Thursday 20 March 2014

शिव संहिता



प्रथमः पटलः

एकं ज्ञानं नित्यमाद्यन्तशून्यं नान्यत् किञ्चिद्वत्ते ते वस्तु सत्यम्।
यद्भेदोस्मिन्निन्द्रियोपाधिना वै ज्ञानस्यायं भासते नान्यथैव॥ १॥ १॥

अथ भक्तानुरक्तोऽहं वक्ति योगानुशासनम्।
ईश्वरः सर्वभूतानामात्ममुक्तिप्रदायकः॥ १॥ २॥

त्यक्त्वा विवादशीलानां मतं दुर्ज्ञानहेतुकम्।
आत्मज्ञानाय भूतानामनन्यगतिचेतसाम्॥ १॥ ३॥

सत्यं केचित्प्रशंसन्ति तपः शौचं तथापरे।
क्षमां केचित्प्रशंसंति तथैव सममार्ज्जवम्॥ १॥ ४॥

केचिद्दानं प्रशंसन्ति पितृकर्म तथापरे।
केचित्कर्म प्रशंसन्ति केचिद्वैराग्यमुत्तमम्॥ १॥ ५॥

केचिद्गृहस्थकर्माणि प्रशंसन्ति विचक्षणाः।
अग्निहोत्रादिकं कर्म तथा केचित् परं विदुः॥ १॥ ६॥

मन्त्रयोगं प्रशंसन्ति किचित्तिर्थानुसेवनम्।
एवं बहूनुपायांस्तु प्रवदन्ति हि मुक्तये॥ १॥ ७॥

एवं व्यवसिता लोके कृत्याकृत्यविदो जनाः।
व्यामोहमेव गच्छंति विमुक्ताः पापकर्मभिः॥ १॥ ८॥

एतन्मतावलम्बी यो लब्ध्वा दुरितपुण्यके।
भ्रमतीत्यवशः सोऽत्र जन्ममृत्युपरम्पराम्॥ १॥ ९॥

अन्यैर्मतिमता श्रेष्ठैर्गुप्तालोकनतत्परैः।
आत्मानो बहवः प्रोक्ता नित्याः सर्वगतास्तथा॥ १॥ १०॥

यद्यत्प्रत्यक्षविषयं तदन्यन्नास्ति चक्षते।
कुतः स्वर्गादयः सन्तीत्यन्ये निश्चितमानसाः॥ १॥ ११॥

ज्ञानप्रवाह इत्यन्ये शून्यं केचित्परं विदुः।
द्वावेव तत्त्वं मन्यन्तेऽपरे प्रकृतिपूरुषौ॥ १॥ १२॥

अत्यन्तभिन्नमतयः परमार्थपराङ्मुखाः।
एवमन्ये तु संचिन्त्य यथामति यथाश्रुतम्॥ १॥ १३॥

निरीश्वरमिदं प्राहुः सेश्वरञ्च तथापरे।
वदन्ति विविधैर्भेदैः सुयुक्त्या स्थितिकातराः॥ १॥ १४॥

एते चान्ये च मुनयः संज्ञाभेदा पृथग्विधाः।
शास्त्रेषु कथिता ह्येते लोकव्यामोहकारकाः॥ १॥ १५॥

एतद्विवादशीलानां मतं वक्तुं न शक्यते।
भ्रमन्त्यस्मिञ्जनाः सर्वे मुक्तिमार्गबहिष्कृताः॥ १॥ १६॥

आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इदमेकं सुनिष्पन्नं योगशास्त्रं परं मतम्॥ १॥ १७॥

यस्मिन् याते सर्वमिदं यातं भवति निश्चितम्।
तस्मिन्परिश्रमः कार्यः किमन्यच्छास्त्रभाषितम्॥ १॥ १८॥

योगशास्त्रमिदं गोप्यमस्माभिः परिभाषितम्।
सुभक्ताय प्रदातव्यं त्रैलोक्ये च महात्मने॥ १॥ १९॥

कर्मकाण्डं ज्ञानकाण्डमिति वेदो द्विधा मतः।
भवति द्विविधो भेदो ज्ञानकाण्डस्य कर्मणः॥ १॥ २०॥

द्विविधः कर्मकाण्डः स्यान्निषेधविधिपूर्वकः॥ १॥ २१॥

निषिद्धकर्मकरणे पापं भवति निश्चितम्।
विधिना कर्मकरणे पुण्यं भवति निश्चितम्॥ १॥ २२॥

त्रिविधो विधिकूटः स्यान्नित्यनैमित्तकाम्यतः।
नित्येऽकृते किल्विषं स्यात्काम्ये नैमित्तिके फलम्॥ १॥ २३॥

द्विविधन्तु फलं ज्ञेयं स्वर्गो नरक एव च।
स्वर्गो नानाविधश्चैव नरकोपि तथा भवेत्॥ १॥ २४॥

पुण्यकर्माणि वै स्वर्गो नरकः पापकर्माणि।
कर्मबंधमयी सृष्टिर्नान्यथा भवति ध्रुवम्॥ १॥ २५॥

जन्तुभिश्चानुभूयंते स्वर्गे नानासुखानि च।
नानाविधानि दुःखानि नरके दुःसहानि वै॥ १॥ २५॥

पापकर्मवशाद्दुखं पुण्यकर्मवशात्सुखम्।
तस्मात्सुखार्थी विविधं पुण्यं प्रकुरुते ध्रुवम्॥ १॥ २७॥

पापभोगावसाने तु पुनर्जन्म भवेत्खलु।
पुण्यभोगावसाने तु नान्यथा भवति ध्रुवम्॥ १॥ २८॥

स्वर्गेऽपि दुःखसंभोगः परश्रीदर्शनादिषु।
ततो दुःखमिदं सर्वं भवेन्नास्त्यत्र संशयः॥ १॥ २९॥

तत्कर्मकल्पकैः प्रोक्तं पुण्यं पापमिति द्विधा।
पुण्यपापमयो बन्धो देहिनां भवति क्रमात्॥ १॥ ३०॥

इहामुत्र फलद्वेषी सफलं कर्म संत्यजेत्।
नित्यनैमित्तिकं संज्ञं त्यक्त्वा योगे प्रवर्तते॥ १॥ ३१॥

कर्मकाण्डस्य माहात्म्यं ज्ञात्वा योगी त्यजेत्सुधीः।
पुण्यपापद्वयं त्यक्त्वा ज्ञानकाण्डे प्रवर्तते॥ १॥ ३२॥

आत्मा वाऽरेतु द्रष्टव्यः श्रोतव्येत्यादि यच्छ्रुतिः।
सा सेव्या तत्प्रयत्नेन मुक्तिदा हेतुदायिनी॥ १॥ ३३॥

दुरितेषु च पुण्येषु यो धीर्वृत्तिं प्रचोदयात्।
सोऽहं प्रवर्तते मत्तो जगत्सर्वं चराचरम्॥

सर्वं च दृश्यते मत्तः सर्वं च मयि लीयते।
न तद्भिन्नोऽहमस्मीह मद्भिन्नो न तु किंचन॥ १॥ ३४॥

जलपूर्णेष्वसंख्येषु शरावेषु यथा भवेत्।
एकस्य भात्यसंख्यत्वं तद्वेदोऽत्र न दृश्यते॥

उपाधिषु शरावेषु या संख्या वर्तते परा।
सा संख्या भवति यथा रवौ चात्मनि तत् तथा॥ १॥ ३५॥

यथैकः कल्पकः स्वप्ने नानाविधितयेष्यते।
जागरेपि तथाप्येकस्तथैव बहुधा जगत्॥ १॥ ३६॥

सर्पबुद्धिर्यथा रज्जौ शुक्तौ वा रजतभ्रमः।
तद्वदेवमिदं विश्वं विवृतं परमात्मनि॥ १॥ ३७॥

रज्जुज्ञानाद्यथा सर्पो मिथ्यारूपो निवर्तते।
आत्मज्ञानात् तथा याति मिथ्याभूतमिदं जगत्॥ १॥ ३८॥

रौप्यभ्रान्तिरियं याति शुक्तिज्ञानाद्यथा खलु।
जगद्भ्रान्तिरियं याति चात्मज्ञानात् सदा तथा॥ १॥ ३९॥

यथा वंशो रगभ्रान्तिर्भवेद्भेकवसाञ्जनात्।
तथा जगदिदं भ्रांतिरभ्यासकल्पनाञ्जनात्॥ १॥ ४०॥

आत्मज्ञानाद्यथा नास्ति रज्जुज्ञानाद्भुजङ्गमः।
यथा दोषवशाच्छुक्लः पीतो भवति नान्यथा।
अज्ञानदोषादात्मापि जगद्भवति दुस्त्यजम्॥ १॥ ४१॥

दोषनाशे यथा शुक्लो गृह्यते रोगिणा स्वयम्।
शुक्लज्ञानात्तथाऽज्ञाननाशादात्मा तथा कृतः॥ १॥ ४२॥

कालत्रयेपि न यथा रज्जुः सर्पो भवेदिति।
तथात्मा न भवेद्विश्वं गुणातीतो निरञ्जनः॥ १॥ ४३॥

आगमाऽपायिनोऽनित्यानाश्यत्वेनेश्वरादयः।
आत्मबोधेन केनापि शास्त्रादेतद्विनिश्चितम्॥ १॥ ४४॥

यथा वातवशात्सिन्धावुत्पन्नाः फेनबुद्बुदाः।
तथात्मनि समुद्भूतं संसारं क्षणभंगुरम्॥ १॥ ४५॥

अभेदो भासते नित्यं वस्तुभेदो न भासते।
द्विधात्रिधादिभेदोऽयं भ्रमत्वे पर्यवस्यति॥ १॥ ४६॥

यद्भूतं यच्च भाव्यं वै मूर्तामूर्तं तथैव च।
सर्वमेव जगदिदं विवृतं परमात्मनि॥ १॥ ४७॥

कल्पकैः कल्पिता विद्या मिथ्या जाता मृषात्मिका।
एतन्मूलं जगदिदं कथं सत्यं भविष्यति॥ १॥ ४८॥

चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम्।
तस्मात्सर्वं परित्यज्य चैतेन्यं तं समाश्रयेत्॥ १॥ ४९॥

घटस्याभ्य तरे बाह्ये यथाकाशं प्रवर्तते।
तथात्माभ्यंतरे बाह्ये कार्यवर्गेषु नित्यशः॥ १॥ ५०॥

असंलग्नं यथाकाशं मिथ्याभूतेषु पंचसु।
असंलग्नस्तथात्मा तु कार्यवर्गेषु नान्यथा॥ १॥ ५१॥

ईश्वरादिजगत्सर्वमात्मव्याप्यं समन्ततः।
एकोऽस्ति सच्चिदानंदः पूर्णो द्वैतविवर्जितः॥ १॥ ५२॥

यस्मात्प्रकाशको नास्ति स्वप्रकाशो भवेत् ततः।
स्वप्रकाशो यतस्तस्मादात्मा ज्योतिः स्वरूपकः॥ १॥ ५३॥

अवछिन्नो यतो नास्ति दशकालस्वरूपतः।
आत्मनः सर्वथा तस्मादात्मा पूर्णो भवेत्खलु॥ १॥ ५४॥

यस्मान्न विद्यते नाशः पंचभूतैर्वृथात्मकैः।
तस्मादात्मा भवेन्नित्यस्तन्नाशो न भवेत्खलु॥ १॥ ५५॥

यस्मात् तदन्यो नास्तीह तस्मादेकोऽस्ति सर्वदा।
यस्मात् तदन्यो मिथ्या स्यादात्मा सत्यो भवेत् खलु॥ १॥ ५६॥

अविद्याभुतसंसारे दुःखनाशे सुखं यतः।
ज्ञानादाद्यंतशून्यं स्यात् तस्मादात्मा भवेत् सुखम्॥ १॥ ५७॥

यस्मान्नाशितमज्ञानं ज्ञानेन विश्वकारणम्।
तस्मादात्मा भवेज्ज्ञानं ज्ञानं तस्मात् सनातनम्॥ १॥ ५८॥

कालतो विविधं विश्वं यदा चैव भवेदिदम्।
तदेकोऽस्ति स एवात्मा कल्पनापथवर्जितः॥ १॥ ५९॥

बाह्यानि सर्वभूतानि विनाशं यान्ति कालतः।
यतो वाचो निवर्तंते आत्मा द्वैतविवर्जितः॥ १॥ ६०॥

न खं वायुर्न चाग्निश्च न जलं पृथिवी न च।
नैतत्कार्यं नेश्वरादि पूर्णैकात्मा भवेत्खलु॥ १॥ ६१॥

आत्मानमात्मनो योगी पश्यत्यात्मनि निश्चितम्।
सर्वसंकल्पसंन्यासी त्यक्तमिथ्याभवग्रहः॥ १॥ ६२॥

आत्मानात्मनि चात्मान दृष्ट्वानन्त सुखात्म्कम्।
विस्मृत्य विश्वं रमते समाधेस्तीव्रतस्तथा॥ १॥ ६३॥

मायैव विश्वजननी नान्या तत्त्वधियापरा।
यदा नाशं समायाति विश्वं नास्ति तदा खलु॥ १॥ ६४॥

हेयं सर्वमिदं यस्य मायाविलसितं यतः।
ततो न प्रीतिविषयस्तनुवित्तसुखात्मकः॥ १॥ ६५॥

अरिर्मित्रमुदासीनस्त्रिविधं स्यादिदं जगत्।
व्यवहारेषु नियतं दृश्यते नान्यथा पुनः॥

प्रियाप्रियादिभेदस्तु वस्तुषु नियतः स्फुटम्॥ १॥ ६६॥

आत्मोपाधिवशादेवं भवेत् पुत्रादि नान्यथा।
मायाविलसितं विश्वं ज्ञात्वैवं श्रुतियुक्तितः॥

अध्यारोपापवादाभ्यां लयं कुर्वन्ति योगिनः॥ १॥ ६७॥

निखिलोपाधिहीनो वै यदा भवति पुरुषः।
तदा विवक्षतेऽखंडज्ञानरूपी निरंजनः॥ १॥ ६८॥

सो कामयतः पुरुषः सृजते च प्रजाः स्वयम्।
अविद्या भासते यस्मात् तस्मान्मिथ्या स्वभावतः॥ १॥ ६९॥

शुद्ध ब्रह्मत्व संबद्धो विद्यया सहितो भवेत्।
ब्रह्मतेनसती याति यत आभासते नभः॥ १॥ ७०॥

तस्मात् प्रकाशते वायुर्वायोरग्निस्ततो जलम्।
प्रकाशते ततः पृथ्वी कल्पनेयं स्थिता सति॥ १॥ ७१॥

आकाशाद्वायुराकाशपवनादग्निसंभवः।
खवाताग्नेर्जलं व्योमवाताग्निवारितो मही॥ १॥ ७२॥

खं शब्दलक्षणं वायुश्चंचलः स्पर्शलक्षणः।
स्याद्रूपलक्षणं तेजः सलिलं रसलक्षणम्॥

गन्धलक्षणिका पृथ्वी नान्यथा भवति ध्रुवम्॥ १॥ ७३॥

स्यादेकगुणमाकाशं द्विगुणो वायुरुच्यते।
तथैव त्रिगुणं तेजो भवन्त्यापश्चतुर्गुणाः॥

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च।
एतत् पंचगुणा पृथ्वी कल्पकैः कल्प्यतेऽधुना॥ १॥ ७४॥

चक्षुषा गृह्यते रूपं गन्धो घ्राणेन गृह्यते।
रसो रसनया स्पर्शस्त्वचा संगृह्यते परम्॥ १॥ ७५॥

श्रोत्रेण गृह्यते शब्दो नियतं भाति नान्यथा॥ १॥ ७६॥

चैतन्यात्सर्वमुत्पन्नं जगदेतच्चराचरम्।
अस्ति चेत्कल्पनेय स्यान्नास्ति चेदस्ति चिन्मयम्॥ १॥ ७७॥

पृथ्वी शीर्णा जलं मग्ना जलं मग्नञ्च तेजसि।
लीनं वायौ तथा तेजो व्योम्नि वातो लयं ययौ॥

अविद्यायां महाकाशो लीयते परमे पदे॥ १॥ ७८॥

विक्षेपावरणा शक्तिर्दुरन्तासुखरूपिणी।
जडरूपा महामाया रजःसत्त्वतमोगुणा॥ १॥ ७९॥

सा मायावरणाशक्त्यावृताविज्ञानरूपिणी।
दर्शयेज्जगदाकारं तं विक्षेपस्वभावतः॥ १॥ ८०॥

तमो गुणाधिका विद्या या सा दूर्गा भवेत् स्वयम्।
ईश्वरस्तदुपहितं चैतन्यं तदभूद् ध्रुवम्॥

सत्ताधिका च या विद्या लक्ष्मीः स्याद्दिव्यरूपिणी।
चैतन्यं तदुपहितं विष्णुर्भवति नान्यथा॥ १॥ ८१॥

रजोगुणाधिका विद्या ज्ञेया सा वै सरस्वती।
यश्चित्स्वरूपो भवति ब्रह्मातदुपधारकः॥ १॥ ८२॥

ईशाद्याः सकला देवा दृश्यन्ते परमात्मनि।
शरीरादिजडं सर्वं सा विद्या तत् तथा तथा॥ १॥ ८३॥

एवंरूपेण कल्पन्ते कल्पका विश्वसम्भवम्।
तत्त्वातत्त्वं भवंतीह कल्पनान्येन चोदिता॥ १॥ ८४॥

प्रमेयत्वादिरूपेण सर्वं वस्तु प्रकाश्यते।
विशेषशब्दोपादाने भेदो भवति नान्यथा॥ १॥ ८५॥

तथैव वस्तुनास्त्येव भासको वर्तकः परः।
स्वरूपत्वेन रूपेण स्वरूपं वस्तु भाष्यते॥ १॥ ८६॥

एकः सत्तापूरितानन्दरूपः पूर्णो व्यापी वर्तते नास्ति किञ्चित्।
एतज्ज्ञानं यः करोत्येव नित्यं मुक्तः स स्यान्मृत्युसंसारदुःखात्॥ १॥ ८७॥

यस्यारोपापवादाभ्यां यत्र सर्वे लयं गताः।
स एको वर्तते नान्यत्तच्चित्तेनावधार्यते॥ १॥ ८८॥

पितुरन्नमयात्कोशाज्जायते पूर्वकर्मणः।
तच्छरीरंविर्दुदुःखं स्वप्राग्भोगाय सुन्दरम्॥ १॥ ८९॥

मांसास्थिस्नायुमज्जादिनिर्मितं भोगमन्दिरम्।
केवलं दुःखभोगाय नाडी संततिगुल्फितम्॥ १॥ ९०॥

पारमेष्ठ्यमिदं गात्रं पंचभूतविनिर्मितम्।
ब्रह्माण्डसंज्ञकं दुःखसुखभोगाय कल्पितम्॥ १॥ ९१॥

बिन्दुः शिवो रजः शक्तिरुभयोर्मिलनात्स्वयम्।
स्वप्नभूतानि जायन्ते स्वशक्त्या जडरूपया॥ १॥ ९२॥

तत् पञ्चीकरणात् स्थूलान्यसंख्यानि समासतः।
ब्रह्मांडस्थानि वस्तूनि यत्र जीवोऽस्ति कर्मभिः॥

तद्भूतपञ्चकात्सर्वं भोगाय जीवसंज्ञिता॥ १॥ ९३॥

पूर्वकर्मानुरोधेन करोमि घटनामहम्।
अजडः सर्वभूतस्था जडस्थित्या भुनक्ति तान्॥ १॥ ९४॥

जडात्स्वकर्मभिर्बद्धो जीवाख्यो विविधो भवेत्।
भोगायोत्पद्यते कर्म ब्रह्मांडाख्ये पुनः पुनः॥ १॥ ९५॥

जीवश्च लीयते भोगावसाने च स्वकर्मणः॥ १॥ ९६॥

इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
प्रथमः पटलः समाप्तः॥ १॥

द्वितीयः पटलः

देहेऽस्मिन्वर्तते मेरुः सप्तद्वीपसमन्वितः।
सरितः सागराः शैलाः क्षेत्राणि क्षेत्रपालकाः॥ २॥ १॥

ऋषयो मुनयः सर्वे नक्षत्राणि ग्रहास्तथा।
पुण्यतीर्थानि पीठानि वर्तन्ते पीठदेवताः॥ २॥ २॥

सृष्टिसंहारकर्तारौ भ्रमन्तौ शशिभास्करौ।
नभो वायुश्च वह्निश्च जलं पृथ्वी तथैव च॥ २॥ ३॥

त्रैलोक्ये यानि भूतानि तानि सर्वाणि देहतः।
मेरुं संवेष्ट्य सर्वत्र व्यवहारः प्रवर्तते॥ २॥ ४॥

जानाति यः सर्वमिदं स योगी नात्र संशयः॥ २॥ ५॥

ब्रह्माण्डसंज्ञके देहे यथादेशं व्यवस्थितः।
मेरुशृंगे सुधारश्मिर्बहिरष्टकलायुतः॥ २॥ ६॥

