार्गेषु तंत्रेषु दीक्षितास्तांश्च दूषकाः।
ते हि पाषंडिनः प्रोक्ताः तथा तैः सहवासिनः॥५॥

यस्मिन् दर्शोते सति तत्क्षणात् स्वसंवेद्यसाक्षात्कारः
समुत्पद्यते। ततो गुरुरेवात्र कारणमुच्यते॥ ६॥

तस्माद्गुरुकटाक्षपातात् स्वसंवेद्यतया च महासिद्धयोगिभिः स्वकीयं पिण्डं निरुत्थानानुभवेन समरसं क्रियते इति सिद्धान्तः ॥ ७॥

तद्यथा-निरुत्थानप्राप्त्युपायः कथ्यते।
महासिद्धयोगिनः स्वस्वरूपतयानुसन्धानेन निजावेशो भवाति
निजावेशान्निपीदित- निरुत्थान- दशा- महोदयः कश्चिज्जायते।
ततः सच्चिदानन्द- चमत्कारात् अद्भुताकारप्रकाशप्रबोधो जायते।
प्रबोधादखिलमेतद् द्वयाद्वय्- प्रक्टतया चैतन्यभासाभासकं परात्परं पदमेव प्रस्फुटं भवतीति सत्यं॥ ८॥

अत एव महासिद्धयोगिभिः सम्यक्।उक्त। गुरुप्रसादं लब्ध्वाऽवधान- बलेनैक्यं भजमानैस्तत्क्षणात् परमं पदमेवानुभुयते॥ ९॥

तदनुभवबलेन स्वकीयं सिद्धं सम्यक् निजपिण्डं परिज्ञात्वा तमेव परमपदे एकीकृत्य तस्मिन् प्रत्यावृत्यारूढेवाभ्यन्तरे स्वपिण्ड सिद्ध्यर्थं महत्त्वमनुभूयते॥ १०॥

निजपिण्डमिति स्वरूपकिरणानन्दोन्मेषमात्रं यस्योन्मेषस्य प्रत्याहरणमेव समरसकरणं भवति॥ ११॥

अतएव स्वकीयं पिण्डं महारश्मिपुंजं स्वेनैवाकारेण प्रतीयमानं स्वानुसन्धानेन स्वस्मिन्नुररीकृत्य महासिद्धयोगिनः पिण्डसिद्ध्यर्थं तिष्ठन्तीति प्रसिद्धम्॥ १२॥

अथ पिण्डसिद्धौ वेषः कथ्यते-
शंखमुद्राधारणञ्च केशरोमप्रधारणम्।
अमरीपानममलं तथा मर्दनमुत्तमम्॥ १३॥

एकान्तवासो दीक्षा च सन्ध्या जपमाश्रया।
झानभैरवमूर्तेस्तु तत्पूजा च सुरादिभिः॥ १४।

शंखाध्मातं सिंहनादं कौपीनं पादुका तथा।
अङ्गवस्त्रं बहिर्वस्त्रं कम्बलं छत्रमद्भुतम्॥ १५॥

वेत्रं कमंडलुञ्चैव भस्मना च त्रिपुण्डूकम् ।
कूर्यादेतान् प्रयत्नेन गुरुवन्दनपूर्वकम्।
तेषां पिण्डसिद्धौ सत्यां सर्वसिद्धयः सन्निधाना भवन्ति॥ १७॥

उक्तञ्चः-

यस्मिन् ज्ञाते जगत्सर्वं सिद्धं भवति लीलया।
सिद्धयः स्वयमायान्ति तस्माद् ज्ञेयं परमं पदम्॥ १८॥

परं पदं न वेषेण प्राप्यते परमार्थतः।
देहमूलं हि वेषं स्याल्लोकप्रत्ययहेतुकम्॥ १९॥

लोके निकृष्टमुत्कृष्टं परिगृह्य पृथक् कृतम्।
तत्स्वधर्म इति प्रोक्तो योगमार्गे विशेषतः॥ २०॥

योगमार्गात्परो मार्गो नास्ति नास्ति श्रुतौ स्मृतौ॥ २१॥

शास्त्रेष्वन्येषु सर्वेषु शिवेन कथितः पुरा।
योगः सन्नहनोपायो ज्ञानसंगतियुक्तिषु॥२२॥

लोके निकृष्टं सततं यं वा यं वा प्रकुर्वतो।
तं वा तं वा वर्जयन्ति लोकज्ञानबलेन तु॥ २३॥

मनुष्याणां च सर्वेषां प्राक्संस्कारवशादिह।
शास्त्र-युक्ति-समाचारः क्रमेण भवति स्फुटम्॥ २४॥

एवं पिण्डे संसिद्धे ज्ञानप्राप्त्यर्थं तच्च परमपदं महासिद्धानां मतं परिज्ञाय तस्मिन्नहंभावे जीवात्मा च सहजसंयम-सोपायाद्वैतक्रमेणोपलक्ष्यते॥ २५॥

तत्र सहजमिति।
विश्वातीतं परमेश्वरं विश्वरूपेणावभासमानमिति
एकमेवस्तीति स्वस्वभावेन यद् ज्ञानं तत्सहजं प्रसिद्धम्॥ २६॥

संयम इति। सावधानानां प्रस्फुरद्-व्यापाराणां निजवृत्तीनां
संयमनं कृत्वा आत्मनि धीयते इति संयमः॥ २७॥

सोपायमिति। स्वयमेव प्रकाशमयं स्वेनैव स्वात्मन्येकी
कृत्य सदा तत्त्वेन स्थातव्यम्॥ २८॥

अद्वैतमिति। अकर्तृतयैव योगी नित्यतृप्तो निर्विकल्पः सदा
निरुथानत्वेन तिष्टति॥२९॥

उक्तञ्चः-
सहजं स्वात्मसंवित्तिः संयमः स्वात्मनिग्रहः।
सोपायः स्वस्य विश्रान्तिरद्वैतं परमं पदम्॥ ३०॥