वर्ततेऽहर्निशं सोऽपि सुधां वर्षत्यधोमुखः।
ततोऽमृतं द्विधाभूतं याति सूक्ष्मं यथा च वै॥ २॥ ७॥

इडामार्गेण पुष्ट्यर्थं याति मन्दाकिनीजलम्।
पुष्णाति सकलं देहमिडामार्गेण निश्चितम्॥ २॥ ८॥

एष पीयूषरश्मिर्हि वामपार्श्वे व्यवस्थितः॥

अपरः शुद्धदुग्धाभो हठात्कर्षति मण्डलात्।
मध्यमार्गेण सृष्ट्यर्थं मेरौ संयाति चन्द्रमाः॥ २॥ ९॥

मेरुमूले स्थितः सूर्यः कलाद्वादशसंयुतः।
दक्षिणे पथि रश्मिभिर्वहत्यूर्ध्वं प्रजापतिः॥ २॥ १०॥

पीयूषरश्मिनिर्यासं धातूंश्च ग्रसति ध्रुवम्।
समीरमण्डले सूर्यो भ्रमते सर्वविग्रहे॥ २॥ ११॥

एषा सूर्यपरामूर्तिः निर्वाणं दक्षिणे पथि।
वहते लग्नयोगेन सृष्टिसंहारकारकः॥ २॥ १२॥

सार्धलक्षत्रयं नाड्यः सन्ति देहान्तरे नृणाम्।
प्रधानभूता नाड्यस्तु तासु मुख्याश्चतुर्दशः॥ २॥ १३॥

सुषुम्णेडा पिंगला च गांधारी हस्तिजिह्विका।
कुहूः सरस्वती पूषा शंखिनी च पयस्वनी॥ २॥ १४॥

वारुण्यलम्बुसा चैव विश्वोदरी यशस्विनी।
एतासु तिस्रो मुख्याः स्युः पिङ्गलेडा सुषुम्णिका॥ २॥ १५॥

तिस्रष्वेका सुषुम्णैव मुख्या सायोगिवल्लभा।
अन्यास्तदाश्रयं कृत्वा नाड्यः सन्ति हि देहिनाम्॥ २॥ १६॥

नाड्यस्तु ता अधोवक्त्राः पद्मतन्तुनिभाः स्थिताः।
पृष्ठवंशं समाश्रित्य सोमसूर्याग्निरूपिणी॥ २॥ १७॥

तासां मध्ये गता नाडी चित्रा सा मम वल्लभा।
ब्रह्मरन्ध्रञ्च तत्रैव सूक्ष्मात्सूक्ष्मतरं शुभम्॥ २॥ १८॥

पञ्चवर्णोज्ज्वला शुद्धा सुषुम्णा मध्यचारिणी।
देहस्योपाधिरूपा सा सुषुम्णा मध्यरूपिणी॥ २॥ १९॥

दिव्यमार्गमिदं प्रोक्तममृतानन्दकारकम्।
ध्यानमात्रेण योगींद्रो दुरितौघं विनाशयेत्॥ २॥ २०॥

गुदात्तुद्व्यंगुलादूर्ध्वं मेढात्तु द्व्यंगुलादधः।
चतुरंगगुलविस्तारमाधारं वर्तते समम्॥ २॥ २१॥

तस्मिन्नाधारपद्मे च कर्णिकायां सुशोभना।
त्रिकोणा वर्तते योनिः सर्वतंत्रेषु गोपिता॥ २॥ २२॥

तत्र विद्युल्लताकारा कुण्डली परदेवता।
सार्द्धत्रिकरा कुटिला सुषुम्णा मार्गसंस्थिता॥ २॥ २३॥

जगत्संसृष्टिरूपा सा निर्माणे सततोद्यता।
वाचामवाच्या वाग्देवी सदा देवैर्नमस्कृता॥ २॥ २४॥

इडानाम्नी तु या नाडी वाममार्गे व्यवस्थिता।
सुषुम्णायां समाश्लिष्य दक्षनासापुटे गता॥ २॥ २५॥

पिङ्गला नाम या नाडी दक्षमार्गे व्यवस्थिता।
मध्यनाडीं समाश्लिष्य वामनासापुटे गता॥ २॥ २६॥

इडापिंगलयोर्मध्ये सुषुम्णा या भवेत्खलु।
षट्स्थानेषु च षट्शक्तिं षट्पद्मं योगिनो विदुः॥ २॥ २७॥

पंचस्थानं सुषुम्णाया नामानि स्युर्बहूनि च।
प्रयोजनवशात्तानि ज्ञातव्यानीह शास्त्रतः॥ २॥ २८॥

अन्या याऽस्त्यपरा नाडी मूलाधारात्समुत्थिता।
रसनामेढ्रनयनं पादांगुष्ठे च श्रोत्रकम्॥

कुक्षिकक्षांगुष्ठकर्णं सर्वांगं पायुकुक्षिकम्।
लब्ध्वा तां वै निवर्तन्ते यथा देशसमुद्भवाः॥ २॥ २९॥

एताभ्य एव नाडीभ्यः शखोपशाखतः क्रमात्।
सार्धलक्षत्रयं जातं यथाभागं व्यवस्थितम्॥ २॥ ३०॥

एता भोगवहा नाड्यो वायुसञ्चारदक्षकाः।
ओतप्रोत्राः सुसंव्याप्य तिष्ठन्त्यस्मिन्कलेवरे॥ २॥ ३१॥

सूर्यमण्डलमध्यस्थः कलाद्वादशसंयुतः।
वस्तिदेशे ज्वलद्वह्निर्वर्तते चान्नपाचकः॥

एष वैश्वानरोग्निर्वै मम तेजोंशसम्भवः।
करोति विविधं पाकं प्राणिनां देहमास्थितः॥ २॥ ३२॥

आयुः प्रदायको वह्निर्बलं पुष्टिं ददाति सः।
शरीरपाटवञ्चापि ध्वस्तरोगसमुद्भवः॥ २॥ ३३॥

तस्माद्वैश्वानराग्निञ्च प्रज्वाल्य विधिवत्सुधीः।
तस्मिन्नन्नं हुनेद्योगी प्रत्यहं गुरुशिक्षया॥ २॥ ३४॥

ब्रह्माण्डसंज्ञके देहे स्थानानि स्युर्बहूनि च।
मयोक्तानि प्रधानानि ज्ञातव्यानीह शास्त्रके॥ २॥ ३५॥

नानाप्रकारनामानि स्थानानि विविधानि च।
वर्तन्ते विग्रहे तानि कथितुं नैव शक्यते॥ २॥ ३६॥

इत्थं प्रकल्पिते देहे जीवो वसति सर्वगः।
अनादिवासनामालाऽलंकृतः कर्मशंखलः॥ २॥ ३७॥

नानाविधगुणोपेतः सर्वव्यापारकारकः।
पूर्वार्जितानि कर्माणि भुनक्ति विविधानि च॥ २॥ ३८॥

यद्यत्संदृश्यते लोके सर्वं तत्कर्मसम्भवम्।
सर्वा कर्मानुसारेण जन्तुर्भोगान्भुनक्ति वै॥ २॥ ३९॥

ये ये कामादयो दोषाः सुखदुःखप्रदायकाः।
ते ते सर्वे प्रवर्तन्ते जीवकर्मानुसारतः॥ २॥ ४०॥

पुण्योपरक्तचैतन्ये प्राणान्प्रीणाति केवलम्।
बाह्ये पुण्यमयं प्राप्य भोज्यवस्तु स्वयम्भवेत्॥ २॥ ४१॥

ततः कर्मबलात्पुंसः सुखं वा दुःखमेव च।
पापोपरक्तचैतन्यं नैव तिष्ठति निश्चितम्॥

न तद्भिन्नो भवेत्सोऽपि तद्भिन्नो न तु किञ्चन।
मायोपहितचैतन्यात्सर्वं वस्तु प्रजायते॥ २॥ ४२॥

यथाकालेपि भोगाय जन्तूनां विविधोद्भवः।
यथा दोषवशाच्छुक्तौ रजतारोपणं भवेत्॥

तथा स्वकर्मदोषाद्वै ब्रह्मण्यारोप्यते जगत्॥ २॥ ४३॥

सवासनाम्रमोत्पन्नोन्मूलनातिसमर्थनम्।
उत्पन्नञ्चेदीदृशं स्याज्ज्ञानं मोक्षप्रसाधनम्॥ २॥ ४४॥

साक्षाद्वैशेषदृष्टिस्तु साक्षात्कारिणि विभ्रमे।
कारणं नान्यथा युक्त्या सत्यं सत्यं मयोदितम्॥ २॥ ४५॥

साक्षात्कारिभ्रमे साक्षात्साक्षात्कारिणि नाशयेत्।
सो हि नास्तीति संसारे भ्रमो नैव निवर्तते॥ २॥ ४६॥

मिथ्याज्ञाननिवृत्तिस्तु विशेषदर्शनाद्भवेत्।
अन्यथा न निवृत्तिः स्याद्दृश्यते रजतभ्रमः॥ २॥ ४७॥

यावन्नोत्पद्यते ज्ञानं साक्षात्कारे निरञ्जने।
तावत्सर्वाणि भूतानि दृश्यन्ते विविधानि च॥ २॥ ४८॥

यदा कर्मार्जितं देहं निर्वाणे साधनं भवेत्।
तदा शरीरवहनं सफलं स्यान्न चान्यथा॥ २॥ ४९॥

यादृशी वासना मूला वर्तते जीवसंगिनी।
तादृशं वहते जन्तुः कृत्याकृत्यविधौ भ्रमम्॥ २॥ ५०॥

संसारसागरं तर्तुं यदीच्छेद्योगसाधकः।
कृत्वा वर्णाश्रमं कर्म फलवर्जं तदाचरेत्॥ २॥ ५१॥

विषयासक्तपुरुषा विषयेषु सुखेप्सवः।
वाचाभिरुद्धनिर्वाणा वर्तन्ते पापकर्मणि॥ २॥ ५२॥

आत्मानमात्मना पश्यन्न किञ्चिदिह पश्यति।
तदा कर्मपरित्यागे न दोषोऽस्ति मतं मम॥ २॥ ५३॥

कामादयो विलीयन्ते ज्ञानादेव न चान्यथा।
अभावे सर्वतत्त्वानां स्वयं तत्त्वं प्रकाशते॥ २॥ ५४॥

इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
द्वितीयः पटलः समाप्तः॥ २॥

तृतीयः पटलः

हृद्यस्ति पङ्कजं दिव्यं दिव्यलिङ्गेन भूषितम्।
कादिठान्ताक्षरोपेतं द्वादशार्णविभूषितम्॥ ३॥ १॥

प्राणो वसति तत्रैव वासनाभिरलंकृतः।
अनादिकर्मसंश्लिष्टः प्राप्याहङ्कारसंयुतः॥ ३॥ २॥

प्राणस्य वृत्तिभेदेन नामानि विविधानि च।
वर्तन्ते तानि सर्वाणि कथितुं नैव शक्यते॥ ३॥ ३॥

प्राणोऽपानः समानश्चादानो व्यानश्च पञ्चमः।
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः॥ ३॥ ४॥

दश नामानि मुख्यानि मयोक्तानीह शास्त्रके।
कुर्वन्ति तेऽत्र कार्याणि प्रेरितानि स्वकर्मभिः॥ ३॥ ५॥

अत्रापि वायवः पञ्च मुख्याः स्युर्दशतः पुनः।
तत्रापि श्रेष्ठकर्तारौ प्राणापानौ मयोदितौ॥ ३॥ ६॥

हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले।
उदानः कठदेशस्थो व्यानः सर्वशरीरगः॥ ३॥ ७॥

नागादिवायवः पञ्च ते कुर्वन्ति च विग्रहे।
उद्गारोन्मीलनं क्षुत्तृड्जृम्भा हिक्का च पञ्चमः॥ ३॥ ८॥

अनेन विधिना यो वै ब्रह्माण्डं वेत्ति विग्रहम्।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्॥ ३॥ ९॥

अधुना कथयिष्यामि क्षिप्रं योगस्य सिद्धये।
अज्ज्ञात्वा नावसीदन्ति योगिनो योगसाधने॥ ३॥ १०॥

भवेद्वीर्यवती विद्या गुरुवक्त्रसमुद्भवा।
अन्यथा फलहीना स्यान्निर्वीर्याप्यतिदुःखदा॥ ३॥ ११॥

गुरुं सन्तोष्य यत्नेन ये वै विद्यामुपासते।
अवलम्बेन विद्यायास्तस्याः फलमवाप्नुयात्॥ ३॥ १२॥

गुरुः पिता गुरुर्माता गुरुर्देवो न संशयः।
कर्मणा मनसा वाचा तस्मात्सर्वैः प्रसेव्यते॥ ३॥ १३॥

गुरुप्रसादतः सर्वं लभ्यते शुभमात्मनः।
तस्मात्सेव्यो गुरुर्नित्यमन्यथा न शुभं भवेत्॥ ३॥ १४॥

प्रदक्षिणत्रयं कृत्वा स्पृष्ट्वा सव्येन पाणिना।
अष्टांगेन नमस्कुर्याद् गुरुपादसरोरुहम्॥ ३॥ १५॥

श्रद्धयात्मवतां पुंसां सिद्धिर्भवति निश्चिता।
अन्येषाञ्च न सिद्धिः स्यात्तस्माद्यत्नेन साधयेत्॥ ३॥ १६॥

न भवेत्संगयुक्तानां तथाऽविश्वासिनामपि।
गुरुपूजाविहीनानां तथा च बहुसंगिनाम्॥ ३॥ १७॥

मिथ्यावादरतानां च तथा निष्ठुरभाषिणाम्।
गुरुसन्तोषहीनानां न सिद्धिः स्यात्कदाचन॥ ३॥ १७॥

फलिष्यतीति विश्वासः सिद्धेः प्रथमलक्षणम्।
द्वितीयं श्रद्धया युक्तं तृतीयं गुरुपूजनम्॥

चतुर्थं समताभावं पञ्चमेन्द्रियनिग्रहम्।
षष्ठं च प्रमिताहारं सप्तमं नैव विद्यते॥ ३॥ १८॥

योगोपदेशं संप्राप्य लब्ध्वा योगविदं गुरुम्।
गुरूपदिष्टविधिना धिया निश्चित्य साधयेत्॥ ३॥ १९॥

सुशोभने मठे योगी पद्मासनसमन्वितः।
आसनोपरि संविश्य पवनाभ्यासमाचरेत्॥ ३॥ २०॥

समकायः प्राञ्जलिश्च प्रणम्य च गुरून् सुधीः।
दक्षे वामे च विघ्नेशं क्षत्रपालांबिकां पुनः॥ ३॥ २१॥

ततश्च दक्षांगुष्ठेन निरुद्ध्य पिंगलां सुधीः।
इडया पूरयेद्वायुं यथाशक्त्या तु कुम्भयेत्॥

ततस्त्यक्त्वा पिंगलयाशनैरेव न वेगतः॥ ३॥ २२॥

पुनः पिंगलयापूर्य यथाशक्त्या तु कुम्भयेत्।
इडया रेचयेद्वायुं न वेगेन शनैः शनैः॥ ३॥ २३॥

इदं योगविधानेन कुर्याद्विंशतिकुम्भकान्।
सर्वद्वन्द्वविनिर्मुक्तः प्रत्यहं विगतालसः॥ ३॥ २४॥

प्रातःकाले च मध्याह्ने सूर्यास्ते चार्द्धरात्रके।
कुर्यादेवं चतुर्वारं कालेष्वेतेषु कुम्भकान्॥ ३॥ २५॥

इत्थं मासत्रयं कुर्यादनालस्यो दिने दिने।
ततो नाडीविशुद्धिः स्यादविलम्बेन निश्चितम्॥ ३॥ २६॥

यदा तु नाडीशुद्धिः स्याद्योगिनस्तत्त्वदर्शिनः।
तदा विध्वस्तदोषश्च भवेदारम्भसम्भवः॥ ३॥ २७॥

चिह्नानि योगिनो देहे दृश्यन्ते नाडिशुद्धितः।
कथ्यन्ते तु समस्तान्यङ्गानि संक्षेपतो मया॥ ३॥ २८॥

समकायः सुगन्धिश्च सुकान्तिः स्वरसाधकः।
आरम्भघटकश्चैव यथा परिचयस्तदा॥

निष्पत्तिः सर्वयोगेषु योगावस्था भवन्ति ताः॥ ३॥ २९॥

आरम्भः कथितोऽस्माभिरधुना वायुसिद्धये।
अपरः कथ्यते पश्चात् सर्वदुःखौघनाशनः॥ ३॥ ३०॥

प्रौढवह्निः सुभोगी च सुखीसर्वाङ्गसुन्दरः।
संपूर्णहृदयो योगी सर्वोत्साहबलान्वितः॥

जायते योगिनोऽवश्यमेतत्सर्वं कलेवरे॥ ३॥ ३१॥

अथ वर्ज्यं प्रवक्ष्यामि योगविघ्नकरं परम्।
येन संसारदुःखाब्धिं तीर्त्वा यास्यन्ति योगिन॥ ३॥ ३२॥

आम्लं कक्षं तथा तीक्ष्णं लवणं सार्षपं कटुम्।
बहुलं भ्रमणं प्रातः स्नानं तैलविदाहकम्॥

स्तेयं हिंसां जनद्वेषञ्चाहङ्कारमनार्जवम्।
उपवासमसत्यञ्च मोक्षञ्च प्राणिपीडनम्॥

स्त्रीसङ्गमग्निसेवां च बह्वालापं प्रियाप्रियम्।
अतीव भोजनं योगी त्यजेदेतानि निश्चितम्॥ ३॥ ३३॥

उपायं च प्रवक्ष्यामि क्षिप्रं योगस्य सिद्धये।
गोपनीयं साधकानां येन सिद्धिर्भवेत्खलु॥ ३॥ ३४॥

घृतं क्षीरं च मिष्टान्नं ताम्बूलं चूर्णवर्जितम्।
कर्पूरं निष्तुषं मिष्टं सुमठं सूक्ष्मरन्ध्रकम्॥

सिद्धान्तश्रवणं नित्यं वैराग्यगृहसेवनम्।
नामसङ्कीर्तनं विष्णोः सुनादश्रवणं परम्॥

धृतिः क्षमा तपः शौचं ह्रीर्मतिर्गुरुसेवनम्।
सदैतानि परं योगी नियमानि समाचरेत्॥ ३॥ ३५॥

अनिलेऽर्कप्रवेशे च भोक्तव्यं योगिभिः सदा।
वायौ प्रविष्टे शशिनि शयनं साधकोत्तमैः॥ ३॥ ३६॥

सद्यो भुक्तेऽपि क्षुधिते नाभ्यासः क्रियत बुधैः।
अभ्यासकाले प्रथमं कुर्यात्क्षीराज्यभोजनम्॥ ३॥ ३७॥

ततोऽभ्यासे स्थिरीभूते न तादृङ्नियमग्रहः।
अभ्यासिना विभोक्तव्यं स्तोकं स्तोकमनेकधा॥

पूर्वोक्तकाले कुर्यात्तु कुम्भकान्प्रतिवासरे॥ ३॥ ३८॥

ततो यथेष्टा शक्तिः स्याद्योगिनो वायुधारणे।
यथेष्टं धारणाद्वायोः कुम्भकः सिध्यति ध्रुवम्॥

केवले कुम्भके सिद्धे किं न स्यादिह योगिनः॥ ३॥ ३९॥

स्वेदः संजायते देहे योगिनः प्रथमोद्यमे।
यदा संजायते स्वेदो मर्दनं कारयेत्सुधीः॥

अन्यथा विग्रहे धातुर्नष्टो भवति योगिनः॥ ३॥ ४०॥

द्वितीये हि भवेत्कम्पो दार्दुरी मध्यमे मता।
ततोऽधिकतराभ्यासाद्गगनेचरसाधकः॥ ३॥ ४१॥

योगी पद्मासनस्थोऽपि भुवमुत्सृज्य वर्तते।
वायुसिद्धिस्तदा ज्ञेया संसारध्वान्तनाशिनी॥ ३॥ ४२॥

तावत्कालं प्रकुर्वीत योगोक्तनियमग्रहम्।
अल्पनिद्रा पुरीषं च स्तोकं मूत्रं च जायते॥ ३॥ ४३॥

अरोगित्वमदीनत्वं योगिनस्तत्त्वदर्शिनः।
स्वेदो लाला कृमिश्चैव सर्वथैव न जायते॥ ३॥ ४४॥

कफपित्तानिलाश्चैव साधकस्य कलेवरे।
तस्मिन्काले साधकस्य भोज्येष्वनियमग्रहः॥ ३॥ ४५॥

अत्यल्पं बहुधा भुक्त्वा योगी न व्यथते हि सः।
अथाभ्यासवशाद्योगी भूचरीं सिद्धिमाप्नुयात्॥

यथा दर्दुरजन्तूनां गतिः स्यात्पाणिताडनात्॥ ३॥ ४६॥

सन्त्यत्र बहवो विघ्ना दारुणा दुर्निवारणाः।
तथापि साधयेद्योगी प्राणैः कंथगतैरपि॥ ३॥ ४७॥

ततो रहस्युपाविष्टः साधकः संयतेन्द्रियः।
प्रणवं प्रजपेद्दीर्घं विघ्नानां नाशहेतवे॥ ३॥ ४८॥

पूर्वार्जितानि कर्माणि प्राणायामेन निश्चितम्।
नाशयेत्साधको धीमानिहलोकोद्भवानि च॥ ३॥ ४९॥

पूर्वाजितानि पापानि पुण्यानि विविधानि च।
नाशयेत्षोडशप्राणायामेन योगि पुंगवः॥ ३॥ ५०॥

पापतूलचयानाहोप्रदहेत्प्रलयाग्निना।
ततः पापविनिर्मुक्तः पश्चात्पुण्यानि नाशयेत्॥ ३॥ ५१॥

प्राणायामेन योगीन्द्रो लब्ध्वैश्वर्याष्टकानि वै।
पापपुण्योदधिं तीर्त्वा त्रैलोक्यचरतामियात्॥ ३॥ ५२॥

ततोऽभ्यासक्रमेणैव घटिकात्रितयं भवेत्।
येन स्यात्सकलासिद्धिर्योगिनः स्वेप्सिता ध्रुवम्॥ ३॥ ५३॥

वाक्सिधिः कामचारित्वं दूरदृष्टिस्तथैव च।
दूरश्रुतिः सूक्ष्मदृष्टिः परकायप्रवेशनम्॥

विण्मूत्रलेपने स्वर्णमदृश्यकरणं तथा।
भवन्त्येतानि सर्वाणि खेचरत्वं च योगिनाम्॥ ३॥ ५४॥

यदा भवेद्धटावस्था पवनाभ्यासने परा।
तदा संसारचक्रेऽस्मिन्नास्ति यन्न सधारयेत्॥ ३॥ ५५॥

प्राणापाननादबिंदुजीवात्मपरमात्मनः।
मिलित्वा घटते यस्मात्तस्माद्वै घट उच्यते॥ ३॥ ५६॥

याममात्रं यदा धर्तुं समर्थः स्यात्तदाद्भुतः।
प्रत्याहारस्तदैव स्यान्नांतरा भवति ध्रुवम्॥ ३॥ ५७॥

यं यं जानाति योगीन्द्रस्तं तमात्मेति भावयेत्।
यैरिन्द्रियैर्यद्विधानस्तदिन्द्रियजयो भवेत्॥ ३॥ ५८॥

याममात्रं यदा पूर्णं भवेदभ्यासयोगतः।
एकवारं प्रकुर्तीत तदा योगी च कुम्भकम्॥

दण्डाष्टकं यदा वायुर्निश्चलो योगिनो भवेत्।
स्वसामर्थ्यात्तदांगुष्ठे तिष्ठेद्वातुलवत्सुधीः॥ ३॥ ५९॥

ततः परिचयावस्था योगिनोऽभ्यासतो भवेत्।
यदा वायुश्चंद्रसूर्यं त्यक्त्वा तिष्ठति निश्चलम्॥

वायुः परिचितो वायुः सुषुम्ना व्योम्नि संचरेत्॥ ३॥ ६०॥

क्रियाशक्तिं गृहीत्वैव चक्रान्भित्त्वा सुनिश्चितम्।
यदा परिचयावस्था भवेदभ्यासयोगतः॥

त्रिकूटं कर्मणां योगी तदा पश्यति निश्चितम्॥ ३॥ ६१॥

ततश्च कर्मकूटानि प्रणवेन विनाशयेत्।
स योगी कर्मभोगाय कायव्यूहं समाचरेत्॥ ३॥ ६२॥

अस्मिन्काले महायोगी पंचधा धारणं चरेत्।
येन भूरादिसिद्धिः स्यात्ततो भूतभयापहा॥ ३॥ ६३॥

आधारे घटिकाः पंच लिंगस्थाने तथैव च।
तदूर्ध्वं घटिकाः पञ्च नाभिहृन्मध्यके तथा॥

भ्रूमध्योर्ध्वं तथा पंच घटिका धारयेत्सुधीः।
तथा भूरादिना नष्टो योगीन्द्रो न भवेत्खलु॥ ३॥ ६४॥

मेधावी सर्वभूतानां धारणां यः समभ्यसेत्।
शतब्रह्ममृतेनापि मृत्युस्तस्य न विद्यते॥ ३॥ ६५॥

ततोऽभ्यासक्रमेणैव निष्पत्तिर्योगिनो भवेत्।
अनादिकर्मबीजानि येन तीर्त्वाऽमृतं पिबेत्॥ ३॥ ६६॥

यदा निष्पत्तिर्भवति समाधेः स्वेनकर्मणा।
जीवन्मुक्तस्य शांतस्य भवेद्धीरस्य योगिनः॥

यदा निष्पत्तिसंपन्नः समाधिः स्वेच्छया भवेत्।
गृहीत्वा चेतनां वायुः क्रियाशक्तिं च वेगवान्॥

सर्वांश्चक्रान्विजित्वा च ज्ञानशक्तौ विलीयते॥ ३॥ ६७॥

इदानीं क्लेशहान्यर्थं वक्तव्यं वायुसाधनम्।
येन संसारचक्रेस्मिन् भोगहानिर्भवेद्ध्रुवम्॥ ३॥ ६८॥

रसनां तालुमूले यः स्थापयित्वा विचक्षणः।
पिबेत्प्राणानिलं तस्य योगानां संक्षयो भवेत्॥ ३॥ ६९॥

काकचंच्वा पिबेद्वायुं शीतलं यो विचक्षणः।
प्राणापानविधानज्ञः स भवेन्मुक्तिभाजनः॥ ३॥ ७०॥

सरसं यः पिबेद्वायुं प्रत्यहं विधिना सुधीः।
नश्यंति योगिनस्तस्य श्रमदाहजरामयाः॥ ३॥ ७१॥

रसनामूर्ध्वगां कृत्वा यश्चन्द्रे सलिलं पिबेत्।
मासमात्रेण योगीन्द्रो मृत्युंजयति निश्चितम्॥ ३॥ ७२॥

राजदंतबिलं गाढं संपीड्य विधिना पिबेत्।
ध्यात्वा कुण्डलिनीं देवीं षण्मासेन कविर्भवेत्॥ ३॥ ७३॥

काकचंच्वा पिबेद्वायुं सन्ध्ययोरुभयोरपि।
कुण्डलिन्या मुखे ध्यात्वा क्षयरोगस्य शान्तये॥ ३॥ ७४॥

अहर्निशं पिबेद्योगी काकचंच्वा विचक्षणः।
पिबेत्प्राणानिलं तस्य रोगाणां संक्षयो भवेत्॥

दूरश्रुतिर्दूरदृष्टिस्तथा स्याद्दर्शनं खलु॥ ३॥ ७५॥

दन्तैर्दन्तान्समापीड्य पिबेद्वायुं शनैः शनैः।
ऊर्ध्वजिह्वः सुमेधावी मृत्युं जयति सोचिरात्॥ ३॥ ७६॥

षण्मासमात्रमभ्यासं यः करोति दिने दिने।
सर्वपापविनिर्मुक्तो रोगान्नाशयते हि सः॥ ३॥ ७७॥

संवत्सरकृताऽभ्यासाद्भैरवो भवति ध्रुवम्।
अणिमादिगुणाल्लब्ध्वा जितभूतगणः स्वयम्॥ ३॥ ७८॥

रसनामूर्ध्वगां कृत्वा क्षणार्धं यदि तिष्ठति।
क्षणेन मुच्यते योगी व्याधिमृत्युजरादिभिः॥ ३॥ ७९॥

रसनां प्राणसंयुक्तां पीड्य्मानां विचिंतयेत्।
न तस्य जायते मृत्युः सत्यं सत्यं मयोदितम्॥ ३॥ ८०॥

एवमभ्यासयोगेन कामदेवो द्वितीयकः।
न क्षुधा न तृषा निद्रा नैव मूर्च्छा प्रजायते॥ ३॥ ८१॥

अनेनैव विधानेन योगीन्द्रोऽवनिमण्डले।
भवेत्स्वच्छन्दचारी च सर्वापत्परिवर्जितः॥ ३॥ ८२॥

न तस्य पुनरावृत्तिर्मोदते ससुरैरपि।
पुण्यपापैर्न लिप्येत एतदाक्षरणेन सः॥ ३॥ ८३॥

चतुरशीत्यासनानि सन्ति नानाविधानि च।
तेभ्यश्चतुष्कमादाय मयोक्तानि ब्रवीम्यहम्॥

सिद्धासनं ततः पद्मासनञ्चोग्रं च स्वस्तिकम्॥ ३॥ ८४॥

योनिं संपीड्य यत्नेन पादमूलेन साधकः।
मेढोपरि पादमूलं विन्यसेद्योगवित्सदा॥

ऊर्ध्वं निरीक्ष्य भ्रूमध्यं निश्चलः संयतेन्द्रियः।
विशेषोऽवक्रकायश्च रहस्युद्वेगवर्जितः॥

एतत् सिद्धासनं ज्ञेयं सिद्धानां सिद्धिदायकम्॥ ३॥ ८५॥

येनाभ्यासवशाच्छीघ्रं योगनिष्पत्तिमाप्नुयात्।
सिद्धासनं सदा सेव्यं पवनाभ्यासिना परम्॥ ३॥ ८६॥

येन संसारमुत्सृज्य लभते परमां गतिम्।
नातः परतरं गुह्यमासनं विद्यते भुवि॥

येनानुध्यानमात्रेण योगी पापाद्विमुच्यते॥ ३॥ ८७॥

उत्तानौ चरणौ कृत्वा ऊरुसंस्थौ प्रयत्नतः।
ऊरुमध्ये तथोत्तानौ पाणी कृत्वा तु तादृशौ॥

नासाग्रे विन्यसेद्दृष्टिं दन्तमूलञ्च जिह्वया।
उत्तोल्य चिबुकं वक्ष उत्थाप्य पवनं शनैः॥

यथाशक्त्या समाकृष्य पूरयेदुदरं शनैः।
यथा शक्त्यैव पश्चात्तु रेचयेदविरोधतः॥

इदं पद्मासनं प्रोक्तं सर्वव्याधिविनाशनम्॥ ३॥ ८८॥

दुर्लभं येन केनापि धीमता लभ्यते परम्॥ ३॥ ८९॥

अनुष्ठाने कृते प्राणः समश्चलति तत्क्षणात्।
भवेदभ्यासने सम्यक्साधकस्य न संशयः॥ ३॥ ९०॥

पद्मासने स्थितो योगी प्राणापानविधानतः।
पूरयेत्स विमुक्तः स्यात्सत्यं सत्यं वदाम्यहम्॥ ३॥ ९१॥

प्रसार्य चरणद्वन्द्वं परस्परमसंयुतम्।
स्वपाणिभ्यां दृढं धृत्वा जानूपरि शिरो न्यसेत्॥

आसनोग्रमिदं प्रोक्तं भवेदनिलदीपनम्।
देहावसानहरणं पश्चिमोत्तानसंज्ञकम्॥

य एतदासनं श्रेष्ठं प्रत्यहं साधयेत्सुधीः।
वायुः पश्चिममार्गेण तस्य सञ्चरति ध्रुवम्॥ ३॥ ९२॥

एतदभ्यासशीलानां सर्वसिद्धिः प्रजायते।
तस्माद्योगी प्रयत्नेन साधयेत्सिद्धमात्मनः॥ ३॥ ९३॥

गोपनीयं प्रयत्नेन न देयं यस्य कस्यचित्।
येन शीघ्रं मरुत्सिद्धिर्भवेद् दुःखौघनाशिनी॥ ३॥ ९४॥

जानूर्वोरन्तरे सम्यग्धृत्वा पादतले उभे।
समकायः सुखासीनः स्वस्तिकं तत्प्रचक्षते॥ ३॥ ९५॥

अनेन विधिना योगी मारुतं साधयेत्सुधीः।
देहे न क्रमते व्याधिस्तस्य वायुश्च सिद्ध्यति॥ ३॥ ९६॥

सुखासनमिदं प्रोक्तं सर्वदुःखप्रणाशनम्।
स्वस्तिकं योगिभिर्गोप्यं स्वस्तीकरणमुत्तमम्॥ ३॥ ९७॥

इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
तृतीयः पटलः समाप्तः॥ ३॥

चतुर्थः पटलः

आदौ पूरक योगेन स्वाधारे पूरयेन्मनः।
गुदमेढ्रन्तरे योनिस्तामाकुंच्य प्रवर्तते॥ ४॥ १॥

ब्रह्मयोनिगतं ध्यात्वा कामं कन्दुकसन्निभम्।
सूर्यकोटि प्रतीकाशं चन्द्रकोटिसुशीतलम्॥

तस्योर्ध्वं तु शिखासूक्ष्मा चिद्रूपा परमाकला।
तया सहितमात्मानमेकीभूतं विचिन्तयेत्॥ ४॥ २॥

गच्छति ब्रह्ममार्गेण लिंगत्रयक्रमेण वै।
अमृतं तद्धि स्वर्गस्थं परमानन्दलक्षणम्॥

श्वेतरक्तं तेजसाढ्यं सुधाधाराप्रवर्षिणम्।
पीत्वा कुलामृतं दिव्यं पुनरेव विशेत्कुलम्॥ ४॥ ३॥

पुनरेव कुलं गच्छेन्मात्रायोगेन नान्यथा।
सा च प्राणसमाख्याता ह्यस्मिंस्तन्त्रे मयोदिता॥ ४॥ ४॥

पुनः प्रलीयते तस्यां कालाग्न्यादिशिवात्मकम्।
योनिमुद्रा परा ह्येषा बन्धस्तस्याः प्रकीर्तितः।
तस्यास्तु बन्धामत्रेण तन्नास्ति यन्न साधयेत्॥ ४॥ ५॥

छिन्नरूपास्तु ये मन्त्राः कीलिताः स्तंभिताश्च ये।
दग्धामन्त्राः शिखाहीना मलिनास्तु तिरस्कृताः॥

मन्दा बालास्तथा वृद्धाः प्रौढा यौवनगर्विताः।
अरिपक्षे स्थिता ये च निर्वीर्याः सत्त्ववर्जिताः।
तथा सत्त्वेन हीनाश्च खण्डिताः शतधाकृताः॥

विधानेन च संयुक्ताः प्रभवन्त्यचिरेण तु।
सिद्धिमोक्षप्रदाः सर्वे गुरुणा विनियोजिताः॥

दीक्षयित्वा विधानेन अभिषिच्य सहस्रधा।
ततो मंत्राधिकारार्थमेषा मुद्रा प्रकीर्तिता॥ ४॥ ६॥

ब्रह्महत्यासहस्राणि त्रैलोक्यमपि घातयेत्।
नासौ लिप्यति पापेन योनिमुद्रानिबन्धनात्॥ ४॥ ७॥

गुरुहा च सुरापी च स्तेयी च गुरुतल्पगः।
एतैः पापैर्न बध्येत योनिमुद्रानिबन्धनात्॥ ४॥ ८॥

तस्मादभ्यासनं नित्यं कर्तव्यं मोक्षकांक्षिभिः।
अभ्यासाज्जाय ते सिद्धिरभ्यासान्मोक्षमाप्नुयात्॥ ४॥ ९॥

संविदं लभतेऽभ्यासाद्योगोभ्यासात्प्रवर्तते।
मुद्राणां सिद्धिरभ्यासादभ्यासाद्वायुसाधनम्॥

कालवञ्चनमभ्यासात्तथा मृत्युञ्जयो भवेत्॥ ४॥ १०॥

वाक्सिद्धिः कामचारित्वं भवेद्भ्यासयोगतः॥

योनिमुद्रा परं गोप्या न देया यस्य कस्यचित्।
सर्वथा नैव दातव्या प्राणैः कण्ठगतैरपि॥ ४॥ ११॥

अधुना कथयिष्यामि योगसिद्धिकरं परम्।
गोपनीयं सुसिद्धानां योगं परमदुर्लभम्॥ ४॥ १२॥

सुप्ता गुरुप्रसादेन यदा जागर्ति कुण्डली।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोपि च॥ ४॥ १३॥

तस्मात्सर्वप्रयत्नेन प्रबोधयितुमीश्वरीम्।
ब्रह्मरन्ध्रमुखे सुप्तां मुद्राभ्यासं समाचरेत्॥ ४॥ १४॥

महामुद्रा महाबन्धो महावेधश्च खेचरी।
जालंधरो मूलबंधो विपरीतकृतिस्तथा॥

उड्डानं चैव वज्रोणी दशमे शक्तिचालनम्।
इदं हि मुद्रादशकं मुद्राणामुत्तमोत्तमम्॥ ४॥ १५॥

अथ महामुद्राकथनम्।
महामुद्रां प्रवक्ष्यामि तन्त्रेऽस्मिन्मम वल्लभे।
यां प्राप्य सिद्धाः सिद्धिं च कपिलाद्याः पुरागताः॥ ४॥ १६॥

अपसव्येन संपीड्य पादमूलेन सादरम्।
गुरूपदेशतो योनिं गुदमेड्रान्तरालगाम्॥

सव्यं प्रसारितं पादं धृत्वा पाणियुगेन वै।
नवद्वाराणि संयम्य चिबुकं हृदयोपरि॥

चित्तं चित्तपथे दत्त्वा प्रभवेद्वायुसाधनम्।
महामुद्राभवेदेषा सर्वतन्त्रेषु गोपिता॥

वामाङ्गेन समभ्यस्य दक्षाङ्गेनाभ्यसेत् पुनः।
प्राणायामं समं कृत्वा योगी नियतमानसः॥ ४॥ १७॥

अनेन विधिना योगी मन्दभाग्योपि सिध्यति।
सर्वासामेव नाडीनां चालनं बिन्दुमारणम्॥

जीवनन्तु कषायस्य पातकानां विनाशनम्।
सवरोगोपशमनं जठराग्निविवर्धनम्॥

वपुषा कान्तिममलां जरामृत्युविनाशनम्।
वांछितार्थफलं सौख्यमिन्द्रियाणाञ्च मारणम्॥

एतदुक्तानि सर्वाणि योगारूढस्य योगिनः।
भवेदभ्यासतोऽवश्यं नात्र कार्या विचारणा॥ ४॥ १८॥

गोपनीया प्रयत्नेन मुद्रेयं सुरपूजिते।
यां तु प्राप्य भवाम्भोधेः पारं गच्छन्ति योगिनः॥ ४॥ १९॥

मुद्रा कामदुघा ह्येषा साधकानां मयोदिता।
गुप्ताचारेण कर्तव्या न देया यस्य कस्यचित्॥ ४॥ २०॥

अथ महाबन्धकथनम्।
ततः प्रसारितः पादो विन्यस्य तमुरूपरि।
गुदयोनिं समाकुंच्य कृत्वा चापानमूर्ध्वगम्।
योजयित्वा समानेन कृत्वा प्राणमधोमुखम्॥

बन्धयेदूर्ध्वगत्यर्थं प्राणापानेन यः सुधीः।
कथितोऽयं महाबन्धः सिद्धिमार्गप्रदायकः।
नाडीजालाद्रसव्यूहो मूर्धानं याति योगिनः॥

उभाभ्यां साधयेत् पद्भ्यामेकै सुप्रयत्नतः॥ ४॥ २१॥

भवेदभ्यासतो वायुः सुषुम्नां मध्यसङ्गतः।
अनेन वपुषः पुष्टिर्दृढबन्धोऽस्थिपंजरे॥

संपूर्णहृदयो योगी भवत्न्येतानि योगिनः।
बन्धेनानेन योगीन्द्रः साधयेत्सर्वमीप्सितम्॥ ४॥ २२॥

अथ महावेधकथनम्।
अपानप्राणयोरैक्यं कृत्वा त्रिभुवनेश्वरि।
महावेधस्थितो योगी कुक्षिमापूर्य वायुना।
स्फिचौ संताडयेद्धीमान्वेधोऽयं कीर्तितो मया॥ ४॥ २३॥

वेधेनानेन संविध्य वायुना योगिपुंगवः।
ग्रंथिं सुषुम्णामार्गेण ब्रह्मग्रंथिं भिनत्त्यसौ॥ ४॥ २४॥

यः करोति सदाभ्यासं महावेधं सुगोपितम्।
वायुसिद्धिर्भवेत्तस्य जरामरणनाशिनी॥ ४॥ २५॥

चक्रमधे स्थिता देवाः कम्पन्ति वायुताडनात्।
कुण्डल्यपि महामाया कैलासे सा विलीयते॥ ४॥ २६॥

महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ।
तस्माद्योगी प्रयत्नेन करोति त्रितयं क्रमात्॥ ४॥ २७॥

एतत् त्रयं प्रयत्नेन चतुर्वारं करोति यः।
षण्मासाभ्यन्तरं मृत्युं जयत्येव न संशयः॥ ४॥ २८॥

एतत् त्रयस्य माहात्म्यं सिद्धो जानाति नेतरः।
यज्ज्ञात्वा साधकाः सर्वे सिद्धिं सम्यग्लभन्ति वै॥ ४॥ २९॥