तज्ज्ञेयं सद्गुरोर्वक्त्रात् नान्यथा शास्त्रकोटिभिः।
न तर्कशब्दविज्ञानान्नाचारद्वेदपाठनात्॥३१॥

वेदान्तश्रवणान्नैव तत्त्वमस्यादिबोधनात्।
न हंसोच्चारणाज्जीवब्रह्मणोरैक्यभावनात्॥ ३२॥

न ध्यानान्न लयाल्लीनः सर्वज्ञः सिद्धिपारगः
स्वेच्छो योगी स्वयंकर्ता लीलया चाजरोऽमरः॥ ३३॥

अवध्यो देवदैत्यानां क्रीडते भैरवो यथा।
इत्येवं निश्चलो योऽसौ क्रमादाग्नोति लीलया॥ ३४॥

असाध्याः सिद्धयः सर्वाः सद्गुरोः करुणां विना।
प्रथमे त्वरोगतासिद्धिः सर्वलोकप्रियो भवेत्।
कांक्षते दर्शनं तस्य स्वात्मारूढस्य नित्यशः॥ ३५॥

कृतार्थः स्याद्वितीये तु कुरुते सर्वभाषया।
तृतिये दिव्यदेहस्तु व्यालैर्व्याघ्रैर्न बध्यते॥३६॥

चतुर्थे क्षुत्तृषानिद्राशीततापविवर्जितः।
जायते दिव्ययोगीशो दूरश्रावी न संशयः॥ ३७॥

वाक्सिद्धिः पण्चमे वर्षे पुरकयप्रवेशनम्।
षष्ठे न छिद्यते शस्तैर्वज्रपातैर्न वाध्यते॥ ३८ ॥

वयुवेगी क्षितित्यागी दूर्दर्शी च सप्तमे।
अणिमादिगुणोपेतस्त्वष्टमे वत्सरे भवेत्॥ ३९॥

नवमे वज्रकायः स्यात् खेचरो दिक्चरो भवेत्।
दशमे पवनाद वेगी यत्रेच्छा तत्र धावति॥ ४०॥

सम्यगेकादशे वर्षे सर्वज्ञः सिद्धिभाग्भवेत्।
द्वादशे शिवतुल्योऽसौ कर्ता हर्ता स्वयं भवेत्॥ ४१॥

त्रैलोक्ये पूज्यते सिद्धः सत्यं श्रीभैरवो यथा।
एवं द्वादशवर्षेषु सिद्धयोगी महाबलः॥
जायते सद्गुरोः पादप्रभावान्नात्र संशयः॥ ४२॥

अनुवुभूषितयोनिजविश्रमं स गुरूपादसरोरुहमाश्रयेत्।
तदनुससरणात्परमं पदं समरसीकरणं न च दूरतः॥ ४५॥

गुरुकुलसन्तानं पञ्चधा प्रोक्तम्।

आईसन्तानं विलेश्वर सन्तानं विभूतिसन्तानं नाथसन्तानं योगीश्वरसन्तानञ्चेति एषामपि सन्तानानां पृथक् पृथक् वैशिष्ट्यं वर्तते॥ ४३॥

परमार्थतः सर्व पाञ्चभौतिकं न जाताः पुरुषाः सम्बोधमत्रैकरूपः शिवस्तदितरत्सर्वमज्ञानमव्यक्तं भवति तत्र शिवस्तु ज्ञानं॥ ४४॥

एतेषामपि सन्तानानां केचित्स्वरूपपरङ्मुखाः वेशमात्रसम्पन्नाः क्रयविक्रयादिकं कुर्वन्ति सन्तानभेदं प्रत्यन्योऽन्यमधः कुर्वन्ति योगमार्गं द्वेषयान्ति॥ ४५॥

रजसा घोरसंकल्पाः कामुकाः अतिमन्यवः।
दाम्भिकाः मानिनः पापाः धिक्कुर्वन्त्यीश्वरप्रियान्॥ ४६॥

सधुसङ्गमसच्छास्त्रपरमानन्दलक्षितान्।
स्वेच्छाचारविहारैकज्ञानविज्ञानसंयुतान्॥ ४७॥

यूयं  दुष्टा वयं शिष्टा भ्रष्टा यूयं वयं तथा।
इत्ययेवं परिवदन्ति संप्रमोहे निरन्तरम्॥ ४८॥

पृत्वी जलं तथा वह्निः वायुराकाशमेव च
एते सन्तानोदयास्यु सम्यगेव प्रकीर्तिताः॥ ४९॥

काठिन्यञ्चार्द्रता तेजो धावनं स्थिरता खलु।
गुणान्येतानि पञ्चैव सन्तानानां क्रमात्स्मृताः॥ ५०॥

ब्रह्मा विष्णुश्च रुद्रश्च इश्वरश्च सदाशिवः
एताश्च देवताः प्रोक्ताः सन्तानानां क्रमेण तु॥ ५१॥

स्थूलसुक्ष्मकारणतुर्यं तुर्यातीतमिति पञ्चावस्थाः क्रमेण लक्ष्यन्ते। एतेषामपि सर्वेषां विज्ञाता यः स योगी स सिद्धपुरुषः स योगीश्वरेश्वर इति परमरहस्यं प्रकाशितम्॥ ५२॥

अतव सम्यक् निजविश्रान्तिकारकं महासिद्धयोगिनं सद्गुरुं सेवयित्वा सम्यक् सावधानेन परमं पदं सम्पाद्य तस्मिन्निजपिण्डे च समरसभावं कृत्वाऽत्यन्तनिरुत्थानेन सर्वानन्दतत्त्वे निश्चलं स्थातव्यं। ततः स्वयमेव महासिद्धो भवतीति सत्यम्॥ ५३॥

न विधिर्नैव वर्णश्च न वर्ज्यावर्ज्यकल्पना।
न भदोनिधनं किञ्चिन्नाशौचं नोदकक्रिया॥ ५४॥

योगीश्वरेश्वरस्यैवं नित्यतृप्तस्य योगिनः।
चित्स्वात्मसुखविश्रान्तिभावलब्धस्य पुण्यतः॥ ५५॥

सम्यक् स्वभावविज्ञानात् क्रमाभ्यासान्न चासनात्।
न वैराग्यान्न नैराश्यान्नाहारात्प्राण धारणात्॥ ५६॥

न मुद्राधारणाद्योगान्मौनकर्मसमाश्रयात्।
न विरक्तौ वृथायासान्न कायक्लेशधारणात्॥ ५७॥

न देवार्चनाश्रयाद्भक्त्या नाश्रमाणाञ्च पालनात्।
न षड्दर्शनकेशादिधारणान्न च मुण्डनात्॥ ५८॥

न जपान्न तपोध्यानान्न यज्ञतीर्थसेवनात्।
नानन्तोपययत्नेभ्यः प्राप्यते परम पदम्॥ ५९॥

एतानि साधनानि सर्वाणि दैहिकानि परित्यज्य परमपदेऽदैहिके स्थीयते सिद्धपुरुषैरिति॥ ६०॥

तत्कथं। गुरुदृक्पातनात् प्रायो दृढानां सत्यवादिनां सा स्थितिर्जायते॥ ६१॥

कथनाच्छक्तिपातद्वा यद्वापदवलोकनात्।
प्रसादात्स्वगुरोः सम्यक् प्राप्यते परमं पदम्॥ ६२॥

अतएव शिवेनोक्तम्।
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः॥ ६३॥

वाङ्मात्राद्वाथदृक्पाताद् य करोति च तत्क्षणात्।
प्रस्फुटं शाम्भवं वेद्यं स्वसंवेद्यं परं पदम्॥ ६४॥

करुणाखण्डपातेनच्छित्त्वा पाशाष्टकं शिशोः।
सम्यगनन्दजनकः सद्गुरुः सोऽभिधीयते॥ ६५॥

निमिषार्धर्धपाताद् वा यद्वापादावलोकनात्।
स्वात्मानां स्थिरमाधत्ते तस्मै श्रीगुरवे नमः॥ ६६॥

नानाविकल्पविश्रान्तिं कथया कुरुते तु यः।
सद्गुरुः स तु विज्ञेयो न तु मिथ्याविडम्बकः॥

अतएव परमपदप्राप्त्यर्थं स सद्गुरुः सदा वन्दनीयः॥ ६७॥

गुरुरिति गृणाति शं सम्यक् चैतन्यविश्रान्तिमुपदिशति विश्रान्त्या स्वयमेव परात्परं परमपदमेव प्रस्फुटं भवति तत्क्षणात् साक्षात्कारो भवति॥ ७१॥

अतएव महासिद्धानं मते प्रोक्तं वाङ्मात्रेण सम्यग्वलोकनेन वा तत्क्षणान्मुहूर्विश्रान्तियुक्तं करोतीति यः स सद्गुरुर्भवति।
नोचेन्निजविश्रान्ति विना पिण्डपदयोः समरसकरणं न भवतीति सिद्धान्तस्तस्मान्निजविश्रान्तिकारकः सद्गुरुर्भिधीयते नान्यः।
पुनर्वागादिशस्त्रदृष्ट्यनुमानतर्कमुद्रया भ्रामको गुरुस्त्याज्यः॥  ७२॥

उक्तञ्चः-

ज्ञानहीनो गुरुस्त्याज्यो मिथ्यावादीविडम्बकः।
स्वविश्रान्तिं न जानाति परेषां स करोति किम्॥ ७३॥

शिलया किं परं पारं शिलासंघः प्रतार्यते।
स्वयंतीर्णो भवेद्योऽसौ परान्निस्तारयत्यलम्॥ ७४॥

विकल्पसागराद् घोराच्चिन्ताकल्लोलदुस्तरात्।
प्रपञ्चवासनादुष्टग्रहजालसमाकुलात्॥ ७५॥

वासनालहरीवेगाम्न स्वं तारयितुं क्षमः।
स्वस्थेनैवोपदेशेन निरुत्थानेन तत्क्षणात्॥ ७६॥

तारयत्येवदृक्पातात् कथनाद्वा विलोकनात्।
तारिते स्वपदं धत्ते स्वस्वमध्ये स्थिरो भवेत्॥ ७७॥

ततः स मुच्यते शिष्यो जन्मसंसारबन्धनात्।
परानन्दमयोभूत्वा निष्कलः शिवतां व्रजेत्॥ ७८॥

कुलानां कोटिकोटीनां तारयत्येवा तत्क्षणात्।
अतस्तु सद्गुरुं साक्षात् त्रिकालमभिवन्दयेत्॥ ७९॥

सर्वाङ्गप्रणिपातेन स्तुवन्नित्यं गुरुं भजेत्।
स जनः स्थैर्यमाप्नोति स्वस्वरूपमयो भवेत्॥ ८०॥

किमत्र बहुनोक्तेन शास्त्रकोटिशतेन च।
दुर्लभा चित्तविश्रान्तिर्विना गुरुकृपां पराम्॥ ८१॥

चित्तविश्रान्तिलब्धानां योगिनां दृढचेतसाम्।
स्वस्वमध्ये निमग्नानां निरुत्थानं विशेषतः॥ ८२॥

निमिषात् प्रस्फुटं भाति दुर्लभं परमं पदम्।
यस्मिन् पिण्डो भवेल्लीनः सहसा नात्र संशयः॥ ८३॥