गोपनीया प्रयत्नेन साधकैः सिद्धिमीप्सुभिः।
अन्यथा च न सिद्धिः स्यान्मुद्राणामेष निश्चयः॥ ४॥ ३०॥

अथ खेचरीमुद्राकथनम्।
भ्रुवोरन्तर्गतां दृष्टिं विधाय सुदृढां सुधीः।
उपविश्यासने वज्रे नानोपद्रववर्जितः॥

लम्बिकोर्ध्वं स्थिते गर्ते रसनां विपरीतगाम्।
संयोजयेत्प्रयत्नेन सुधाकूपे विचक्षणः।
मुद्रैषा खेचरी प्रोक्ता भक्तानामनुरोधतः॥ ४॥ ३१॥

सिद्धीनां जननी ह्येषा मम प्राणाधिकप्रिया।
निरन्तरकृताभ्यासात्पीयूषं प्रत्यहं पिबेत्॥

तेन विग्रहसिद्धिः स्यान्मृत्युमातङ्गकेसरी॥ ४॥ ३२॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपिवा।
खेचरी यस्य शुद्धा तु स शुद्धो नात्र संशयः॥ ४॥ ३३॥

क्षणार्धं कुरुते यस्तु तीर्त्वा पापमहार्णवम्।
दिव्यभोगान्प्रभुक्त्वा च सत्कुले स प्रजायते॥ ४॥ ३४॥

मुद्रैषा खेचरी यस्तु स्वस्थचित्तो ह्यतन्द्रितः।
शतब्रह्मगतेनापि क्षणार्धं मन्यते हि सः॥ ४॥ ३५॥

गुरूपदेशतो मुद्रां यो वेत्ति खेचरीमिमाम्।
नानापापरतो धीमान् स याति परमां गतिम्॥ ४॥ ३६॥

सा प्राणसदृशी मुद्रा यस्मिन्कस्मिन्न दीयते।
प्रच्छाद्यते प्रयत्नेन मुद्रेयं सुरपूजिते॥ ४॥ ३७॥

अथ जालन्धरबन्ध।
बद्धागलशिराजालं हृदये चिबुकं न्यसेत्।
बन्धोजालन्धरः प्रोक्तो देवानामपि दुर्लभः॥

नाभिस्थवह्निर्जन्तूनां सहस्रकमलच्युतम्।
पिबेत्पीयूषविस्तारं तदर्थं बन्धयेदिमम्॥ ४॥ ३८॥

बन्धेनानेन पीयूषं स्वयं पिबति बुद्धिमान्।
अमरत्वञ्च सम्प्राप्य मोदते भुवनत्रये॥ ४॥ ३९॥

जालन्धरो बन्ध एष सिद्धानां सिद्धिदायकः।
अभ्यासः क्रियते नित्यं योगिना सिद्धिमिच्छता॥ ४॥ ४०॥

अथ मूलबन्धः।
पादमूलेन संपीड्य गुदमार्गं सुयन्त्रितम्।
बलादपानमाकृष्य क्रमादूर्ध्वं सुचारयेत्।
कल्पितोऽयं मूलबन्धो जरामरणनाशनः॥ ४॥ ४१॥

अपानप्राणयोरैक्यं प्रकरोत्यधिकल्पितम्।
बन्धेनानेन सुतरा योनिमुद्रा प्रसिद्ध्यति॥ ४॥ ४२॥

सिद्धायां योनिमुद्रायां किं न सिद्ध्यति भूतले।
बन्धस्यास्य प्रसादेन गगने विजितालसः॥

पद्मासने स्थितो योगी भुवमुत्सृज्य वर्तते॥ ४॥ ४३॥

सुगुप्ते निर्जने देशे बन्धमेनं समभ्यसेत्।
संसारसागरं तर्तुं यदीच्छेद्योगि पुंगवः॥ ४॥ ४४॥

अथ विपरीतकरणी मुद्रा।
भूतले स्वशिरोदत्त्वा खे नयेच्चरणद्वयम्।
विपरीतकृतिश्चैषा सर्वतन्त्रेषु गोपिता॥ ४॥ ४५॥

एतद्यः कुरुते नित्यमभ्यासं याममात्रतः।
मृत्युं जयति स योगी प्रलये नापि सीदति॥ ४॥ ४६॥

कुरुतेऽमृतपानं यः सिद्धानां समतामियात्।
स सेव्यः सर्वलोकानां बन्धमेनं करोति यः॥ ४॥ ४७॥

नाभेरूर्ध्वमधश्चापि तानं पश्चिममाचरेत्।
उड्ड्यानबंध एष स्यात्सर्वदुःखौघनाशनः॥

उदरे पश्चिमं तानं नाभेरूर्ध्वं तु कारयेत्।
उड्यानाख्योऽत्र बन्धोयं मृत्युमातङ्गकेसरी॥ ४॥ ४८॥

नित्यं यः कुरुते योगी चतुर्वारं दिने दिने।
तस्य नाभेस्तु शुद्धिः स्याद्येन सिद्धो भवेन्मरुत्॥ ४॥ ४९॥

षण्मासमभ्यसन्योगी मृत्युं जयति निश्चितम्।
तस्योदराग्निर्ज्वलति रसवृद्धिः प्रजायते॥ ४॥ ५०॥

अनेन सुतरां सिद्धिर्विग्रहस्य प्रजायते।
रोगाणां संक्षयश्चापि योगिनो भवति ध्रुवम्॥ ४॥ ५१॥

गुरोर्लब्ध्वा प्रयत्नेन साधयेत् तु विचक्षणः।
निर्जने सुस्थिते देशे बन्धं परम दुर्लभम्॥ ४॥ ५२॥

अथ शक्तिचालनमुद्रा।
आधारकमले सुप्तां चालयेत्कुण्डलीं दृढाम्।
अपानवायुमारुह्य बलादाकृष्य बुद्धिमान्।
शक्तिचालनमुद्रेयं सर्वशक्तिप्रदायिनी॥ ४॥ ५३॥

शक्तिचालनमेवं हि प्रत्यहं यः समाचरेत्।
आयुर्वृद्धिर्भवेत्तस्य रोगाणां च विनाशनम्॥ ४॥ ५४॥

विहाय निद्रा भुजगी स्वयमूर्ध्वे भवेत्खलु।
तस्मादभ्यासनं कार्यं योगिना सिद्धमिच्छता॥ ४॥ ५५॥

यः करोति सदाभ्यासं शक्तिचालनमुत्तमम्।
येन विग्रहसिद्धिः स्यादणिमादिगुणप्रदा।
गुरूपदेशविधिना तस्य मृत्युभयं कुतः॥ ४॥ ५६॥

मुहूर्तद्वयपर्यन्तं विधिना शक्तिचालनम्।
यः करोति प्रयत्नेन तस्य सिद्धिरदूरतः।
युक्तासनेन कर्तव्यं योगिभिः शक्तिचालनम्॥ ४॥ ५७॥

एतत्तुमुद्रादशकं न भूतं न भविष्यति।
एकैकाभ्यासने सिद्धिः सिद्धो भवति नान्यथा॥ ४॥ ५८॥

इति श्रीशिवसंहितायां हरगौरीसंवादे मुद्राकथनं नाम चतुर्थपटलः समाप्तः॥ ४॥

पञ्चमः पटलः

श्रीदेव्युवाच॥

ब्रूहि मे वाक्यमीशान परमार्थधियं प्रति।
ये विघ्नाः सन्ति लोकानां वद मे प्रिय शङ्कर॥ ५॥ १॥

ईश्वर उवाच॥

शृणु देवि प्रवक्ष्यामि यथा विघ्नाः स्थिताः सदा।
मुक्तिं प्रति नराणाञ्च भोगः परमबन्धनः॥ ५॥ २॥

अथ भोगरूपयोगविघ्नकथनम्।
नारी शय्यासनं वस्त्रं धनमस्य विडम्बनम्।
ताम्बूलंभक्ष्ययानानि राज्यैश्वर्यविभूतयः।
हैमं रौप्यं तथा ताम्रं रत्नञ्चागुरुधेनवः।
पाण्डित्यं वेदशास्त्राणि नृत्यं गीतं विभूषणम्।
वंशी वीणा मृदङ्गाश्च गजेंद्रश्चाश्ववाहनम्।
दारापत्यानि विषया विघ्ना एते प्रकीर्तिताः।
भोगरूपा इमे विघ्ना धर्मरूपानिमाञ्छृणु॥ ५॥ ३॥

अथ धर्मरूपयोगविघ्नकथनम्।
स्नानं पूजाविधिर्होमं तथा मोक्षमयी स्थितिः।
व्रतोपवासनियममौनमिन्द्रियनिग्रहः।
ध्येयो ध्यानं तथा मन्त्रो दानं ख्यातिर्दिशासु च।
वापीकूपतडागादिप्रासादारामकल्पना।
यज्ञं चान्द्रायणं कृच्छ्रं तीर्थानि विविधानि च।
दृश्यन्ते च इमे विघ्ना धर्मरूपेण संस्थिताः॥ ५॥ ४॥

अथ ज्ञानरूपविघ्नकथनम्।
यत्तु विघ्नं भवेज्ज्ञानं कथयामि वरानने।
गोमुखं स्वासनं कृत्वा धौतिप्रक्षालनं च तत्।
नाडीसञ्चारविज्ञानं प्रत्याहारनिरोधनम्।
कुक्षिसंचालनं क्षिप्रं प्रवेश इन्द्रियाध्वना।
नाडीकर्माणि कल्याणि भोजनं श्रयतां मम॥ ५॥ ५॥

नवधातुरसं छिन्धि शुण्ठिकास्ताडयेत्पुनः।
एककालं समाधिः स्याल्लिंगभूतमिदं शृणु॥ ५॥ ६॥

सङ्गमं गच्छ साधूनां संकोचं भज दुर्जनात्।
प्रवेशनिर्गमे वायोर्गुरुलक्षं विलोकयेत्॥ ५॥ ७॥

पिण्डस्थं रूपसंस्थञ्च रूपस्थं रूपवर्जितम्।
ब्रह्मैतस्मिन्मतावस्था हृदयञ्च प्रशाम्यति।
इत्येते कथिता विघ्ना ज्ञानरूपे व्यवस्थिताः॥ ५॥ ८॥

अथ चतुर्विधयोगकथनम्।
मन्त्रयोगो हठश्चैव लययोगस्तृतीयकः।
चतुर्थो राजयोगः स्यात्स द्विधाभाववर्जितः॥ ५॥ ९॥

चतुर्धा साधको ज्ञेयो मृदुमध्याधिमात्रकाः।
अधिमात्रतमः श्रेष्ठो भवाब्धौ लंघनक्षमः॥ ५॥ १०॥

अथ मृदुसाधकलक्षणम्।
मन्दोत्साही सुसंमुढो व्याधिस्थो गुरुदूषकः।
लोभी पापमतिश्चैव बह्वाशी वनिताश्रयः॥

चपलः कातरो रोगी पराधीनोऽतिनिष्ठुरः।
मन्दाचारो मन्दवीर्यो ज्ञातव्यो मृदुमानवः॥

द्वादशाब्दे भवेत्सिद्धिरेतस्य यत्नतः परम्।
मन्त्रयोगाधिकारी स ज्ञातव्यो गुरुणा ध्रुवम्॥ ५॥ ११॥

समबुद्धिः क्षमायुक्तः पुण्याकांक्षी प्रियंवदः।
मध्यस्थः सर्वकार्येषु सामान्यः स्यान्नसंशयः॥

एतज्ज्ञात्वैव गुरुभिर्दीयते मुक्तितो लयः॥ ५॥ १२॥

अथ अधिमात्रसाधकलक्षणम्
स्थिरबुद्धिर्लये युक्तः स्वाधीनो वीर्यवानपि।
महाशयो दयायुक्तः क्षमावान् सत्यवानपि॥

शूरो वयःस्थः श्रद्धावान् गुरुपादाब्जपूजकः।
योगाभ्यासरतश्चैव ज्ञातव्यश्चाधिमात्रकः॥

एतस्य सिद्धिः षड्वर्षे भवेदभ्यासयोगतः।
एतस्मै दीयते धीरो हठयोगश्च साङ्गतः॥ ५॥ १३॥

अथ अधिमात्रतमसाधकलक्षणम्।
महावीर्यान्वितोत्साही मनोज्ञः शौर्यवानपि।
शास्त्रज्ञोऽभ्यासशीलश्च निर्मोहश्च निराकुलः॥

नवयौवनसम्पन्नो मिताहारी जितेंद्रियः।
निर्भयश्च शुचिर्दक्षो दाता सर्वजनाश्रयः॥

अधिकारी स्थिरो धीमान् यथेच्छावस्थितः क्षमी।
सुशीलो धर्मचारी च गुप्तचेष्टः प्रियंवदः॥

शास्त्रविश्वाससम्पन्नो देवता गुरुपूजकः।
जनसंगविरक्तश्च महाव्याधि विवर्जितः॥

अधिमात्रव्रतशश्च सर्वयोगस्य साधकः।
त्रिभिः संवत्सरैः सिद्धिरेतस्य नात्र संशयः॥

सर्वयोगाधिकारी स नात्र कार्या विचारणा॥ ५॥ १४॥

अथ प्रतीकोपासनम्।
प्रतीकोपासना कार्या दृष्टादृष्टफलप्रदा।
पुनाती दर्शनादत्र नात्र कार्या विचारणा॥ ५॥ १५॥

गाढातपे स्वप्रतिबिम्बितेश्वरं निरीक्ष्य विस्फारितलोचनद्वयम्।
यदा नभः पश्यति स्वप्रतीकं नभोङ्गणे तत्क्षणमेव पश्यति॥ ५॥ १६॥

प्रत्यहं पश्यते यो वै स्वप्रतीकं नभोङ्गणे।
आयुर्वृद्धिर्भवेत्तस्य न मृत्युः स्यात्कदाचन॥ ५॥ १७॥

यदा पश्यति सम्पूर्णं स्वप्रतीकं नभोङ्गणे।
तदा जयमवाप्नोति वायुं निर्जित्य सञ्चरेत्॥ ५॥ १८॥

यः करोति सदाभ्यासं चात्मानं वन्दते परम्।
पूर्णानन्दैकपुरुषं स्वप्रतीकप्रसादतः॥ ५॥ १९॥

यात्राकाले विवाहे च शुभे कर्मणि सङ्कटे।
पापक्षये पुण्यवृद्धौ प्रतीकोपासनञ्चरेत्॥ ५॥ २०॥

निरन्तरकृताभ्यासादन्तरे पश्यति ध्रुवम्।
तदा मुक्तिमवाप्नोति योगी नियतमानसः॥ ५॥ २१॥

अंगुष्ठाभ्यामुभे श्रोत्रे तर्जनीभ्यां द्विलोचने।
नासारन्ध्रे च मध्याभ्यामनामाभ्यां मुखं दृढम्॥

निरुध्य मारुतं योगी यदैव कुरुते भृशम्।
तदा लक्षणमात्मानं ज्योतीरूपं स पश्यति॥ ५॥ २२॥

तत्तेजो दृश्यते येन क्षणमात्रं निराकुलम्।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्॥ ५॥ २३॥

निरन्तरकृताभ्यासाद्योगी विगतकल्मषः।
सर्वदेहादि विस्मृत्य तदभिन्नः स्वयं गतः॥ ५॥ २४॥

यः करोति सदाभ्यासं गुप्ताचारेण मानवः।
स वै ब्रह्मविलीनः स्यात्पापकर्मरतो यदि॥ ५॥ २५॥

गोपनीयः प्रयत्नेन सद्यः प्रत्ययकारकः।
निर्वाणदायको लोके योगोयं मम वल्लभः॥

नादः संजायते तस्य क्रमेणाभ्यासतश्च वै॥ ५॥ २६॥

मतभृङ्गवेणुवीणासदृशः प्रथमो ध्वनिः।
एवमभ्यासतः पश्चात् संसारध्वान्तनाशनम्॥

घण्टानादसमः पश्चात् ध्वनिर्मेघरवोपमः।
ध्वनौ तस्मिन्मनो दत्त्वा यदा तिष्ठति निर्भयः॥

तदा संजायते तस्य लयस्य मम वल्लभे॥ ५॥ २७॥

तत्र नादे यदा चित्तं रमते योगिनो भृशम्।
विस्मृत्य सकलं बाह्यं नादेन सह शाम्यति॥ ५॥ २८॥

एतदभ्यासयोगेन जित्वा सम्यग्गुणान्वहून्।
सर्वारम्भपरित्यागी चिदाकाशे विलीयते॥ ५॥ २९॥

नासनं सिद्धसदृशं न कुम्भसदृशं बलम्।
न खेचरीसमा मुद्रा न नादसदृशो लयः॥ ५॥ ३०॥

इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये।
यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोपि साधकः॥ ५॥ ३१॥

समभ्यर्च्येश्वरं सम्यक्कृत्वा च योगमुत्तमम्।
गृह्णीयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान्॥ ५॥ ३२॥

जीवादि सकलं वस्तुं दत्त्वा योगविदं गुरुम्।
सन्तोष्यातिप्रयत्नेन योगोयं गृह्यते बुधैः॥ ५॥ ३३॥

विप्रान्संतोष्य मेधावी नानामंगलसंयुतः।
ममालये शुचिर्भूत्वा प्रगृह्णीयाच्छुभात्मकम्॥ ५॥ ३४॥

संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम्।
भूत्वा दिव्यवपुर्योगी गृह्णीयाद्वक्ष्यमाणकम्॥ ५॥ ३५॥

पद्मासनस्थितो योगी जनसंगविवर्जितः।
विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत्॥ ५॥ ३६॥

सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जनः।
तस्मिन्परिश्रमः कार्यो येन सिद्धो भवेत्खलु॥ ५॥ ३७॥

यः करोति सदाभ्यासं तस्य सिद्धिर्न दूरतः।
वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशयः॥ ५॥ ३८॥

सकृद्यः कुरुते योगी पापौघं नाशयेद्ध्रुवम्।
तस्य स्यान्मध्यमे वायोः प्रवेशो नात्र संशयः॥ ५॥ ३९॥

एतदभ्यासशीलो यः स योगी देवपूजितः।
अणिमादिगुणाल्लब्ध्वा विचरेद्भुवनत्रये॥ ५॥ ४०॥

यो यथास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रहः।
तिष्ठेदात्मनि मेधावी संयुतः क्रीडते भृशम्॥ ५॥ ४१॥

एतद्योगं परं गोप्यं न देयं यस्य कस्यचित्।
यः प्रमाणैः समायुक्तस्तमेव कथ्यते ध्रुवम्॥ ५॥ ४२॥

योगी पद्मासने तिष्ठेत्कण्ठकूपे यदा स्मरन्।
जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते॥ ५॥ ४३॥

कण्ठकूपादधः स्याने कूर्मनाड्य्स्ति शोभना।
तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्यं लभेद्भृशम्॥ ५॥ ४४॥

शिरः कपाले रुद्राक्षं विवरं चिन्तयेद्यदा।
तदा ज्योतिः प्रकाशः स्याद्विद्युत्पुञ्जसमप्रभः।
एतच्चिन्तनमात्रेण पापानां संक्षयो भवेत्।
दुराचारोऽपि पुरुषो लभते परमं पदम्॥ ५॥ ४५॥

अहर्निशं यदा चिन्तां तत्करोति विचक्षणः।
सिद्धानां दर्शनं तस्य भाषणञ्च भवेद्ध्रुवम्॥ ५॥ ४६॥

तिष्ठन् गछन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहर्निशम्।
तदाकाशमयो योगी चिदाकाशे विलीयते॥ ५॥ ४७॥

एतज्ज्ञानं सदा कार्यं योगिना सिद्धिमिच्छता।
निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम्॥

एतज्ज्ञानबलाद्योगी सर्वेषां वल्लभो भवेत्॥ ५॥ ४८॥

सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रहः।
नासाग्रे दृश्यते येन पद्मासनगतेन वै॥

मनसो मरणं तस्य खेचरत्वं प्रसिद्ध्यति॥ ५॥ ४९॥

ज्योतिः पश्यति योगीन्द्रः शुद्धं शुद्धाचलोपमम्।
तत्राभ्यासबलेनैव स्वयं तद्रक्षको भवेत्॥ ५॥ ५०॥

उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम्।
सद्यः श्रमविनाशाय स्वयं योगी विचक्षणः।
शिरः पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत्॥

भ्रूमध्ये दृष्टिमात्रेण ह्यपरः परिकीर्तितः॥ ५॥ ५१॥

चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते।
तत्र सारतमो लिंगदेहस्य परिपोषकः॥

सप्तधातुमयं पिण्डमेती पुष्णाति मध्यगः॥ ५॥ ५२॥

याति विण्मूत्ररूपेण तृतीयः सप्ततो बहिः॥

आद्यभागद्वयं नाड्यः प्रोक्तास्ताः सकला अपि।
पोषयन्ति वपुर्वायुमापादतलमस्तकम्॥ ५॥ ५३॥

नाडीभिराभिः सर्वाभिर्वायुः सञ्चरते यदा।
तदैवान्नरसो देहे साम्येनेह प्रवर्तते॥ ५॥ ५४॥

चतुर्दशानां तत्रेह व्यापारे मुख्यभागतः।
ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिकाः॥ ५॥ ५५॥

गुदाद्वयंगुलतश्चोर्ध्वं मेढैकांगुलतस्त्वधः।
एवञ्चास्ति समं कन्दं समताच्चतुरंगुलम्॥ ५॥ ५६॥

पश्चिमाभिमुखीः योनिर्गुदमेढ्रान्तरालगा।
तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा॥

संवेष्ट्य सकला नाडीः सार्द्धत्रिकुटलाकृतीः।
मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्तिता॥ ५॥ ५७॥

सुप्ता नागोपमा ह्येषा स्फुरन्ती प्रभया स्वया।
अहिवत्सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका॥ ५॥ ५८॥

ज्ञेया शक्तिरियं विष्णोर्निर्झरा स्वर्णभास्वरा।
सत्त्वं रजस्तमश्चेति गुणत्रयप्रसूतिका॥ ५॥ ५९॥

तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम्।
कलहेमसमं योगे प्रयुक्ताक्षररूपिणम्॥ ५॥ ६०॥

सुषुम्णापि च संश्लिष्टा बीजं तत्र वरं स्थितम्।
शरच्चंद्रनिभं तेजस्स्वयमेतत्स्फुरत्स्थितम्॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम्।
एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी॥

बीजसंज्ञं परंतेजस्तदेव परिकीर्तितम्॥ ५॥ ६१॥

क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत्।
उत्तिष्ठद्विशतस्त्वम्भः सूक्ष्मं शोणशिखायुतम्॥

योनिस्थं तत्परं तेजः स्वयंभूलिंगसंज्ञितम्॥ ५॥ ६२॥

आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दतः।
परिस्फुरद्वादिसान्तचतुर्वर्णं चतुर्दलम्॥ ५॥ ६३॥

कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसंगतम्।
द्विरण्डो यत्र सिद्धोस्ति डाकिनी यत्र देवता॥

तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता।
तस्या ऊर्ध्वे स्फुरत्तेजः कामबीजं भ्रमन्मतम्॥

यः करोति सदा ध्यानं मूलाधारे विचक्षणः।
तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै॥ ५॥ ६४॥

वपुषः कान्तिरुत्कृष्टा जठराग्निविवर्धनम्।
आरोग्यञ्च पटुत्वञ्च सर्वज्ञत्वञ्च जायते॥ ५॥ ६५॥

भूतं भव्यं भविष्यञ्च वेत्ति सर्वं सकारणम्।
अश्रुतान्यपि शास्त्राणि सरहस्यं भवेद्ध्रुवम्॥ ५॥ ६६॥

वक्त्रे सरस्वती देवी सदा नृत्यति निर्भरम्।
मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशयः॥ ५॥ ६७॥

जरामरणदुःखौघान्नाशयति गुरोर्वचः।
इदं ध्यानं सदा कार्यं पवनाभ्यासिना परम्।
ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्विषात्॥ ५॥ ६८॥

मूलपद्मं यदा ध्यायेद्योगी स्वयम्भुलिङ्गकम्।
तदा तत्क्षणमात्रेण पापौघं नाशयेद्ध्रुवम्॥ ५॥ ६९॥

यं यं कामयते चित्ते तं तं फलमवाप्नुयात्।
निरन्तरकृताभ्यासात्तं पश्यति विमुक्तिदम्॥

बहिरभ्यन्तरे श्रेष्ठं पूजनीयं प्रयत्नतः।
ततः श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम॥ ५॥ ७०॥

आत्मसंस्थं शिवं त्यक्त्वा बहिःस्थं यः समर्चयेत्।
हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया॥ ५॥ ७१॥

आत्मलिंगार्चनं कुर्यादनालस्यं दिने दिने।
तस्य स्यात्सकला सिद्धिर्नात्र कार्या विचारणा॥ ५॥ ७२॥

निरन्तरकृताभ्यासात्षण्मासैः सिद्धिमाप्नुयात्।
तस्य वायुप्रवेशोपि सुषुम्णायाम्भवेद्ध्रुवम्॥ ५॥ ७३॥

मनोजयञ्च लभते वायुबिन्दुविधारणात्।
ऐहिकामुष्मिकीसिद्धिर्भवेन्नैवात्र संशयः॥ ५॥ ७४॥

अथ स्वाधिष्ठानचक्रविवरणम्।
द्वितीयन्तु सरोजञ्च लिंगमूले व्यवस्थितम्।
बादिलान्तं च षड्वर्णं परिभास्वरषड्दलम्॥

स्वाधिष्ठानाभिधं तत्तु पंकजं शोणरूपकम्।
बालाख्यो यत्र सिद्धोऽस्ति देवी यत्रास्ति राकिणी॥ ५॥ ७५॥

वो ध्यायति सदा दिव्यं स्वाधिष्ठानारविन्दकम्।
तस्य कामाङ्गनाः सर्वा भजन्ते काममोहिताः॥ ५॥ ७६॥

विविधञ्चाश्रुतं शास्त्रं निःशङ्को वै भवेद्ध्रुवम्।
सर्वरोगविनिर्मुक्तो लोके चरति निर्भयः॥ ५॥ ७७॥

मरणं खाद्यते तेन स केनापि न खाद्यते।
तस्य स्यात्परमा सिद्धिरणिमादिगुणप्रदा॥

वायुः सञ्चरते देहे रसवृद्धिर्भवेद्ध्रुवम्।
आकाशपङ्कजगलत्पीयूषमपि वर्द्धते॥ ५॥ ७८॥

अथ मणिपूरचक्रविवरणम्।
तृतीयं पङ्कजं नाभौ मणिपूरकसंज्ञकम्।
दशारंडादिफान्तार्णं शोभितं हेमवर्णकम्॥ ५॥ ७९॥

रुद्राख्यो यत्र सिद्धोऽस्ति सर्वमङ्गलदायकः।
तत्रस्था लाकिनी नाम्नी देवी परमधार्मिका॥ ५॥ ८०॥

तस्मिन् ध्यानं सदा योगी करोति मणिपूरके।
तस्य पातालसिद्धिः स्नान्निरन्तरसुखावहा॥

ईप्सितञ्च भवेल्लोके दुःखरोगविनाशनम्।
कालस्य वञ्चनञ्चापि परदेहप्रवेशनम्॥ ५॥ ८१॥

जाम्बूनदादिकरणं सिद्धानां दर्शनं भवेत्।
ओषधीदर्शनञ्चापि निधीनां दर्शनं भवेत्॥ ५॥ ८२॥

हृदयेऽनाहतं नाम चतुर्थं पङ्कजं भवेत्।
कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम्॥

अतिशोणं वायुबीजं प्रसादस्थानमीरितम्॥ ५॥ ८३॥

पद्मस्थं तत्परं तेजो बाणलिंगं प्रकीर्तितम्।
यस्य स्मरणमात्रेण दृष्टादृष्टफलं लभेत्॥ ५॥ ८४॥

सिद्धः पिनाकी यत्रास्ते काकिनी यत्र देवता।
एतस्मिन्सततं ध्यानं हृत्पाथोजे करोति यः॥

क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषितः॥ ५॥ ८५॥

ज्ञानञ्चाप्रतिमं तस्य त्रिकालविषयम्भवेत्।
दूरश्रुतिर्दूरदृष्टिः स्वेच्छया खगतां व्रजेत्॥ ५॥ ८६॥

सिद्धानां दर्शनञ्चापि योगिनी दर्शनं तथा।
भवेत्खेचरसिद्धिश्च खेचराणां जयन्तथा॥ ५॥ ८७॥

यो ध्यायति परं नित्यं बाणलिंगं द्वितीयकम्।
खेचरी भूचरी सिद्धिर्भवेत्तस्य न संशयः॥ ५॥ ८८॥

एतद्ध्यानस्य माहात्म्यं कथितुं नैव शक्यते।
ब्रह्माद्याः सकला देवा गोपयन्ति परन्त्विदम्॥ ५॥ ८९॥

अथ विशुद्धचक्रविवरणम्।
कण्ठस्थानस्थितं पद्मं विशुद्धं नामपञ्चमम्।
सुहेमाभं स्वरोपेतं षोडशस्वरसंयुतम्॥

छगलाण्डोऽस्ति सिद्धोत्र शाकिनी चाधिदेवता॥ ५॥ ९०॥

ध्यानं करोति यो नित्यं स योगीश्वरपण्डितः।
किन्त्वस्य योगिनोऽन्यत्र विशुद्धाख्ये सरोरुहे॥

चतुर्वेदा विभासन्ते सरहस्या निधेरिव॥ ५॥ ९१॥

रहःस्थाने स्थितो योगी यदा क्रोधवशो भवेत्।
तदा समस्तं त्रैलोक्यं कम्पते नात्र संशयः॥ ५॥ ९२॥

इह स्थाने मनो यस्य दैवाद्यातिलयं यदा।
तदा बाह्यं परित्यज्य स्वान्तरे रमते ध्रुवम्॥ ५॥ ९३॥

तस्य न क्षतिमायाति स्वशरीरस्य शक्तितः।
संवत्सरसहस्रेऽपि वज्रातिकठिनस्य वै॥ ५॥ ९४॥

यदा त्यजति तद्ध्यानं योगींद्रोऽवनिमण्डले।
तदा वर्षसहस्राणि मन्यते तत्क्षणं कृती॥ ५॥ ९५॥

अथ आज्ञाचक्रविवरणम्।
आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम्।
शुक्लाभं तन्महाकालः सिद्धो देव्यत्र हाकिनी॥ ५॥ ९६॥

शरच्चंद्रनिभं तत्राक्षरबीजं विजृंभितम्।
पुमान् परमहंसोऽयं यज्ज्ञात्वा नावसीदति॥ ५॥ ९७॥

एतदेव परन्तेजः सर्वतन्त्रेषु मन्त्रिणः।
चिन्तयित्वा परां सिद्धिं लभते नात्र संशयः॥ ५॥ ९८॥

तुरीयं त्रितयं लिंगं तदाहं मुक्तिदायकः।
ध्यानमात्रेण योगीन्द्रो मत्समो भवति ध्रुवम्॥ ५॥ ९९॥

इडा हि पिंगला ख्याता वरणासीति होच्यते।
वाराणसी तयोर्मध्ये विश्वनाथोत्र भाषितः॥ ५॥ १००॥

एतत्क्षेत्रस्य माहात्म्यमृषिभिस्तत्त्वदर्शिभिः।
शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम्॥ ५॥ १०१॥

सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोऽस्ति वै।
ततश्चैषा परावृत्य तदाज्ञापद्मदक्षिणे॥

वामनासापुटं याति गंगेति परिगीयते॥ ५॥ १०२॥

ब्रह्मरन्ध्रे हि यत्पद्मं सहस्रारं व्यवस्थितम्।
तत्र कन्देहि या योनिस्तस्यां चन्द्रो व्यवस्थितः।
त्रिकोणाकारतस्तस्याः सुधा क्षरति सन्ततम्॥

इडायाममृतं तत्र समं स्रवति चन्द्रमाः।
अमृतं वहति धारा धारारूपं निरन्तरम्॥

वामनासापुटं याति गंगेत्युक्ता हि योगिभिः॥ ५॥ १०३॥

आज्ञापङ्कजदक्षांसाद्वामनासापुटंगता।
उदग्वहेति तत्रेडा वरणा समुदाहृता॥ ५॥ १०४॥

ततो द्वयोर्हि मध्ये तु वाराणसीति चिन्तयेत्।
तदाकारा पिंगलापि तदाज्ञाकमलान्तरे॥

दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै॥ ५॥ १०५॥

मूलाधारे हि यत्पद्मं चतुष्पत्र व्यवस्थितम्।
तत्र मध्येहि या योनिस्तस्यां सूर्यो व्यवस्थितः॥ ५॥ १०६॥

तत्सूर्यमण्डलद्वराद्विषं क्षरति सन्ततम्।
पिंगलायां विषं तत्र समर्पयति तापनः॥ ५॥ १०७॥

विषं तत्र वहन्ती या धारारूपं निरन्तरम्।
दक्षनासापुटे याति कल्पितेयन्तु पूर्ववत्॥ ५॥ १०८॥

आज्ञापङ्कजवामास्याद्दक्षनासापुटं गता।
उदग्वहा पिंगलापि पुरासीति प्रकीर्तिता॥ ५॥ १०९॥

आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वरः।
पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकैः॥

तद्बिन्दुनादशक्त्याख्यं भालपद्मे व्यवस्थितम्॥ ५॥ ११०॥

यः करोति सदाध्यानमाज्ञापद्मस्य गोपितम्।
पूर्वजन्मकृतं कर्म विनश्येदविरोधतः॥ ५॥ १११॥

इह स्थिते यदा योगी ध्यानं कुर्यान्निरन्तरम्।
तदा करोति प्रतिमां पूजाजपमनर्थवत्॥ ५॥ ११२॥

यक्षराक्षसगन्धर्वा अपसरोगणकिन्नराः।
सेवन्ते चरणौ तस्य सर्वे तस्य वशानुगाः॥ ५॥ ११३॥

करोति रसनां योगी प्रविष्टां विपरीतगाम्।
लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम्॥

अस्मिन् स्थाने मनो यस्य क्षणार्धं वर्ततेऽचलम्।
तस्य सर्वाणि पापानि संक्षयं यान्ति तत्क्षणात्॥ ५॥ ११४॥

यानि यानि हि प्रोक्तानि पंचपद्मे फलानि वै।
तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवन्ति हि॥ ५॥ ११५॥

यः करोति सदाभ्यासमाज्ञा पद्मे विचक्षणः।
वासनाया महाबन्धं तिरस्कृत्य प्रमोदते॥ ५॥ ११६॥

प्राणप्रयाणसमये तत्पद्मं यः स्मरन्सुधीः।
त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते॥ ५॥ ११७॥

तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नरः।
पापकर्मविकुर्वाणो नहि मज्जति किल्विषे॥ ५॥ ११८॥

योगी बन्धाद्विनिर्मुक्तः स्वीयया प्रभया स्वयम्।
द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते॥

ब्रह्मादिदेवताश्चैव किञ्चिन्मत्तो विदन्ति ते॥ ५॥ ११९॥

अत ऊर्ध्वं तालुमूले सहस्रारंसरोरुहम्।
अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम्॥ ५॥ १२०॥

तालुमूले सुषुम्णा सा अधोवक्त्रा प्रवर्तते।
मूला धारेणयोन्यस्ताः सर्वनाड्यः समाश्रिताः॥

ता बीजभूतास्तत्त्वस्य ब्रह्ममार्गप्रदायिकाः॥ ५॥ १२१॥

तालुस्थाने च यत्पद्मं सहस्रारं पुराहितम्।
तत्कन्दे योनिरेकास्ति पश्चिमाभिमुखी मता॥ ५॥ १२२॥

तस्या मध्ये सुषुम्णाया मूलं सविवरं स्थितम्।
ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम्॥ ५॥ १२३॥

ततस्तद्रन्ध्रे तच्छक्तिः सुषुम्णा कुण्डली सदा।
सुषुम्णायां सदा शक्तिश्चित्रा स्यान्मम वल्लभे॥

तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना॥ ५॥ १२४॥

यस्याः स्मरणमात्रेण ब्रह्मज्ञत्वं प्रजायते।
पापक्षयश्च भवति न भूयः पुरुषो भवेत्॥ ५॥ १२५॥

प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत्।
तेनात्र न बहत्येव देहचारी समीरणः॥ ५॥ १२६॥

तेन संसारचक्रेस्मिन् भ्रमतीत्येव सर्वदा।
तदर्थं ये प्रवर्तन्ते योगी न प्राणधारणे।
तत एवाखिला नाडी विरुद्धा चाष्टवेष्टनम्।
इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा॥ ५॥ १२७॥

यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा।
बन्धत्यागेन कुण्डल्या मुखं रन्ध्राद् बहिर्भवेत्॥ ५॥ १२८॥

सुषुम्णायां सदैवायं वहेत्प्राणसमीरणः।
मूलपद्मस्थिता योनिर्वामदक्षिणकोणतः॥

इडापिंगलयोर्मध्ये सुषुम्णा योनिमध्यगा॥ ५॥ १२९॥

ब्रह्मरन्ध्रं तु तत्रैव सुषुम्णाधारमण्डले।
यो जानाति स मुक्तः स्यात्कर्मबन्धाद्विचक्षणः॥ ५॥ १३०॥

ब्रह्मरन्ध्रमुखे तासां संगमः स्यादसंशयः।
तस्मिन्स्नाने स्नातकानां मुक्तिः स्यादविरोधतः॥ ५॥ १३१॥

गंगायमुनयोर्मध्ये वहत्येषा सरस्वती।
तासां तु संगमे स्नात्वा धन्यो याति परां गतिम्॥ ५॥ १३२॥

इडा गंगा पुरा प्रोक्ता पिंगला चार्कपुत्रिका।
मध्या सरस्वती प्रोक्ता तासां संगोऽतिदुर्लभः॥ ५॥ १३३॥

सितासिते संगमे यो मनसा स्नानमाचरेत्।
सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम्॥ ५॥ ३४॥

त्रिवेण्यां संगमे यो वै पितृकर्म समाचरेत्।
तारयित्वा पितॄन्सर्वान्स याति परमां गतिम्॥ ५॥ १३५॥

नित्यं नैमित्तिकं काम्यं प्रत्यहं यः समाचरेत्।
मनसा चिन्तयित्वा तु सोऽक्षयं फलमाप्नुयात्॥ ५॥ १३६॥

सकृद्यः कुरुते स्नानं स्वर्गे सौख्यं भुनक्ति सः।
दग्ध्वा पापानशेषान्वै योगी शुद्धमतिः स्वयम्॥ ५॥ १३७॥

अपवित्रः पवित्री वा सर्वावस्थां गतोपि वा।
स्नानाचरणमात्रेण पूतो भवति नान्यथा॥ ५॥ १३८॥

मृत्युकाले प्लुतं देहं त्रिवेण्याः सलिले यदा।
विचिन्त्य यस्त्यजेत्प्राणान्स तदा मोक्षमाप्नुयात्॥ ५॥ १३९॥

नातःपरतरं गुह्यं त्रिषु लोकेषु विद्यते।
गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन॥ ५॥ १४०॥

ब्रह्मरन्ध्र मनो दत्त्वा क्षणार्धं यदि तिष्ठति।
सर्वपापविनिर्मुक्तः स याति परमां गतिम्॥ ५॥ १४१॥

अस्मिल्लीनं मनो यस्य स योगी मयि लीयते।
अणिमादिगुणान्भुक्त्वा स्वेच्छया पुरुषोत्तमः॥ ५॥ १४२॥

एतद्रन्ध्रध्यानमात्रेण मर्त्यः संसारे स्मिन्वल्लभो मे भवेत्सः।
पापाञ्जित्वा मुक्तिमार्गाधिकारी ज्ञानं दत्त्वा तारयत्यद्भुतं वै॥ ५॥ १४३॥

चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम्।
प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्रं मयोदितम्॥ ५॥ १४४॥

पुरा मयोक्ता या योनिः सहस्रारे सरारुहे।
तस्याऽधो वर्तते चन्द्रस्तद्ध्यानं क्रियते बुधैः॥ ५॥ १४५॥

यस्य स्मरणमात्रेण योगीन्द्रोऽवनिमण्डले।
पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत्॥ ५॥ १४६॥

शिरःकपालविवरे ध्यायेद्दग्धमहोदधिम्।
तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत्॥ ५॥ १४७॥

शिरःकपालविवरे द्विरष्टकलया युतः।
पीयूषभानुहंसाख्यं भावयेत्तं निरंजनम्।
निरन्तरकृताभ्यासात्त्रिदिने पश्यति ध्रुवम्।
दृष्टिमात्रेण पापौघं दहत्येव स साधकः॥ ५॥ १४८॥

अनागतञ्च स्फुरति चित्तशुद्धिर्भवेत्खलु।
सद्यः कृत्वापि दहति महापातकपञ्चकम्॥ ५॥ १४९॥

आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवाः।
उपसर्गाः शमं यान्ति युद्धे जयमवाप्नुयात्।
खेचरीभूचरीसिद्धिर्भवेत्क्षीरेन्दुदर्शनात्।
ध्यानादेवभवेत्सर्वं नात्र कार्या विचारणा।
सतताभ्यासयोगेन सिद्धो भवति नान्यथा।
सत्यं सत्यं पुनः सत्यं मम तुल्यो भवेद्ध्रुवम्।
योगशास्त्रेऽप्यभिरतं योगिनां सिद्धिदायकम्॥ ५॥ १५०॥

अथ राजयोगकथनम्।
अत ऊर्ध्वं दिव्यरूपं सहस्रारं सरोरुहम्।
ब्रह्माण्डाख्यस्य देहस्य बाह्ये तिष्ठति मुक्तिदम्॥ ५॥ १५१॥

कैलासो नाम तस्यैव महेशो यत्र तिष्ठति।
नकुलाख्योऽविनाशी च क्षयवृद्धिविवर्जितः॥ ५॥ १५२॥