संवित्क्रियाविकरणोदयचिद्विलासो
विश्रान्तिमेव भजतां स्वयमेव भाति।
ग्रस्ते स्ववेगनिचये पदपिण्डमैक्यं
सत्यं भवेत्समरसं गुरुवत्सलानाम्॥ ८४॥

इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ पिण्डपदयोः समरसकरणं नाम पञ्चमोपदेशः॥ ५॥

-------------------------------------------------------------------------------------------------------------
-------------------------------------------------------------------------------------------------------------

षष्ठोपदेशः

अथ कोऽवधूतयोगीनामेत्यपेक्षायामाह।
यः सर्वान् प्रकृतिविकारानववधुनोतीत्यवधूतः योगी। योगोऽस्यास्तीति योगी। धूञ्कम्पने धूञिति धातुः कम्पनार्थे वर्तते। कम्पनं चालनं देह दैहिक प्रतंचादिषु विषयेषु संगतं मनः परिगृह्य तेभ्यः प्रत्याहृत्य स्वधाममहिम्नि परिलीन चेताः प्रपञ्चशून्य आदिमध्यान्तनिधनभेदवर्जितः॥ १॥

यकारो वायुबीजं स्याद्रकारो वह्निबीजकम्।
तयोरभेदओंकारश्चिदाकारः प्रकिर्तितः॥ २॥

तदेतद् व्यक्तमुच्यते
क्लेशपाशतरङ्गाणां कृन्तनेन विमुण्डनम्।
सर्वावास्थाविनिर्मुक्तः सोऽवधूतोऽभिधीयते॥ ३॥

निजस्मरविभूतिर्यो योगी स्वाङ्गे विभूषितः।
आधारे यस्य वा रूढिः सोऽवधूतोऽभिधीयते॥ ४॥

लोकमध्ये स्थिरासीनः समस्तकलनोज्झितः।
कौपीनं खर्परोऽदैन्यं सोऽवधूतोऽभिधीयते॥ ५॥

शं सुखं खं परं ब्रह्म शंखं सङ्घट्टनाद् भवेत्
सिद्धान्तो धारितो येन सोऽवधूतोऽभिधीयते॥ ६॥

पादुका पदसंवित्तिर्मृगत्वक् स्यादनाहतम्।
शेली यस्य परासंवित् सोऽवधूतोऽभिधीयते॥ ७॥

मेखला निवृत्तिर्नित्यं स्वस्वरूपं कटासनम्।
निवृत्तिः षड्विकारेभ्यः सोऽवधूतोऽभिधीयते॥ ८॥

चित्प्रकाशपरानन्दौ यस्य वै कुण्डलद्वयम्।
जपमालाक्षविश्रान्ति सोऽवधूतोऽभिधीयते॥ ९॥

यस्य धैर्यमयोदण्डः पराकाशञ्च खर्परम्।
योगपट्टो निजा शक्तिः सोऽवधूतोऽभिधीयते॥ १०॥

भेदभेदौ स्वयं भिक्षां कृत्वा स्वास्वादने रतः।
जारणातन्मयो भावः सोऽवधूतोऽभिधीयते॥ ११॥

अचिन्त्ये निजदिग्देशे स्वान्तरं वस्तु गच्छति।
एकदेशान्तरीयो यः सोऽवधूतोऽभिधीयते॥ १२॥

स्वपिण्डममरीकर्तुमनन्ताममरीं च यः।
स्वयमेवपिवेदेतां सोऽवधूतोऽभिधीयते॥ १३॥

अचिन्त्यावज्रवद्गाढ़ा वासनामलसंकुला।
सा वज्री भक्षिता येन सोऽवधूतोऽभिधीयते॥ १४॥

आवर्तयति यः सम्यक् स्वस्वमध्ये स्वयं सदा।
समत्वेन जगद् वेत्ति सोऽवधूतोऽभिधीयते॥ १५॥

स्वात्मानमवगच्छेद्यः स्वात्मन्येवावतिष्ठते।
अनुत्थानमयः सम्यक् सोऽवधूतोऽभिधीयते॥ १६॥

अनुत्थाधारसम्पन्नः परविश्रान्तिपारगः।
धृतिचिन्मयतत्वज्ञः सोऽवधूतोऽभिधीयते॥ १७॥

अव्यक्तं व्यक्तमाधत्ते व्यक्तं सर्वं ग्रसत्यलम्।
स सत्यं स्वान्तरे सन्न सोऽवधूतोऽभिधीयते॥ १८॥

अवभासात्मको भासः प्रकाशे सुखसंस्थितः।
लीलयारमते लोके सोऽवधूतोऽभिधीयते॥

क्वचिद्भोगी क्वचित्त्यागी क्वचिन्नग्नोदिगम्बरः।
क्वचिद्राजा क्वचाचारी सोऽवधूतोऽभिधीयते॥ १९॥

एवंविध नानासंकेतसूचको नित्यप्रकाशे वस्तुनि निजस्वरूपी सर्वेषां सिद्धान्तदर्शनानां स्वस्वरूपदर्शने सम्यक् सद्बोधकोऽवधूत योगीत्यभिधीत्ये स सद्गुरुर्भवति। यतः सर्वदर्शनानं स्वस्वरूपदर्शने समन्वयं करोति सोऽवदूतयोगी स्यात्॥ २०॥

अत्याश्रमी च योगी च ज्ञानी सिद्धश्च सुव्रतः।
इश्वरश्च तथा स्वामी धन्यः श्रीसाधुरेव च॥ २१॥

जितेन्द्रियश्च भगवान् स सुधी कोविदो बुधः।
चार्वाक्श्चार्हतश्चेति तथा बौद्धः प्रकाशवित्॥ २२॥