स्थानस्यास्य ज्ञानमात्रेण नॄणां संसारेऽस्मिन्सम्भवो नैव भूयः।
भूतग्रामं सन्तताभ्यासयोगात्कर्तुं हर्तुं स्याच्च शक्तिः समग्रा॥ ५॥ १५३॥

स्थाने परे हंसनिवासभूते कैलासनाम्नीह निविष्टचेताः।
योगी हृतव्याधिरधः कृताधिवरायुश्चिरं जीवति मृत्युमुक्तः॥ ५॥ १५४॥

चित्तवृत्तिर्यदा लीना कुलाख्ये परमेश्वरे।
तदा समाधिसाम्येन योगी निश्चलतां व्रजेत्॥ ५॥ १५५॥

निरन्तरकृते ध्याने जगद्विस्मरणं भवेत्।
तदा विचित्रसामर्थ्यं योगिनो भवति ध्रुवम्॥ ५॥ १५६॥

तस्माद्गलितपीयूषं पिबेद्योगी निरन्तरम्।
मृत्योर्मृत्युं विधायाशु कुलं जित्वा सरोरुहे।
अत्र कुण्डलिनी शक्तिर्लयं याति कुलाभिधा।
तदा चतुर्विधा सृष्टिर्लीयते परमात्मनि॥ ५॥ १५७॥

यज्ज्ञात्वा प्राप्य विषयं चित्तवृत्तिर्विलीयते।
तस्मिन् परिश्रमं योगी करोति निरपेक्षकः॥ ५॥ १५८॥

चित्तवृत्तियदालीना तस्मिन् योगी भवेद् ध्रुवम्।
तदा विज्ञायतेऽखण्डज्ञानरूपो निरञ्जनः॥ ५॥ १५९॥

ब्रह्माण्डबाह्ये संचिंत्य स्वप्रतीकं यथोदितम्।
तमावेश्य महच्छून्यं चिन्तयेदविरोधतः॥ ५॥ १६०॥

आद्यन्तमध्यशून्यं तत्कोटिसूर्यसमप्रभम्।
चन्द्रकोटिप्रतीकाशमभ्यस्य सिद्धिमाप्नुयात्॥ ५॥ १६१॥

एतद्ध्यानं सदा कुर्यादनालस्यं दिने दिने।
तस्य स्यात्सकला सिद्धिर्वत्सरान्नात्र संशयः॥ ५॥ १६२।
क्षणार्धं निश्चलं तत्र मनो यस्य भवेद् ध्रुवम्।
स एव योगी सद्भक्तः सर्वलोकेषु पूजितः॥ ५॥ १६३॥

तस्य कल्मषसंघातस्तत्क्षणादेव नश्यति॥ ५॥ १६४॥

यं दृष्ट्वा न प्रवर्तंते मृत्युसंसारवर्त्मनि।
अभ्यसेत्तं प्रयत्नेन स्वाधिष्ठानेन वर्त्मना॥ ५॥ १६५॥

एतद्ध्यानस्य माहात्म्यं मया वक्तुं न शक्यते।
यः साधयति जानाति सोस्माकमपि सम्मतः॥ ५॥ १६६॥

ध्यानादेव विजानाति विचित्रेक्षणसम्भवम्।
अणिमादिगुणोपेतो भवत्येव न संशयः॥ ५॥ १६७॥

राजयोगो मयाख्यातः सर्वतन्त्रेषु गोपितः।
राजाधिराजयोगोऽयं कथयामि समासतः॥ ५॥ १६८॥

स्वस्तिकञ्चासनं कृत्वा सुमठे जन्तुवर्जिते।
गुरुं संपूज्य यत्नेन ध्यानमेतत्समाचरेत्॥ ५॥ १६९॥

निरालम्बं भवेज्जीवं ज्ञात्वा वेदान्तयुक्तितः।
निरालम्बं मनः कृत्वा न किञ्चिच्चिन्तयेत्सुधीः॥ ५॥ १७०॥

एतद्ध्यानान्महासिद्धिर्भवत्येव न संशयः।
वृत्तिहीनं मनः कृत्वा पूर्णरूपं स्वयं भवेत्॥ ५॥ १७१॥

साधयेत्सततं यो वै स योगी विगतस्पृहः।
अहंनाम न कोप्यस्ति सर्वदात्मैव विद्यते॥ ५॥ १७२॥

को बन्धः कस्य वा मोक्ष एकं पश्येत्सदा हि सः।
एतत्करोति यो नित्यं स मुक्तो नात्र संशयः॥ ५॥ १७३॥

स एव योगी सद्भक्तः सर्वलोकेषु पूजितः।
अहमस्मीति यन्मत्वा जीवात्मपरमात्मनोः।
अहं त्वमेतदुभयं त्यक्त्वाखण्डं विचिन्तयेत्।
अध्यारोपापवादाभ्यां यत्र सर्वं विलीयते।
तद्बीजमाश्रयेद्योगी सर्वसंगविवर्जितः॥ ५॥ १७४॥

अपरोक्षं चिदानन्दं पूर्णं त्यक्त्वा भ्रमाकुलाः।
परोक्षं चापरोक्षं च कृत्वा मूढा भ्रमन्ति वै॥ ५॥ १७५॥

चराचरमिदं विश्वं परोक्षं यः करोति च।
अपरोक्षं परं ब्रह्म त्यक्तं तस्मिन् प्रलीयते॥ ५॥ १७६॥

ज्ञानकारणमज्ञानं यथा नोत्पद्यते भृशम्।
अभ्यासं कुरुते योगी सदा सङ्गविवर्जितम्॥ ५॥ १७७॥

सर्वेन्द्रियाणि संयम्य विषयेभ्यो विचक्षणः।
विषयेभ्यः सुषुप्त्यैव तिष्ठेत्संगविवर्जितः॥ ५॥ १७८॥

एवमभ्यसतो नित्यं स्वप्रकाशं प्रकाशते।
श्रोतुं बुद्धिसमर्थार्थं निवर्तन्ते गुरोर्गिरः।
तदभ्यासवशादेकं स्वतो ज्ञानं प्रवर्तते॥ ५॥ १७९॥

यतो वाचो निवर्तन्ते अप्राप्य मनसा सह।
साधनादमलं ज्ञानं स्वयं स्फुरति तद्ध्रुवम्॥ ५॥ १८०॥

हठं विना राजयोगो राजयोगं विना हठः।
तस्मात्प्रवर्तते योगी हठे सद्गुरुमार्गतः॥ ५॥ १८१॥

स्थिते देहे जीवति च योगं न श्रियते भृशम्।
इन्द्रियार्थोपभोगेषु स जीवति न संशयः॥ ५॥ १८२॥

अभ्यासपाकपर्यन्तं मितान्नंस्मरणं भवेत्।
अनाथा साधनं धीमान् कर्तुं पारयतीहन॥ ५॥ १८३॥

अतीवसाधुसंलापोवदेत् संसदिबुद्धिमान्।
करोति पिण्डरक्षार्थं बह्वालापविवर्जितः।
त्यज्यते त्यज्यते सङ्गं सर्वथा त्यज्यते भृशम्।
अन्यथा न लभेन्मुक्तिं सत्यं सत्यं मयोदितम्॥ ५॥ १८४॥

गुप्त्यैव क्रियतेऽभ्यासः संगं त्यक्त्वा तदन्तरे।
व्यवहाराय कर्तव्यो बाह्येसंगानुरागतः।
स्वे स्वे कर्मणि वर्तंते सर्वे ते कर्मसम्भवाः।
निमित्तमात्रं करणे न दोषोष्ति कदाचन॥ ५॥ १८५॥

एवं निश्चित्य सुधिया गृहस्थोपि यदाचरेत्।
तदा सिद्धिमवाप्नोति नात्र कार्या विचारणा॥ ५॥ १८६॥

पापपुण्यविनिर्मुक्तः परित्यक्ताङ्गसाधकः।
यो भवेत्स विमुक्तः स्याद् गृहे तिष्ठन्सदा गृही।
न पापपुण्यैर्लिप्येत योगयुक्तो सदा गृही।
कुर्वन्नपि तदा पापान्स्वकार्ये लोकसंग्रहे॥ ५॥ १८७॥

ओं ऐम् क्लिम् स्त्रिम्
अधुना संप्रवक्ष्यामि मन्त्रसाधनमुत्तमम्।
ऐहिकामुष्मिकसुखं येन स्यादविरौधतः॥ ५॥ १८८॥

यस्मिन्मन्त्रे वरे ज्ञाते योगसिद्धिर्भवेत्खलु।
योगेन साधकेन्द्रस्य सर्वैश्वयेसुखप्रदा॥ ५॥ १८९॥

मूलाधारेऽस्ति यत्पद्मं चतुर्दलसमन्वितम्।
तन्मध्ये वाग्भवं बीजं विस्फुरन्तं तडित्प्रभम्॥ ५॥ १९०॥

हृदये कामबीजं तु बन्धूककुसुमप्रभम्।
आज्ञारविन्दे शक्त्याख्यं चन्द्रकोटिसमप्रभम्॥

बीजत्रयमिदं गोप्यं भुक्तिमुक्तिफलप्रदम्।
एतन्मन्त्रत्रयं योगी साधयेत्सिद्धिसाधकः॥ ५॥ १९१॥

एतन्मन्त्रं गुरोर्लब्ध्वा न द्रुतं न विलम्बितम्।
अक्षराक्षरसन्धानं निःसन्दिग्धमना जपेत्॥ ५॥ १९२॥

तद्गतश्चैकचित्तश्च शास्त्रोक्तविधिना सुधीः।
देव्यास्तु पुरतो लक्षं हुत्वा लक्षत्रयं जपेत्॥ ५॥ १९३॥

करवीरप्रसूनन्तु गुडक्षीराज्यसंयुतम्।
कुण्डे योन्याकृते धीमाञ्जपान्ते जुहुयात्सुधीः॥ ५॥ १९४॥

अनुष्ठाने कृते धीमान्पूर्वसेवा कृता भवेत्।
ततो ददाति कामान्वै देवी त्रिपुरभैरवी॥ ५॥ १९५॥

गुरुं सन्तोष्य विधिवल्लब्ध्वा मन्त्रवरोत्तमम्।
अनेन विधिना युक्तो मन्दभाग्योऽपि सिद्ध्यति॥ ५॥ १९६॥

लक्षमेकं जपेद्यस्तु साधको विजितेन्द्रियः।
दर्शनात्तस्य क्षुभ्यन्ते योषितो मदनातुराः॥

पतन्ति साधकस्याग्रे निर्लजा भयवर्जिताः॥ ५॥ १९७॥

जप्तेन चेद्द्विलक्षेण ये यस्मिन्विषये स्थिताः।
आगच्छन्ति यथातीर्थं विमुक्तकुलविग्रहाः॥

ददति तस्य सर्वस्वं तस्यैव च वशे स्थिताः॥ ५॥ १९८॥

त्रिभिर्लक्षैस्तथाजप्तैर्मण्डलीकाः समण्डलाः।
वशमायान्ति ते सर्वे नात्र कार्या विचारणा॥ ५॥ १९९॥

षडभिर्लक्षैर्महीपालं सभृत्यबलवाहनम्॥ ५॥ २००॥

लक्षैर्द्वादशभिर्जप्तैर्यक्षरक्षोरगेश्वराः।
वशमायान्ति ते सर्वे आज्ञां कुर्वन्ति नित्यशः॥ ५॥ २०१॥

त्रिपञ्चलक्षजप्तैस्तु साधकेन्द्रस्य धीमतः।
सिद्धविद्याधराश्चैव गन्धर्वाप्सरसांगणाः॥

वशमायान्ति ते सर्वे नात्र कार्या विचारणा।
हठाच्छ्रवणविज्ञानं सर्वज्ञत्वं प्रजायते॥ ५॥ २०२॥

तथाष्टादशभिर्लक्षैर्देहेनानेन साधकः।
उत्तिष्ठेन्मेदिनीं त्यक्त्वा दिव्यदेहस्तु जायते॥

भ्रमते स्वेच्छया लोके छिद्रां पश्यति मेदिनीम्॥ ५॥ २०३॥

अष्टाविंशतिभिर्लक्षैर्विद्याधरपतिर्भवेत्।
साधकस्तु भवेद्धीमान्कामरूपो महाबलः॥

त्रिंशल्लक्षैस्तथाजप्तैर्ब्रह्मविष्णुसमो भवेत्।
रुद्रत्वं षष्टिभिर्लक्षैरमरत्वमशीतिभिः॥

कोट्यैकया महायोगी लीयते परमे पदे।
साधकस्तु भवेद्योगी त्रिलोक्ये सोऽतिदुर्लभः॥ ५॥ २०४॥

त्रिपुरे त्रिपुरन्त्वेकं शिवं परमकारणम्।
अक्षयं तत्पदं शन्तमप्रमेयमनामयम्॥

लभतेऽसौ न सन्देहो धीमान्सर्वमभीप्सितम्॥ ५॥ २०५॥

शिवविद्या महाविद्या गुप्ता चाग्रे महेश्वरी।
मद्भाषितमिदं शास्त्रंगोपनीयमतो बुधैः॥ ५॥ २०६॥

हठविद्या परंगोप्या योगिना सिद्धिमिच्छता।
भवेद्वीर्यवती गुप्ता निर्वीर्या च प्रकाशिता॥ ५॥ २०७॥

य इदं पठते नित्यमाद्योपान्तं विचक्षणः।
योगसिद्धिर्भवेत्तस्य क्रमेणैव न संशयः॥

समोक्ष लभते धीमान्य इदं नित्यमर्चयेत्॥ ५॥ २०८॥

मोक्षार्थिभ्यश्च सर्वेभ्यः साधुभ्यः श्रावयेदपि।
क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथम्भवेत्॥ ५॥ २०९॥

तस्मात्क्रियाविधानेन कर्तव्या योगिपुंगवैः।
यदृच्छालाभसन्तुष्टः सन्त्यक्त्वान्तरसंज्ञकः॥

गृहस्थश्चाप्यनासक्तः स मुक्तो योगसाधनात्॥ ५॥ २१०॥

गृहस्थानां भवेत्सिद्धिरीश्वराणां जपेन वै।
योगक्रियाभियुक्तानां तस्मात्संयतते गृही॥ ५॥ २११॥

गेहे स्थित्वा पुत्रदारादिपूर्णः
सङ्गं त्यक्त्वा चान्तरे योगमार्गे।
सिद्धेश्चिह्नं वीक्ष्य पश्चाद् गृहस्थः
क्रीडेत्सो वै मम्मतं साधयित्वा॥ ५॥ २१२॥

इति श्रीशिवसंहितायां हरगौरीसंवादे योगशास्त्रे
पंचमः पटलः समाप्तः॥ ५॥

॥ हठ-योग-प्रदीपिका॥

प्रथमोपदेशः

श्री-आदि-नाथाय नमोऽस्तु तस्मै
येनोपदिष्टा हठ-योग-विद्या।
विभ्राजते प्रोन्नत-राज-योगम्
आरोढुमिच्छोरधिरोहिणीव॥ १॥

प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना।
केवलं राज-योगाय हठ-विद्योपदिश्यते॥ २॥


भ्रान्त्या बहुमत-ध्वान्ते राज-योगमजानताम्।
हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः॥ ३॥

हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते।
स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः॥ ४॥

श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः।
चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः॥ ५॥


मन्थानो भैरवो योगी सिद्धिर्बुद्धश्च कन्थडिः।
कोरंटकः सुरानन्दः सिद्धपादश्च चर्पटिः॥ ६॥

कानेरी पूज्यपादश्च नित्य-नाथो निरञ्जनः।
कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः॥ ७॥

अल्लामः प्रभुदेवश्च घोडा चोली च टिंटिणिः।
भानुकी नारदेवश्च खण्डः कापालिकस्तथा॥ ८॥

इत्यादयो महासिद्धा हठ-योग-प्रभावतः।
खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते॥ ९॥

अशेष-ताप-तप्तानां समाश्रय-मठो हठः।
अशेष-योग-युक्तानामाधार-कमठो हठः॥ १०॥

हठ-विद्या परं गोप्या योगिना सिद्धिमिच्छता।
भवेद्वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता॥ ११॥

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे।
धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते।
एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना॥ १२॥

अल्प-द्वारमरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं
सम्यग्-गोमय-सान्द्र-लिप्तममलं निःशेस-जन्तूज्झितम्।
बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं
प्रोक्तं योग-मठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः॥ १३॥

एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः।
गुरूपदिष्ट-मार्गेण योगमेव समभ्यसेत्॥ १४॥

अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः।
जन-सङ्गश्च लौल्यं च षड्भिर्योगो विनश्यति॥ १५॥

उत्साहात्साहसाद्धैर्यात्तत्त्व-ज्ञानाश्च निश्चयात्।
जन-सङ्ग-परित्यागात्षड्भिर्योगः प्रसिद्ध्यति॥ १६॥

अथ यम-नियमाः
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः।
दयार्जवं मिताहारः शौचं चैव यमा दश॥ १७॥

तपः सन्तोष आस्तिक्यं दानमीश्वर-पूजनम्।
सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम्।
नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः॥ १८॥

अथ आसनम्
हठस्य प्रथमाङ्गत्वादासनं पूर्वमुच्यते।
कुर्यात्तदासनं स्थैर्यमारोग्यं चाङ्ग-लाघवम्॥ १९॥

वशिष्ठाद्यैश्च मुनिभिर्मत्स्येन्द्राद्यैश्च योगिभिः।
अङ्गीकृतान्यासनानि कथ्यन्ते कानिचिन्मया॥ २०॥

जानूर्वोरन्तरे सम्यक्कृत्वा पाद-तले उभे।
ऋजु-कायः समासीनः स्वस्तिकं तत्प्रचक्षते॥ २१॥

सव्ये दक्षिण-गुल्कं तु पृष्ठ-पार्श्वे नियोजयेत्।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः॥ २२॥

एकं पादं तथैकस्मिन्विन्यसेदुरुणि स्थिरम्।
इतरस्मिंस्तथा चोरुं वीरासनमितीरितम्॥ २३॥

गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः।
कूर्मासनं भवेदेतदिति योग-विदो विदुः॥ २४॥

पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्॥ २५॥

कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम्।
भवेद्कूर्मवदुत्तान एतदुत्तान-कूर्मकम्॥ २६॥

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि।
धनुराकर्षणं कुर्याद्धनुर्-आसनमुच्यते॥ २७॥

वामोरु-मूलार्पित-दक्ष-पादं
जानोर्बहिर्वेष्टित-वाम-पादम्।
प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः
श्री-मत्य्सनाथोदितमासनं स्यात्॥ २८॥

मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं
प्रचण्ड-रुग्मण्डल-खण्डनास्त्रम्।
अभ्यासतः कुण्डलिनी-प्रबोधं
चन्द्र-स्थिरत्वं च ददाति पुंसाम्॥ २९॥

प्रसार्य पादौ भुवि दण्ड-रूपौ
दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा।
जानूपरिन्यस्त-ललाट-देशो
वसेदिदं पश्चिमतानमाहुः॥ ३०॥

इति पश्चिमतानमासनाग्र्यं
पवनं पश्चिम-वाहिनं करोति।
उदयं जठरानलस्य कुर्याद्
उदरे कार्श्यमरोगतां च पुंसाम्॥ ३१॥

धरामवष्टभ्य कर-द्वयेन
तत्-कूर्पर-स्थापित-नाभि-पार्श्वः।
उच्चासनो दण्डवदुत्थितः खे
मायूरमेतत्प्रवदन्ति पीठम्॥ ३२॥

हरति सकल-रोगानाशु गुल्मोदरादीन्
अभिभवति च दोषानासनं श्री-मयूरम्।
बहु कदशन-भुक्तं भस्म कुर्यादशेषं
जनयति जठराग्निं जारयेत्काल-कूटम्॥ ३३॥

उत्तानं शबवद्भूमौ शयनं तच्छवासनम्।
शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम्॥ ३४॥

चतुरशीत्यासनानि शिवेन कथितानि च।
तेभ्यश्चतुष्कमादाय सारभूतं ब्रवीम्यहम्॥ ३५॥

सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम्।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत्सिद्धासने सदा॥ ३६॥

अथ सिद्धासनम्
योनि-स्थानकमङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत्
मेण्ढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद्भ्रुवोरन्तरं
ह्येतन्मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते॥ ३७॥

मेण्ढ्रादुपरि विन्यस्य सव्यं गुल्फं तथोपरि।
गुल्फान्तरं च निक्षिप्य सिद्धासनमिदं भवेत्॥ ३८॥

एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः।
मुक्तासनं वदन्त्येके प्राहुर्गुप्तासनं परे॥ ३९॥

यमेष्विव मिताहारमहिंसा नियमेष्विव।
मुख्यं सर्वासनेष्वेकं सिद्धाः सिद्धासनं विदुः॥ ४०॥

चतुरशीति-पीठेषु सिद्धमेव सदाभ्यसेत्।
द्वासप्तति-सहस्राणां नाडीनां मल-शोधनम्॥ ४१॥

आत्म-ध्यायी मिताहारी यावद्द्वादश-वत्सरम्।
सदा सिद्धासनाभ्यासाद्योगी निष्पत्तिमाप्नुयात्॥ ४२॥

किमन्यैर्बहुभिः पीठैः सिद्धे सिद्धासने सति।
प्राणानिले सावधाने बद्धे केवल-कुम्भके।
उत्पद्यते निरायासात्स्वयमेवोन्मनी कला॥ ४३॥

तथैकास्मिन्नेव दृढे सिद्धे सिद्धासने सति।
बन्ध-त्रयमनायासात्स्वयमेवोपजायते॥ ४४॥

नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः।
न खेचरी-समा मुद्रा न नाद-सदृशो लयः॥ ४५॥

अथ पद्मासनम्
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेत्
एतद्व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते॥ ४६॥

उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः।
ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ॥ ४७॥

नासाग्रे विन्यसेद्राजद्-अन्त-मूले तु जिह्वया।
उत्तम्भ्य चिबुकं वक्षस्युत्थाप्य् पवनं शनैः॥ ४८॥

इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम्।
दुर्लभं येन केनापि धीमता लभ्यते भुवि॥ ४९॥

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्ममासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश्च तच्चेतसि।
वारं वारमपानमूर्ध्वमनिलं प्रोत्सारयन्पूरितं
न्यञ्चन्प्राणमुपैति बोधमतुलं शक्ति-प्रभावान्नरः॥ ५०॥

पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम्।
मारुतं धारयेद्यस्तु स मुक्तो नात्र संशयः॥ ५१॥

अथ सिंहासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिपेत्।
दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके॥ ५२॥

हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च।
व्यात्त-वक्तो निरीक्षेत नासाग्रं सुसमाहितः॥ ५३॥

सिंहासनं भवेदेतत्पूजितं योगि-पुङ्गवैः।
बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम्॥ ५४॥

अथ भद्रासनम्
गुल्फौ च वृषणस्याधः सीवन्त्याः पार्श्वयोः क्षिप्ते।
सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे॥ ५५॥

पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम्।
भद्रासनं भवेदेतत्सर्व-व्याधि-विनाशनम्।
गोरक्षासनमित्याहुरिदं वै सिद्ध-योगिनः॥ ५६॥

एवमासन-बन्धेषु योगीन्द्रो विगत-श्रमः।
अभ्यसेन्नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम्॥ ५७॥

आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा।
अथ नादानुसन्धानमभ्यासानुक्रमो हठे॥ ५८॥

ब्रह्मचारी मिताहारी त्यागी योग-परायणः।
अब्दादूर्ध्वं भवेद्सिद्धो नात्र कार्या विचारणा॥ ५९॥

सुस्निग्ध-मधुराहारश्चतुर्थांश-विवर्जितः।
भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते॥ ६०॥

कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक-
सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान्।
आजादि-मांस-दधि-तक्र-कुलत्थकोल-
पिण्याक-हिङ्गु-लशुनाद्यमपथ्यमाहुः॥ ६१॥

भोजनमहितं विद्यात्पुनरस्योष्णी-कृतं रूक्षम्।
अतिलवणमम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम्॥ ६२॥

वह्नि-स्त्री-पथि-सेवानामादौ वर्जनमाचरेत्॥ ६३॥

तथा हि गोरक्ष-वचनम्
वर्जयेद्दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम्।
प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा॥ ६४॥

गोधूम-शालि-यव-षाष्टिक-शोभनान्नं
क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि।
शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं
मुद्गादि-दिव्यमुदकं च यमीन्द्र-पथ्यम्॥ ६५॥

पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम्।
मनोभिलषितं योग्यं योगी भोजनमाचरेत्॥ ६६॥

युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा।
अभ्यासात्सिद्धिमाप्नोति सर्व-योगेष्वतन्द्रितः॥ ६७॥

क्रिया-युक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत्।
न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते॥ ६८॥

न वेष-धारणं सिद्धेः कारणं न च तत्-कथा।
क्रियैव कारणं सिद्धेः सत्यमेतन्न संशयः॥ ६९॥

पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च।
सर्वाण्यपि हठाभ्यासे राज-योग-फलावधि॥ ७०॥

इति हठ-प्रदीपिकायां प्रथमोपदेशः।


द्वितीयोपदेशः

अथासने दृधे योगी वशी हित-मिताशनः।
गुरूपदिष्ट-मार्गेण प्राणायामान्समभ्यसेत्॥ १॥

चले वाते चलं चित्तं निश्चले निश्चलं भवेत्॥

योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत्॥ २॥

यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ ३॥

मलाकलासु नाडीषु मारुतो नैव मध्यगः।
कथं स्यादुन्मनीभावः कार्य-सिद्धिः कथं भवेत्॥ ४॥

शुद्धमेति यदा सर्वं नाडी-चक्रं मलाकुलम्।
तदैव जायते योगी प्राण-संग्रहणे क्षमः॥ ५॥

प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया।
यथा सुषुम्णा-नाडीस्था मलाः शुद्धिं प्रयान्ति च॥ ६॥

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत्॥ ७॥

प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः।
विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत्॥ ८॥

येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः।
रेचयेच्च ततोऽन्येन शनैरेव न वेगतः॥ ९॥

प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया।
सूर्य-चन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां
शुद्धा नाडि-गणा भवन्ति यमिनां मास-त्रयादूर्ध्वतः॥ १०॥

प्रातर्मध्यन्दिने सायमर्ध-रात्रे च कुम्भकान्।
शनैरशीति-पर्यन्तं चतुर्वारं समभ्यसेत्॥ ११॥

कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे।
उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत्॥ १२॥

जलेन श्रम-जातेन गात्र-मर्दनमाचरेत्।
दृढता लघुता चैव तेन गात्रस्य जायते॥ १३॥

अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम्।
ततोऽभ्यासे  दृढीभूते न तादृङ्-नियम-ग्रहः॥ १४॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः।
तथैव सेवितो वायुरन्यथा हन्ति साधकम्॥ १५॥

प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत्।
अयुक्ताभ्यास-योगेन सर्व-रोग-समुद्गमः॥ १६॥

हिक्का श्वासश्च कासश्च शिरः-कर्णाक्षि-वेदनाः।
भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः॥ १७॥

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत्।
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात्॥ १८॥

यदा तु नाडी-शुद्धिः स्यात्तथा चिह्नानि बाह्यतः।
कायस्य कृशता कान्तिस्तदा जायते निश्चितम्॥ १९॥

यथेष्टं धारणं वायोरनलस्य प्रदीपनम्।
नादाभिव्यक्तिरारोग्यं जायते नाडि-शोधनात्॥ २०॥

मेद-श्लेष्माधिकः पूर्वं षट्-कर्माणि समाचरेत्।
अन्यस्तु नाचरेत्तानि दोषाणां समभावतः॥ २१॥

धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा।
कपाल-भातिश्चैतानि षट्-कर्माणि प्रचक्षते॥ २२॥

कर्म षट्कमिदं गोप्यं घट-शोधन-कारकम्।
विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः॥ २३॥

तत्र धौतिः
चतुर्-अङ्गुल-विस्तारं हस्त-पञ्च-दशायतम्।
गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत्।
पुनः प्रत्याहरेच्चैतदुदितं धौति-कर्म तत्॥ २४॥

कास-श्वास-प्लीह-कुष्ठं कफरोगाश्च विंशतिः।
धौति-कर्म-प्रभावेण प्रयान्त्येव न संशयः॥ २५॥

अथ बस्तिः
नाभि-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः।
आधाराकुञ्चनं कुर्यात्क्षालनं बस्ति-कर्म तत्॥ २६॥

गुल्म-प्लीहोदरं चापि वात-पित्त-कफोद्भवाः।
बस्ति-कर्म-प्रभावेण क्षीयन्ते सकलामयाः॥ २७॥

धान्त्वद्रियान्तः-करण-प्रसादं
दधाच्च कान्तिं दहन-प्रदीप्तम्।
अशेष-दोषोपचयं निहन्याद्
अभ्यस्यमानं जल-बस्ति-कर्म॥ २८॥

अथ नेतिः
सूत्रं वितस्ति-सुस्निग्धं नासानाले प्रवेशयेत्।
मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते॥ २९॥

कपाल-शोधिनी चैव दिव्य-दृष्टि-प्रदायिनी।
जत्रूर्ध्व-जात-रोगौघं नेतिराशु निहन्ति च॥ ३०॥

अथ त्राटकम्
निरीक्षेन्निश्चल-दृशा सूक्ष्म-लक्ष्यं समाहितः।
अश्रु-सम्पात-पर्यन्तमाचार्यैस्त्राटकं स्मृतम्॥ ३१॥

मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम्।
यत्नतस्त्राटकं गोप्यं यथा हाटक-पेटकम्॥ ३२॥

अथ नौलिः
अमन्दावर्त-वेगेन तुन्दं सव्यापसव्यतः।
नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते॥ ३३॥

मन्दाग्नि-सन्दीपन-पाचनादि-
सन्धापिकानन्द-करी सदैव।
अशेष-दोष-मय-शोषणी च
हठ-क्रिया मौलिरियं च नौलिः॥ ३४॥

अथ कपालभातिः
भस्त्रावल्लोह-कारस्य रेच-पूरौ ससम्भ्रमौ।
कपालभातिर्विख्याता कफ-दोष-विशोषणी॥ ३५॥

षट्-कर्म-निर्गत-स्थौल्य-कफ-दोष-मलादिकः।
प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति॥ ३६॥

प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति।
आचार्याणां तु केषांचिदन्यत्कर्म न संमतम्॥ ३७॥

अथ गज-करणी
उदर-गत-पदार्थमुद्वमन्ति
पवनमपानमुदीर्य कण्ठ-नाले।
क्रम-परिचय-वश्य-नाडि-चक्रा
गज-करणीति निगद्यते हठज्ञैः॥ ३८॥

ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास-तत्पराः।
अभूवन्नन्तक-भ्यात्तस्मात्पवनमभ्यसेत्॥ ३९॥

यावद्बद्धो मरुद्-देशे यावच्चित्तं निराकुलम्।
यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्काल-भयं कुतः॥ ४०॥

विधिवत्प्राण-संयामैर्नाडी-चक्रे विशोधिते।
सुषुम्णा-वदनं भित्त्वा सुखाद्विशति मारुतः॥ ४१॥

अथ मनोन्मनी
मारुते मध्य-संचारे मनः-स्थैर्यं प्रजायते।
यो मनः-सुस्थिरी-भावः सैवावस्था मनोन्मनी॥ ४२॥

तत्-सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान्।
विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्॥ ४३॥

अथ कुम्भक-भेदाः
सूर्य-भेदनमुज्जायी सीत्कारी शीतली तथा।
भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट-कुम्भकाः॥ ४४॥

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः॥ ४५॥

अधस्तात्कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते।
मध्ये पश्चिम-तानेन स्यात्प्राणो ब्रह्म-नाडिगः॥ ४६॥

आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत्।
योगी जरा-विमुक्तः सन्षोडशाब्द-वया भवेत्॥ ४७॥

अथ सूर्य-भेदनम्
आसने सुखदे योगी बद्ध्वा चैवासनं ततः।
दक्ष-नाड्या समाकृष्य बहिःस्थं पवनं शनैः॥ ४८॥

आकेशादानखाग्राच्च निरोधावधि कुम्भयेत्।
ततः शनैः सव्य-नाड्या रेचयेत्पवनं शनैः॥ ४९॥

कपाल-शोधनं वात-दोष-घ्नं कृमि-दोष-हृत्।
पुनः पुनरिदं कार्यं सूर्य-भेदनमुत्तमम्॥ ५०॥

अथ उज्जायी
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः।
यथा लगति कण्ठात्तु हृदयावधि स-स्वनम्॥ ५१॥

पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा।
श्लेष्म-दोष-हरं कण्ठे देहानल-विवर्धनम्॥ ५२॥

नाडी-जलोदराधातु-गत-दोष-विनाशनम्।
गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम्॥ ५३॥

अथ सीत्कारी
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम्।
एवमभ्यास-योगेन काम-देवो द्वितीयकः॥ ५४॥

योगिनी चक्र-संमान्यः सृष्टि-संहार-कारकः।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते॥ ५५॥

भवेत्सत्त्वं च देहस्य सर्वोपद्रव-वर्जितः।
अनेन विधिना सत्यं योगीन्द्रो भूमि-मण्डले॥ ५६॥

अथ शीतली
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भ-साधनम्।
शनकैर्घ्राण-रन्ध्राभ्यां रेचयेत्पवनं सुधीः॥ ५७॥

गुल्म-प्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम्।
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि॥ ५८॥

अथ भस्त्रिका
ऊर्वोरुपरि संस्थाप्य शुभे पाद-तले उभे।
पद्मासनं भवेदेतत्सर्व-पाप-प्रणाशनम्॥ ५९॥

सम्यक्पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः।
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्॥ ६०॥

यथा लगति हृत्-कण्ठे कपालावधि स-स्वनम्।
वेगेन पूरयेच्चापि हृत्-पद्मावधि मारुतम्॥ ६१॥

पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः।
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते॥ ६२॥

तथैव स्व-शरीर-स्थं चालयेत्पवनं धिया।
यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत्॥ ६३॥

यथोदरं भवेत्पूर्णमनिलेन तथा लघु।
धारयेन्नासिकां मध्या-तर्जनीभ्यां विना दृढम्॥ ६४॥

विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम्।
वात-पित्त-श्लेष्म-हरं शरीराग्नि-विवर्धनम्॥ ६५॥

कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम्।
ब्रह्म-नाडी-मुखे संस्थ-कफाद्य्-अर्गल-नाशनम्॥ ६६॥

सम्यग्गात्र-समुद्भूत-ग्रन्थि-त्रय-विभेदकम्।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम्॥ ६७॥

अथ भ्रामरी
वेगाद्घोषं पूरकं भृङ्ग-नादं
भृङ्गी-नादं रेचकं मन्द-मन्दम्।
योगीन्द्राणमेवमभ्यास-योगाच्
चित्ते जाता काचिदानन्द-लीला॥ ६८॥

अथ मूर्च्छा
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः।
रेचयेन्मूर्च्छाख्येयं मनो-मूर्च्छा सुख-प्रदा॥ ६९॥

अथ प्लाविनी
अन्तः प्रवर्तितोदार-मारुतापूरितोदरः।
पयस्यगाधेऽपि सुखात्प्लवते पद्म-पत्रवत्॥ ७०॥

प्राणायामस्त्रिधा प्रोक्तो रेच-पूरक-कुम्भकैः।
सहितः केवलश्चेति कुम्भको द्विविधो मतः॥ ७१॥

यावत्केवल-सिद्धिः स्यात्सहितं तावदभ्यसेत्।
रेचकं पूरकं मुक्त्वा सुखं यद्वायु-धारणम्॥ ७२॥

प्राणायामोऽयमित्युक्तः स वै केवल-कुम्भकः।
कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते॥ ७३॥

न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते।
शक्तः केवल-कुम्भेन यथेष्टं वायु-धारणात्॥ ७४॥

राज-योग-पदं चापि लभते नात्र संशयः।
कुम्भकात्कुण्डली-बोधः कुण्डली-बोधतो भवेत्।
अनर्गला सुषुम्णा च हठ-सिद्धिश्च जायते॥ ७५॥

हठं विना राजयोगो राज-योगं विना हठः।
न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत्॥ ७६॥

कुम्भक-प्राण-रोधान्ते कुर्याच्चित्तं निराश्रयम्।
एवमभ्यास-योगेन राज-योग-पदं व्रजेत्॥ ७७॥

वपुः कृशत्वं वदने प्रसन्नता
नाद-स्फुटत्वं नयने सुनिर्मले।
अरोगता बिन्दु-जयोऽग्नि-दीपनं
नाडी-विशुद्धिर्हठ-सिद्धि-लक्षणम्॥ ७८॥

इति हठ-प्रदीपिकायां द्वितीयोपदेशः।


तृतीयोपदेशः

स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः।
सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली॥ १॥

सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च॥ २॥

प्राणस्य शून्य-पदवी तदा राजपथायते।
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम्॥ ३॥

सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः।
श्मशानं शाम्भवी मध्य-मार्गश्चेत्येक-वाचकाः॥ ४॥


तस्मात्सर्व-प्रयत्नेन प्रबोधयितुमीश्वरीम्।
ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत्॥ ५॥

महामुद्रा महाबन्धो महावेधश्च खेचरी।
उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः॥ ६॥

करणी विपरीताख्या वज्रोली शक्ति-चालनम्।
इदं हि मुद्रा-दशकं जरा-मरण-नाशनम्॥ ७॥

आदिनाथोदितं दिव्यमष्टैश्वर्य-प्रदायकम्।
वल्लभं सर्व-सिद्धानां दुर्लभं मरुतामपि॥ ८॥

गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम्।
कस्यचिन्नैव वक्तव्यं कुल-स्त्री-सुरतं यथा॥ ९॥

अथ महा-मुद्रा
पाद-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम्।
प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम्॥ १०॥

कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः।
यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते॥ ११॥

ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत्।
तदा सा मरणावस्था जायते द्विपुटाश्रया॥ १२॥

ततः शनैः शनैरेव रेचयेन्नैव वेगतः।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः॥ १३॥

इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता।
महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः॥ १४॥

चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत्।
यावत्-तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत्॥ १५॥

न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः।
अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति॥ १६॥

क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत्॥ १७॥

कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥ १८॥

अथ महा-बन्धः
पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत्।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा॥ १९॥

पूरयित्वा ततो वायुं हृदये चुबुकं दृढम्।
निष्पीड्यं वायुमाकुञ्च्य मनो-मध्ये नियोजयेत्॥ २०॥

धारयित्वा यथा-शक्ति रेचयेदनिलं  शनैः।
सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत्॥ २१॥

मतमत्र तु केषांचित्कण्ठ-बन्धं विवर्जयेत्।
राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेदिति॥ २२॥

अयं तु सर्व-नाडीनामूर्ध्वं गति-निरोधकः।
अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः॥ २३॥

काल-पाश-महा-बन्ध-विमोचन-विचक्षणः।
त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन्मनः॥ २४॥

रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना।
महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ॥ २५॥

अथ महा-वेधः
महा-बन्ध-स्थितो योगी कृत्वा पूरकमेक-धीः।
वायूनां गतिमावृत्य निभृतं कण्ठ-मुद्रया॥ २६॥

सम-हस्त-युगो भूमौ स्फिचौ सनाडयेच्छनैः।
पुट-द्वयमतिक्रम्य वायुः स्फुरति मध्यगः॥ २७॥

सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै।
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत्॥ २८॥

महा-वेधोऽयमभ्यासान्महा-सिद्धि-प्रदायकः।
वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः॥ २९॥

एतत्त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम्।
वह्नि-वृद्धि-करं चैव ह्यणिमादि-गुण-प्रदम्॥ ३०॥

अष्टधा क्रियते चैव यामे यामे दिने दिने।
पुण्य-संभार-सन्धाय पापौघ-भिदुरं सदा।
सम्यक्-शिक्षावतामेवं स्वल्पं प्रथम-साधनम्॥ ३१॥

अथ खेचरी
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी॥ ३२॥

छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत्तावत्।
सा यावद्भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः॥ ३३॥

स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम्।
समादाय ततस्तेन रोम-मात्रं समुच्छिनेत्॥ ३४॥

ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत्।
पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत्॥ ३५॥

एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत्।
षण्मासाद्रसना-मूल-शिरा-बन्धः प्रणश्यति॥ ३६॥

कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत्।
सा भवेत्खेचरी मुद्रा व्योम-चक्रं तदुच्यते॥ ३७॥

रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति।
विषैर्विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः॥ ३८॥

न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ ३९॥

पीड्यते न स रोगेण लिप्यते न च कर्मणा।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्॥ ४०॥

चित्तं चरति खे यस्माज्जिह्वा चरति खे गता।
तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता॥ ४१॥

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च॥ ४२॥

चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम्।
व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया॥ ४३॥

ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः।
मासार्धेन न सन्देहो मृत्युं जयति योगवित्॥ ४४॥

नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति॥ ४५॥

इन्धनानि यथा वह्निस्तैल-वर्ति च दीपकः।
तथा सोम-कला-पूर्णं देही देहं न मुञ्चति॥ ४६॥

गोमांसं भक्षयेन्नित्यं पिबेदमर-वारुणीम्।
कुलीनं तमहं मन्ये चेतरे कुल-घातकाः॥ ४७॥

गो-शब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि।
गो-मांस-भक्षणं तत्तु महा-पातक-नाशनम्॥ ४८॥

जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु।
चन्द्रात्स्रवति यः सारः सा स्यादमर-वारुणी॥ ४९॥

चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा-रस-स्यन्दिनी
स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा।
व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं
तस्य स्यादमरत्वमष्ट-गुणितं सिद्धाङ्गनाकर्षणम्॥ ५०॥

मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणादवाप्तं हठाद्
ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन्।
उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन्
निर्व्याधिः स मृणाल-कोमल-वपुर्योगी चिरं जीवति॥ ५१॥