तार्किकश्चेति सांख्यश्च तथा मीमांसको विदुः।
देवतेत्यादिविद्वद्भिः कीर्तितः शस्त्रकोटिभिः॥ २३॥

आत्मेति परमात्मेति जीवात्मेति पुनः स्वयं।
अस्तितत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम्॥ २४॥

शरीरपद्मकुहरे यत्सर्वेषामवस्थितम्।
तदवश्यं महापाशच्छेदितव्यं मुमुक्षुभिः॥ २५॥

ब्रह्मा विष्णुश्च रुद्रश्च सोऽक्षरः परमस्वराट्।
स एवेन्द्रः स च प्राणः कालाग्निः स च चन्द्रमाः॥ २६॥

स एव सूर्यः स शिवः स एव परमः शिवः।
स एव योगगम्यश्च सांख्यशास्त्रपरायणैः ॥ २७॥

स एव कर्म इत्युक्तः कर्ममीमांसकौरपि।
सर्वत्र सत्परानन्द इत्युक्तो वैदिकैरपि॥ २८॥

व्यवहारैरयं भेदस्तस्मादेकस्य नान्यथा॥ २९॥

मुद मोदे तु र देने जीवात्मरमात्मनोः।
उभयोरेकसंवित्तिर्मुद्रेति परिकीर्तिता॥ ३०॥  

मोदन्ते देवसङ्घाश्च द्रवन्तेऽसुरराशयः।
मुद्रेति कथिता साक्षात् सदा भद्रार्थदायिनी॥ ३१॥

अस्मिन्मार्गेऽदीक्षिता ये सदा संसाररागिणः।
तेहि पाखण्डिनः प्रोक्ताः संसारपरिपेलवाः॥ ३२॥

अवधूततनुर्योगी निराकारपदे स्थितः।
सर्वेषां दर्शनानञ्च स्वस्वरूपं प्रकाशते॥ ३३॥

तत्र ब्राह्मणेषु ब्रह्मचर्याश्रममाहः

सर्वतो भरिताकारं निजबोधेम बृंहितम्।
चरते ब्रह्मविद्यस्तु ब्रह्मचारी स कथ्यते॥ ३४॥

ग्रृहिणी पूर्णता नित्या गेहं व्योमं सदा बलम्।
यस्तया निवसत्यत्र गृहस्थः सअभिधीयते॥ ३५॥

तदान्तः प्रस्थितो योऽसौ स्वप्रकाशमये वने।
वानप्रस्थः स विज्ञेयो न वने मृगवच्चरन्॥ ३६॥

परमात्माऽथ जीवात्मा आत्मन्येव स्फुरत्यलम्।
तस्मिन्न्यस्त सदा येन संन्यासीसोऽभिधीयते॥ ३७॥

मायाकर्मकलाजालमनिशं येन दण्डितम्।
अचलो नगवद्भाति त्रिदण्डी सोऽभिधीयते॥ ३८॥

एकं नानाविधाकारं चञ्चलन्तु सदा तु यत्।
तच्चित्तं दण्डतं येन एकदण्डी स कथ्यते॥ ३९॥

शुद्धं शान्तं निराकारं परानन्दं सदोदितम्।
तं शिवं यो विजानाति शुद्ध शैवो भवेत्तु सः॥ ४०॥

सन्तापयति दीप्तानि स्वेन्द्रियाणि च यः सदा।
तापसः स तु विज्ञेयो न च गोभस्मधारकः॥ ४१॥

क्रियाजालं पशुं हत्वा पतित्वं पूर्णतां गतम्।
यस्तिष्टेत्पशुभावेना स वै पाशुपतो भवेत्॥ ४२॥

परानन्दमयं लिङ्गं निजपीठे सदाऽचले।
तल्लिङ्गं पूजतं येन स वै कालमुखो भवेत्॥ ४३॥

विलयं सर्वतात्वानां कृत्वा संधार्यते स्थिरम्।
सर्वदा येन वीरेण लिङ्गदारी भवेत्तु सः॥ ४४॥

अन्तकादीनि तत्त्वानि त्यक्त्वा नग्नो दिगम्बरः।
यो निर्वाणपदे लीनः स निर्वाणपरो भवेत्॥ ४५॥

स्वस्वरूपात्मकं ज्ञानं समन्त्रं तत्प्रपालितम्।
अनन्यत्वं सदा येन स वै कापालिको भवेत्॥ ४६॥

महाव्याप्तिपरं तत्त्वमाधाराधेयवर्जितम्।
तद् व्रतं धारितं येन स भवेद् वै महाव्रतः॥ ४७॥

कुलं सर्वात्मकं पिण्डमकुलं सर्वतोमुखम्।
तयोरैक्यपदं शक्तिर्यस्तां वेद स शक्तिभाक्॥ ४८॥

कौलं सर्वकलाग्रासः सकृतः सततं यया।
तां शक्तिंयो विजानाति शक्त्ज्ञानी स कथ्यते।
ज्ञात्वा कुलाकुलं तत्वं सक्रमेण क्रमेण तु।
स्वप्रकाशमहाशक्त्या ततः शक्तिपदं लभेत्॥ ४९॥

मदो मद्यं मतिर्मुद्रा माया मीनं मनः पलम्।
मूर्च्छनं मैथुनं यस्य तेनाऽसौ शाक्त उच्यते॥ ५०॥

यया भासस्फुरद्रूपण् कृतं चैव स्फुटं बलात्।
तां शक्तिं यो विजानाति शाक्तः सोऽत्राभिधीयते॥ ५१॥

यः करोति निरुत्थानं कर्तृचित्प्रसरेत्सदा।
तद्विश्रान्तिस्तया शक्त्या  शाक्तः सोऽत्राभिधीयते॥ ५२॥

व्यापकत्वे परं सारं यद्विष्णोराद्यमव्ययम्।
विश्रान्तिदायकं देहे तज्ज्ञात्वा वैष्णवो भवेत्॥ ५३॥

भास्वत्स्वरूपो यो भेदात् भेदभावोज्झितः खलु।
भाति देहे सदा यस्य स वै भागवतो भवेत्॥ ५४॥

यो वेत्ति वैष्णवं भेदं सर्वासर्वमयं निजम्।
प्रबुद्धं सर्वदेहस्थं भेदवादी भवेत्तु  सः ॥ ५५॥

पञ्चानामक्षया हानिः पञ्चत्वं रात्रिरुच्यते।
तां रात्रिं यो विजानाति स भवेत्पञ्चरात्रिकः॥ ५६॥

येन जीवन्ति जीवा वै मुक्तिं यान्ति च तत्क्षणात्।
स जीवो विदितो येन सदाजीवी स कथ्यते॥ ५७॥
यः करोति सदा प्रीतिं प्रसन्ने पुरुषे परे।
शसितानीन्द्रियाण्येव सात्त्विकः सैऽभिधीयते॥ ५८॥

सर्वाकारं निराकारं निर्निमित्तं निरञ्जनम्।
सूक्ष्मं हंसं च यो वेत्ति स भवेत्सूक्ष्मसात्त्विकः॥ ५९॥

सत्यमेकमजं नित्यमनन्तं चाक्षयं ध्रुवम्।
ज्ञात्वा यस्तु वदेद्धीरः सत्यवादी स कथ्यते॥ ६०॥

ज्ञानज्ञेयमयाभ्यां तु योगिनः स्वस्वभावतः।
कलङ्की स तु विज्ञेयो व्यापकः पुरुषोत्तमः॥६१॥

मुक्तिचारे  मतिर्या वै व्यापिका स्वप्रकाशिका।
एषा ज्ञानवती येन ज्ञाऽतासौ सत्विको भवेत्॥ ६२॥

क्षपणं चित्तवृत्तीनां रागद्वेषविलुण्ठनम्।
कुरुते व्योमवन्नग्नो योऽसौ क्षपणको भवेत्।
प्रसरं भासते शक्तिः सङ्कोचं भासते शिवः।
तयोर्योगस्य कर्ता यः स भवेत्सिद्धयोगिराट्॥ ६३॥

विश्वातीतं यथा विश्वमेकमेव विराजते।
संयोगेन सदा यस्तु सिद्धयोगी भवेत्तु सः॥६४॥

सर्वासां निजवृत्तिनां प्रसृतिर्भजते लयम्।
स भवेत्सिद्धसिद्धान्ते सिद्धयोगी महाबलः॥ ६५॥

उदासीनः सदा शान्तः स्वस्थोऽन्तर्निजभासकः।
महानन्दमयो धीरः स भवेत् सिद्धयोगिराट्॥ ६६॥

परिपूर्णः प्रसन्नात्मा सर्वासर्वपदोदितः।
विशुद्धो निर्भरानन्दः स भवेत् सिद्धयोगिराट्॥ ६७॥

गते न शोकं विभवे न वाञ्च्छा प्राप्ते न हर्षं स करोति योगी।
आनन्दपूर्णो निजबोधलीनो न वाध्यते कालपथेन नित्यम्॥ ६८॥

एवं तु सर्वसिद्धान्तदर्शनानां पृथक् पृथक् भूतानामपि ब्रह्मणि समन्वयसूचनशीलोपदेशकर्ताऽवधूत एवं कर्ता सद्गुरुः प्रशस्यत्। एषामुपदेशानां पृथक् पृथक् सूचितानां जायते यत्र विश्रान्तिः सा विश्रान्तिर्भिधीयते॥ ६९॥

लीनतां च स्वयं याति निरुत्थानचमत्कृतेः।
यतो निरुत्थानमयात् सोऽयं स्यादवधूतराट्॥ ७०॥

तस्मात्तं सद्गुरुं साक्षात् वन्दयेत् पूजयेत्सदा।
सम्यक् सिद्धपदं धत्ते तत्क्षणात्स्वात्मभाषितम्॥७१॥

न वन्दनीयास्ते काष्ठाः दर्शनभ्रान्तिकारकाः।
वर्जयेत्तान् गुरून् दूराद् धीरः सिद्धमताश्रयः॥ ७२॥

परपक्षं निरासं करोतिः।
वेदान्ती बहुतर्ककर्कशमतिर्ग्रस्तः परं मायया।
भाट्टाः कर्मफलाकुला हतधितो द्वैतेनवैशेषिकाः॥
अन्ते भेदरताः विवादविकलाः सत्तत्त्वतो वञ्चिताः
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७३॥

सांख्या वैष्णववैदिकाविधिपराः संन्यासिनस्तापसः
सौरा वीरपराः प्रपञ्चनिरता बौद्धा जिनाः श्रावकाः।
एते कष्टरता वृथा पथगताः सत्तत्त्वतौ वञ्चिताः
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७४॥

आचार्या बहुदीक्षिता हुतिरता नग्नव्रतास्तापसाः
ननतीर्थनिषेवका जपपरा मौनेस्थिता नित्यशः
एते ते खलु दुःखभारनिरताः सत्तत्त्वतौ वञ्चिताः
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७५॥

आदौ रेचकपूरकुम्भकविधौ नाड़ी यथाशोधितं
कृत्वा हृत्कमलोदरे तु सहसा चित्तं महामूर्च्छितम्।
पञ्चाक्षरमव्ययं परकुले चोङ्कार्दीपाङ्कुरे
तस्मात्सिद्धमतं स्वभावसमयं धीरः सदा संश्रयेत्॥ ७६॥
चार्वाकाश्चतुराश्च तर्कनिपुणा देहात्मवादे रताः
ते सर्वे न तरन्ति दुःसहतरं ये ते परं सात्विकाः।
ते सर्वे प्रभवन्ति ये च यवनाः पापे रतानिर्दयाः
तेषामैहिककल्पमेव फलदं तत्वं न मोक्षं पदम्॥ ७७॥

श्रीहट्टे मस्तकान्ते त्रिपुटपुटविले ब्रह्मरन्ध्रे ललाटे।
भ्रूनेत्रे नासिकाग्रे श्रवणपथरवे घण्टिकाराजदन्ते॥
कण्ठे हृन्नाभिमध्ये त्रिकमलकुहरे चोड्डियाणे च पीठे।
एवं ये स्थानलग्नाः परमपदमहो नास्ति तेषां निरुत्थम्॥ ७८॥

गोल्लाटे दीप्तिपुञ्जे प्रलयशिखिनिभे सिद्धजालन्धरे वा।
शृङ्गाटेज्योतिरेकं तडिदिवतरलं ब्रह्मनाड्यन्तराले॥
भालान्ते विद्यदाभे तदुर्परि शिखरे कोटिमार्तण्डचण्डे।
ये नित्यं भावयन्ते परमपदमहो नास्ति तेषां निरुत्थम्॥ ७९॥

लिङ्गाद्दण्डाङ्कुरान्तर्मनः पवनगमात् ब्रह्मनाड्यादिभेदम्।
कृत्वा बिन्दुं नयन्तः परमपदगुहां  शङ्खगर्भोदरोर्ध्वम्॥
तत्रान्तर्नादघोषं गगनगुणमयं वज्रदण्डोक्रमेण।
ये कुर्वन्तीहकष्टान् परमपदमहो नास्ति तेषां निरुत्थम्॥ ८०॥

सम्यक् चालनदोहनेन सततं दीर्धीकृतां लम्बिकां।
तां ताल्वन्तखेशितां च दशमद्वारोदरे सन्धिनीम्॥
नीत्वा मध्यमसन्धिसंघटघटात् प्राप्तां शिरोदेशतः।
पीत्वा षड्विधपानकाष्ठभजनं वाञ्च्छन्ति ये मोहिताः॥ ८१॥

गुह्यात्पश्चिमपुर्वमार्गमुभयं रुध्वानिलं मध्यमं।
नीत्वा ध्यानसमाधिलक्ष्यकरणैर्नानासमाभ्यासनैः॥
प्राणापानगमागमेन सततं हंसोदरे संघटा।
एवं येऽपि भजन्ति ते भवजले मज्जन्त्यहो दुःखिताः॥ ८२॥

शक्त्याकुञ्चनमग्निदीप्तिकरणं त्वाधारसंपेडनात्।
स्थानात्कुण्डलिनीप्रबोधनमतः कृत्वा ततो मूर्धनि॥
नीत्वा पुर्णगिरिं निपावनमधः कुर्वन्ति तस्याश्च ये।
खण्डज्ञानरतास्तु ते निजपदं तेषां हि दूरं मतम्॥ ८३॥

बन्धं भेदञ्च मुद्रां गलबिलचिबुकाबद्धमर्गेषु वह्नि।
चन्द्रार्कासामरस्यं शमदमनियमानादबिन्दुं कलान्ते॥
ये नित्यं मेलयन्ते ह्यनुभवमनसाप्युन्मनीयोगयिक्तास्ते।
लोकान्भ्रामयन्ते निजसुखविमुखाः कर्मदुःखाध्वभजः॥ ८४॥

अष्टाङ्गं योगमार्गं कुलपुरुषमतं षण्मुखीचक्रभेदं।
उर्ध्वाधो वायुमध्ये रविकिरणनिभं सर्वतोव्याप्तिसारम्॥
दृष्ट्या ये विक्षयन्ते तरलजलसमं नीलवर्णं नभो व।
एवं ये भावयन्ते निगदितमतयस्तेऽपि हा कष्टभाजः॥ ८५॥

आदौ धारणशङ्खधारणमतः कृत्वा महाधारणम्।
सम्पूर्णं प्रतिधारणं विधिबलात् दृष्टिस्तथा निर्मलां॥
अर्धोली बहुलीहवासनमथो घण्टावसन्नौलिका।
ये कुर्वन्ति च कारयन्ति च सदा भ्राम्यन्ति खिद्यन्ति ते॥ ८६॥

शङ्खक्षालनमन्तरं रसनया ताल्वोष्ठनासारसं।
वान्तेरुल्लुठनं कपाटममरीपानं तथा खर्परी॥
वीर्यद्रावितमात्मजं पुनरहो ग्रासं प्रलेपञ्च वा।
ये कुत्वन्ति जडास्तु ते नहि फलं तेषां तु सिद्धान्तजम्॥ ८७॥

घण्टाकोहलकालमादुलमहाभेरीनिनादं यदा।
सम्यङ्नादमनाहतध्वनिमयं शृण्वन्ति चैतादृशम्॥
पिण्डं सर्वगतं निरन्तरतया ब्रह्माण्डमध्येऽपो वा।
तेषां सिद्धपदं ततः समुचितं नैवं परं लभ्यते॥ ८८॥

वैराग्यात् तृणशाकपल्वलजल कन्दं फलं मुलकं।
भक्त्वा यो वनवासमेवभजते चान्ये च देशान्तरे॥।
बालोन्मत्तपिशाचमूकजडवच्चेष्टाश्च नानाविधाः।
ये कुर्वन्ति पदं विना मतिबल भ्रष्टा विमुह्यन्ति ते॥ ८९॥

कन्थादर्शनमद्भुतं बहुविधं भिक्षाटनं नाटकं।
भस्मोद्धूलनमङ्गंकर्कशतरं धृत्वा च वर्षम् त्वरेत्।
क्षेत्रं क्षेत्रमटन्ति दुर्गमतरे स्थित्वाऽयं सर्वेन्द्रियं
नो विन्दन्ति परं पदं गुरुमुखाद् गर्वेण कष्टाश्च ते॥ ९०॥

वाणीं ये च चतुर्विधां स्वरचितां सिद्धैश्च वा निर्मितां
गायत्रींचतुराश्च पाठनिरता विद्याविवादे रताः
नो विन्दन्ति तदर्थमात्मसदृशं खिद्यन्ति मोहाच्छलात्
दण्डैः कर्तरिशूलचक्रलगुडैर्भाण्डाश्च दुष्टाश्च ते॥ ९१॥

एवं शून्यातिशुन्यम् परमपरपदं पञ्चशून्यादिशून्यं
व्योमातीतं ह्यनाद्यं  निजकुलमकुलं चाद्भुतं विश्वरूपम्।
अव्यक्तं चान्तरालं नुरुदयमपरं भासनिर्नाममैक्यं
वाङ्मात्राद्भासयन्तो बहुविधमनसो व्याकुला भ्रामितास्ते॥ ९२॥

आज्ञासिद्धिकरं सदा समुचितं सम्पूर्णमाभासकं
पिण्डे सर्वगतं विधानममलं सिद्धान्तसारं वरम्।
भ्रान्तेर्निर्हरणं सुखातिसुखदं कालान्तकं शाश्वतं
तन्नित्यं कलनोज्झितं गुरुमयं ज्ञेयं निरुत्थं पदम्॥ ९३॥

आत्मेति परमात्मेति जीवात्मेति विचारणे।
त्रयाणामैक्यसंभूतिः आदेश इति कीर्तितः॥ ९४॥

आदेश ति सद्वाणीं सर्वद्वन्द्वक्षयापहाम्।
यो योगिनं प्रति वदेत् स यात्यात्मानमैश्वरम्॥ ९५॥

आशादहनं भसितं कुण्डलयुगलं विचारसन्तोषः।
कौपीनं स्थिरचित्तं खर्परमाकाशमात्मनो भजनम्॥ ९६॥
ā
एतच्छास्त्रं महादिव्यं रहस्यं पारमेश्वरम्।
सिद्धान्तं सर्वसारस्य नानासङ्केतनिर्णयम्॥ ९७॥

सिद्धानां प्रकटं सिद्धं सद्यः प्रत्ययकारकम्।
आत्मानंदकरं नित्यं सर्वसन्देहनाशनम्॥ ९८॥

न देयं परशिष्येभ्यो नान्येषां सन्निधौ पठेत्।
न स्नेहान्न वलाल्लोभान्न मोहान्नताच्छलात्॥ ९९॥

न मैत्री भावनाद्दानान्नसौन्दर्यान्न चासनात्।
पुत्रस्यापि न दातव्यं गुरुशिष्यक्रमं विना॥ १००॥

सत्यवन्तो दयाचित्ता दृढ़भक्ताः सदाचलाः।
निस्तरङ्गां महाशान्ताः सदा ज्ञानप्रबोधकाः॥ १०१॥

भयदैन्यघृणालज्जातृष्णाशोकविवर्जिताः।
आलस्यमदमात्सर्यदम्भमायाच्छलोज्झिताः॥ १०२॥

अहंकारमहामोहरागद्वेषपराङ्मुखाः।
क्रोधेच्छाकामुकासूयाभ्रान्तिलोभविवर्जिताः॥ १०३॥

निस्पृहा निर्मला धीराः सदाऽद्वैतपदेरताः।
तेभ्यो देयं प्रयत्नेन धूर्तानां गोपयेत्सदा॥ १०४॥

निन्दका ये दुराचारश्चुभ्बका गुरुतल्पगाः।
नास्तिका ये शठाः क्रूरा विद्यावादरतास्तथा॥ १०५॥

योगाचारपरिभ्रष्टाः ते निद्राकालहयोः प्रियाः।
स्वस्वकार्ये परानिष्ठाः गुरुकर्येषु निस्पृहाः॥ १०६॥

एतान् विवर्जयेद् दूरे शिष्यत्वेन गतानपि॥ १०७॥

सच्छास्त्रं सद्धमार्गञ्च सिद्धसिद्धान्तपद्धतिः।
न देयं सर्वदा तेभ्यो यदीच्छेच्चिरजीवनम्॥ १०८॥

गोपनीयं प्रयत्नेन तस्करेभ्यो धनं यथा।
तपां यो बोधयेत् मोहादपरीक्षितमन्दधीः॥ १०९॥

नहि मुक्तिर्भवेत्तस्य सदा दुःखेन सीदतः।
खेचरी भूचरी चैव शाकिनी च निशाचरी॥ ११०॥

एतासामद्भुतं शापः सिद्धानां भैरवस्य च।
मस्तके तस्य पतति तस्माद् यत्नेन रक्षयेत्॥ ११२॥

गुरुपादाम्बुजस्थाय परीक्ष्य प्रवदेत्सदा।
कुतो दुखःञ्च भीतिश्च तत्वज्ञस्य महात्मनः॥ ११२॥

कृपयैव प्रदातव्यं सम्प्रदायप्रवृत्तये।
सम्प्रदायप्रवृत्तिर्हि सर्वेषां सम्मता यतः॥ ११३॥

मायाशङ्करनाथाय सिद्धसिद्धान्तपद्धतिम्।
लिखित्वा यः पठेद्भक्त्या स याति परमां गतिम्॥११४॥

विद्धात्वर्थनिश्चय भक्तानुग्रहमूर्तिमत्।
स्मरानन्दभरं चेतो गणपत्यभिधं महः॥ ११५॥

इति श्रीगोरक्षनाथकृतौ सिद्धसिद्धान्तपद्धतौ अवधूतयोगिलक्षणं नाम षष्ठोपदेशः॥ ६॥