यत्प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं
तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्-मुखं निम्नगानाम्।
चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां
तद्बध्नीयात्सुकरणमधो नान्यथा काय-सिद्धिः॥ ५२॥

सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम्।
तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने॥ ५३॥

एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी।
एको देवो निरालम्ब एकावस्था मनोन्मनी॥ ५४॥

अथ उड्डीयान-बन्धः
बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः।
तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः॥ ५५॥

उड्डीनं कुरुते यस्मादविश्रान्तं महा-खगः।
उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते॥ ५६॥

उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत्।
उड्डीयानो ह्यसौ बन्धो मृत्यु-मातङ्ग-केसरी॥ ५७॥

उड्डीयानं तु सहजं गुरुणा कथितं सदा।
अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते॥ ५८॥

नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः।
षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः॥ ५९॥

सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः।
उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत्॥ ६०॥

अथ मूल-बन्धः
पार्ष्णि-भागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम्।
अपानमूर्ध्वमाकृष्य मूल-बन्धोऽभिधीयते॥ ६१॥

अधो-गतिमपानं वा ऊर्ध्वगं कुरुते बलात्।
आकुञ्चनेन तं प्राहुर्मूल-बन्धं हि योगिनः॥ ६२॥

गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात्।
वारं वारं यथा चोर्ध्वं समायाति समीरणः॥ ६३॥

प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम्।
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः॥ ६४॥

अपान-प्राणयोरैक्यं क्षयो मूत्र-पुरीषयोः।
युवा भवति वृद्धोऽपि सततं मूल-बन्धनात्॥ ६५॥

अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम्।
तदानल-शिखा दीर्घा जायते वायुनाहता॥ ६६॥

ततो यातो वह्न्य्-अपानौ प्राणमुष्ण-स्वरूपकम्।
तेनात्यन्त-प्रदीप्तस्तु ज्वलनो देहजस्तथा॥ ६७॥

तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते।
दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत्॥ ६८॥

बिलं प्रविष्टेव ततो ब्रह्म-नाड्यं तरं व्रजेत्।
तस्मान्नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा॥ ६९॥

अथ जलन्धर-बन्धः
कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम्।
बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः॥ ७०॥

बध्नाति हि सिराजालमधो-गामि नभो-जलम्।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः॥ ७१॥

जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।
न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति॥ ७२॥

कण्ठ-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम्।
मध्य-चक्रमिदं ज्ञेयं षोडशाधार-बन्धनम्॥ ७३॥

मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत्।
इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि॥ ७४॥

अनेनैव विधानेन प्रयाति पवनो लयम्।
ततो न जायते मृत्युर्जरा-रोगादिकं तथा॥ ७५॥

बन्ध-त्रयमिदं श्रेष्ठं महा-सिद्धैश्च सेवितम्।
सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः॥ ७६॥

यत्किंचित्स्रवते चन्द्रादमृतं दिव्य-रूपिणः।
तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः॥ ७७॥

अथ विपरीत-करणी मुद्रा
तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम्।
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः॥ ७८॥

ऊर्ध्व-नाभेरधस्तालोरूर्ध्वं भानुरधः शशी।
करणी विपरीताखा गुरु-वाक्येन लभ्यते॥ ७९॥

नित्यमभ्यास-युक्तस्य जठराग्नि-विवर्धिनी।
आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च॥ ८०॥

अल्पाहारो यदि भवेदग्निर्दहति तत्-क्षणात्।
अधः-शिराश्चोर्ध्व-पादः क्षणं स्यात्प्रथमे दिने॥ ८१॥

क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने।
वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते।
याम-मात्रं तु यो नित्यमभ्यसेत्स तु कालजित्॥ ८२॥

अथ वज्रोली
स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना।
वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम्॥ ८३॥

तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित्।
क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी॥ ८४॥

मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत्।
पुरुषोऽप्यथवा नारी वज्रोली-सिद्धिमाप्नुयात्॥ ८५॥

यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे।
शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात्॥ ८६॥

नारी-भगे पदद्-बिन्दुमभ्यासेनोर्ध्वमाहरेत्।
चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत्॥ ८७॥

एवं संरक्षयेद्बिन्दुं जयति योगवित्।
मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात्॥ ८८॥

सुगन्धो योगिनो देहे जायते बिन्दु-धारणात्।
यावद्बिन्दुः स्थिरो देहे तावत्काल-भयं कुतः॥ ८९॥

चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम्।
तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः॥ ९०॥

ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत्।
मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यास-योग-वित्॥ ९१॥

अथ सहजोलिः
सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः।
जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम्॥ ९२॥

वज्रोली-मैथुनादूर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम्।
आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात्॥ ९३॥

सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा।
अयं शुभकरो योगो भोग-युक्तोऽपि मुक्तिदः॥ ९४॥

अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम्।
निर्मत्सराणां वै सिध्येन्न तु मत्सर-शालिनाम्॥ ९५॥

अथ अमरोली
पित्तोल्बणत्वात्प्रथमाम्बु-धारां
विहाय निःसारतयान्त्यधाराम्।
निषेव्यते शीतल-मध्य-धारा
कापालिके खण्डमतेऽमरोली॥ ९६॥

अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने।
वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते॥ ९७॥

अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत्।
धारयेदुत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते॥ ९८॥

पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यास-पाटवात्।
यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी॥ ९९॥

तस्याः किंचिद्रजो नाशं न गच्छति न संशयः।
तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति॥ १००॥

स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ।
वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः॥ १०१॥

रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी।
अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम्॥ १०२॥

देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः।
अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः॥ १०३॥

अथ शक्ति-चालनम्
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी।
कुण्डल्यरुन्धती चैते शब्दाः पर्याय-वाचकाः॥ १०४॥

उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात्।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत्॥ १०५॥

येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम्।
मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी॥ १०६॥

कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम्।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्॥ १०७॥

कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता।
सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः॥ १०८॥

गङ्गा-यमुनयोर्मध्ये बाल-रण्डां तपस्विनीम्।
बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम्॥ १०९॥

इडा भगवती गङ्गा पिङ्गला यमुना नदी।
इडा-पिङ्गलयोर्मध्ये बालरण्डा च कुण्डली॥ ११०॥

पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम्।
निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात्॥ १११॥

अवस्थिता चैव फणावती सा
प्रातश्च सायं प्रहरार्ध-मात्रम्।
प्रपूर्य सूर्यात्परिधान-युक्त्या
प्रगृह्य नित्यं परिचालनीया॥ ११२॥

ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम्।
मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम्॥ ११३॥

सति वज्रासने पादौ कराभ्यां धारयेद्दृढम्।
गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत्॥ ११४॥

वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम्।
कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत्॥ ११५॥

भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः।
मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः॥ ११६॥

मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनादसौ।
ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता॥ ११७॥

तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम्।
जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः॥ ११८॥

तस्मात्संचालयेन्नित्यं सुख-सुप्तामरुन्धतीम्।
तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते॥ ११९॥

येन संचालिता शक्तिः स योगी सिद्धि-भाजनम्।
किमत्र बहुनोक्तेन कालं जयति लीलया॥ १२०॥

ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः।
मण्डलाद्दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः॥ १२१॥

कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः।
एवमभ्यस्यतो नित्यं यमिनो यम-भीः कुतः॥ १२२॥

द्वा-सप्तति-सहस्राणां नाडीनां मल-शोधने।
कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनादृते॥ १२३॥

इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम्।
आसन-प्राण-संयाम-मुद्राभिः सरला भवेत्॥ १२४॥

अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना।
रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति॥ १२५॥

राज-योगं विना पृथ्वी राज-योगं विना निशा।
राज-योगं विना मुद्रा विचित्रापि न शोभते॥ १२६॥

मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत्।
इतरत्र न कर्तव्या मनो-वृत्तिर्मनीषिणा॥ १२७॥

इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना।
एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी॥ १२८॥

उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम्।
स एव श्री-गुरुः स्वामी साक्षादीश्वर एव सः॥ १२९॥

तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः।
अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम्॥ १३०॥

इति हठ-प्रदीपिकायां तृतीयोपदेशः।


चतुर्थोपदेशः

नमः शिवाय गुरवे नाद-बिन्दु-कलात्मने।
निरञ्जन-पदं याति नित्यं तत्र परायणः॥ १॥

अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम्।
मृत्युघ्नं च सुखोपायं ब्रह्मानन्द-करं परम्॥ २॥

राज-योगः समाधिश्च उन्मनी च मनोन्मनी।
अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम्॥ ३॥

अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम्।
जीवन्मुक्तिश्च सहजा तुर्या चेत्येक-वाचकाः॥ ४॥

सलिले सैन्धवं यद्वत्साम्यं भजति योगतः।
तथात्म-मनसोरैक्यं समाधिरभिधीयते॥ ५॥

यदा संक्षीयते प्राणो मानसं च प्रलीयते।
तदा समरसत्वं च समाधिरभिधीयते॥ ६॥

तत्-समं च द्वयोरैक्यं जीवात्म-परमात्मनोः।
प्रनष्ट-सर्व-सङ्कल्पः समाधिः सोऽभिधीयते॥ ७॥

राज-योगस्य माहात्म्यं को वा जानाति तत्त्वतः।
ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरु-वाक्येन लभ्यते॥ ८॥

दुर्लभो विषय-त्यागो दुर्लभं तत्त्व-दर्शनम्।
दुर्लभा सहजावस्था सद्-गुरोः करुणां विना॥ ९॥

विविधैरासनैः कुभैर्विचित्रैः करणैरपि।
प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते॥ १०॥

उत्पन्न-शक्ति-बोधस्य त्यक्त-निःशेष-कर्मणः।
योगिनः सहजावस्था स्वयमेव प्रजायते॥ ११॥

सुषुम्णा-वाहिनि प्राणे शून्ये विशति मानसे।
तदा सर्वाणि कर्माणि निर्मूलयति योगवित्॥ १२॥

अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः।
पतितं वदने यस्य जगदेतच्चराचरम्॥ १३॥

चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे।
तदामरोली वज्रोली सहजोली प्रजायते॥ १४॥

ज्ञानं कुतो मनसि सम्भवतीह तावत्
प्राणोऽपि जीवति मनो म्रियते न यावत्।
प्राणो मनो द्वयमिदं विलयं नयेद्यो
मोक्षं स गच्छति नरो न कथंचिदन्यः॥ १५॥

ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम्।
स्थित्वा सदैव सुस्थाने ब्रह्म-रन्ध्रे निरोधयेत्॥ १६॥

सूर्य-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम्।
भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम्॥ १७॥

द्वा-सप्तति-सहस्राणि नाडी-द्वाराणि पञ्जरे।
सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः॥ १८॥

वायुः परिचितो यस्मादग्निना सह कुण्डलीम्।
बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः॥ १९॥

सुषुम्णा-वाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी।
अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम्॥ २०॥

पवनो बध्यते येन मनस्तेनैव बध्यते।
मनश्च बध्यते येन पवनस्तेन बध्यते॥ २१॥

हेतु-द्वयं तु चित्तस्य वासना च समीरणः।
तयोर्विनष्ट एकस्मिन्तौ द्वावपि विनश्यतः॥ २२॥

मनो यत्र विलीयेत पवनस्तत्र लीयते।
पवनो लीयते यत्र मनस्तत्र विलीयते॥ २३॥

दुग्धाम्बुवत्संमिलितावुभौ तौ
तुल्य-क्रियौ मानस-मारुतौ हि।
यतो मरुत्तत्र मनः-प्रवृत्तिर्
यतो मनस्तत्र मरुत्-प्रवृत्तिः॥ २४॥

तत्रैक-नाशादपरस्य नाश
एक-प्रवृत्तेरपर-प्रवृत्तिः।
अध्वस्तयोश्चेन्द्रिय-वर्ग-वृत्तिः
प्रध्वस्तयोर्मोक्ष-पदस्य सिद्धिः॥ २५॥

रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः।
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले॥ २६॥

मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम्।
बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति॥ २७॥

मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत्।
बिन्दु-स्थैर्यात्सदा सत्त्वं पिण्ड-स्थैर्यं प्रजायते॥ २८॥

इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः।
मारुतस्य लयो नाथः स लयो नादमाश्रितः॥ २९॥

सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे।
मनः-प्राण-लये कश्चिदानन्दः सम्प्रवर्तते॥ ३०॥

प्रनष्ट-श्वास-निश्वासः प्रध्वस्त-विषय-ग्रहः।
निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम्॥ ३१॥

उच्छिन्न-सर्व-सङ्कल्पो निःशेषाशेष-चेष्टितः।
स्वावगम्यो लयः कोऽपि जायते वाग्-अगोचरः॥ ३२॥

यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय-सनातनी।
सा शक्तिर्जीव-भूतानां द्वे अलक्ष्ये लयं गते॥ ३३॥

लयो लय इति प्राहुः कीदृशं लय-लक्षणम्।
अपुनर्-वासनोत्थानाल्लयो विषय-विस्मृतिः॥ ३४॥

वेद-शास्त्र-पुराणानि सामान्य-गणिका इव।
एकैव शाम्भवी मुद्रा गुप्ता कुल-वधूरिव॥ ३५॥

अथ शाम्भवी
अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष-वर्जिता।
एषा सा शाम्भवी मुद्रा वेद-शास्त्रेषु गोपिता॥ ३६॥

अन्तर्लक्ष्य-विलीन-चित्त-पवनो योगी यदा वर्तते
दृष्ट्या निश्चल-तारया बहिरधः पश्यन्नपश्यन्नपि।
मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः
शून्याशून्य-विलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम्॥ ३७॥

श्री-शाम्भव्याश्च खेचर्या अवस्था-धाम-भेदतः।
भवेच्चित्त-लयानन्दः शून्ये चित्-सुख-रूपिणि॥ ३८॥

तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ।
पूर्व-योगं मनो युञ्जन्नुन्मनी-कारकः क्षणात्॥ ३९॥

केचिदागम-जालेन केचिन्निगम-सङ्कुलैः।
केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम्॥ ४०॥

अर्धोन्मीलित-लोचनः स्थिर-मना नासाग्र-दत्तेक्षणश्
चन्द्रार्कावपि लीनतामुपनयन्निस्पन्द-भावेन यः।
ज्योती-रूपमशेष-बीजमखिलं देदीप्यमानं परं
तत्त्वं तत्-पदमेति वस्तु परमं वाच्यं किमत्राधिकम्॥ ४१॥

दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत्।
सर्वदा पूजयेल्लिङ्गं दिवारात्रि-निरोधतः॥ ४२॥

अथ खेचरी
सव्य-दक्षिण-नाडी-स्थो मध्ये चरति मारुतः।
तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः॥ ४३॥

इडा-पिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत्।
तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः॥ ४४॥

सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः।
संस्थिता व्योम-चक्रे या सा मुद्रा नाम खेचरी॥ ४५॥

सोमाद्यत्रोदिता धारा साक्षात्सा शिव-वल्लभा।
पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे॥ ४६॥

पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत्।
अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते॥ ४७॥

भ्रुवोर्मध्ये शिव-स्थानं मनस्तत्र विलीयते।
ज्ञातव्यं तत्-पदं तुर्यं तत्र कालो न विद्यते॥ ४८॥

अभ्यसेत्खेचरीं तावद्यावत्स्याद्योग-निद्रितः।
सम्प्राप्त-योग-निद्रस्य कालो नास्ति कदाचन॥ ४९॥

निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत्।
स-बाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम्॥ ५०॥

बाह्य-वायुर्यथा लीनस्तथा मध्यो न संशयः।
स्व-स्थाने स्थिरतामेति पवनो मनसा सह॥ ५१॥

एवमभ्यस्यतस्तस्य वायु-मार्गे दिवानिशम्।
अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते॥ ५२॥

अमृतैः प्लावयेद्देहमापाद-तल-मस्तकम्।
सिद्ध्यत्येव महा-कायो महा-बल-पराक्रमः॥ ५३॥

शक्ति-मध्ये मनः कृत्वा शक्तिं मानस-मध्यगाम्।
मनसा मन आलोक्य धारयेत्परमं पदम्॥ ५४॥

ख-मध्ये कुरु चात्मानमात्म-मध्ये च खं कुरु।
सर्वं च ख-मयं कृत्वा न किंचिदपि चिन्तयेत्॥ ५५॥

अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे।
अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे॥ ५६॥

बाह्य-चिन्ता न कर्तव्या तथैवान्तर-चिन्तनम्।
सर्व-चिन्तां परित्यज्य न किंचिदपि चिन्तयेत्॥ ५७॥

सङ्कल्प-मात्र-कलनैव जगत्समग्रं
सङ्कल्प-मात्र-कलनैव मनो-विलासः।
सङ्कल्प-मात्र-मतिमुत्सृज निर्विकल्पम्
आश्रित्य निश्चयमवाप्नुहि राम शान्तिम्॥ ५८॥

कर्पूरमनले यद्वत्सैन्धवं सलिले यथा।
तथा सन्धीयमानं च मनस्तत्त्वे विलीयते॥ ५९॥

ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते।
ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः॥ ६०॥

मनो-दृश्यमिदं सर्वं यत्किंचित्स-चराचरम्।
मनसो ह्युन्मनी-भावाद्द्वैतं नैवोलभ्यते॥ ६१॥

ज्ञेय-वस्तु-परित्यागाद्विलयं याति मानसम्।
मनसो विलये जाते कैवल्यमवशिष्यते॥ ६२॥

एवं नाना-विधोपायाः सम्यक्स्वानुभवान्विताः।
समाधि-मार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः॥ ६३॥

सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र-जन्मने।
मनोन्मन्यै नमस्तुभ्यं महा-शक्त्यै चिद्-आत्मने॥ ६४॥

अशक्य-तत्त्व-बोधानां मूढानामपि संमतम्।
प्रोक्तं गोरक्ष-नाथेन नादोपासनमुच्यते॥ ६५॥

श्री-आदिनाथेन स-पाद-कोटि-
लय-प्रकाराः कथिता जयन्ति।
नादानुसन्धानकमेकमेव
मन्यामहे मुख्यतमं लयानाम्॥ ६६॥

मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम्।
शृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः॥ ६७॥

श्रवण-पुट-नयन-युगल
घ्राण-मुखानां निरोधनं कार्यम्।
शुद्ध-सुषुम्णा-सरणौ
स्फुटममलः श्रूयते नादः॥ ६८॥

आरम्भश्च घटश्चैव तथा परिचयोऽपि च।
निष्पत्तिः सर्व-योगेषु स्यादवस्था-चतुष्टयम्॥ ६९॥

अथ आरम्भावस्था
ब्रह्म-ग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्य-सम्भवः।
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः॥ ७०॥

दिव्य-देहश्च तेजस्वी दिव्य-गन्धस्त्वरोगवान्।
सम्पूर्ण-हृदयः शून्य आरम्भे योगवान्भवेत्॥ ७१॥

अथ घटावस्था
द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः।
दृढासनो भवेद्योगी ज्ञानी देव-समस्तदा॥ ७२॥

विष्णु-ग्रन्थेस्ततो भेदात्परमानन्द-सूचकः।
अतिशून्ये विमर्दश्च भेरी-शब्दस्तदा भवेत्॥ ७३॥

अथ परिचयावस्था
तृतीयायां तु विज्ञेयो विहायो मर्दल-ध्वनिः।
महा-शून्यं तदा याति सर्व-सिद्धि-समाश्रयम्॥ ७४॥

चित्तानन्दं तदा जित्वा सहजानन्द-सम्भवः।
दोष-दुःख-जरा-व्याधि-क्षुधा-निद्रा-विवर्जितः॥ ७५॥

अथ निष्पत्त्य्-अवस्था
रुद्र-ग्रन्थिं यदा भित्त्वा शर्व-पीठ-गतोऽनिलः।
निष्पत्तौ वैणवः शब्दः क्वणद्-वीणा-क्वणो भवेत्॥ ७६॥

एकीभूतं तदा चित्तं राज-योगाभिधानकम्।
सृष्टि-संहार-कर्तासौ योगीश्वर-समो भवेत्॥ ७७॥

अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम्।
लयोद्भवमिदं सौख्यं राज-योगादवाप्यते॥ ७८॥

राज-योगमजानन्तः केवलं हठ-कर्मिणः।
एतानभ्यासिनो मन्ये प्रयास-फल-वर्जितान्॥ ७९॥

उन्मन्य्-अवाप्तये शीघ्रं भ्रू-ध्यानं मम संमतम्।
राज-योग-पदं प्राप्तुं सुखोपायोऽल्प-चेतसाम्।
सद्यः प्रत्यय-सन्धायी जायते नादजो लयः॥ ८०॥

नादानुसन्धान-समाधि-भाजां
योगीश्वराणां हृदि वर्धमानम्।
आनन्दमेकं वचसामगम्यं
जानाति तं श्री-गुरुनाथ एकः॥ ८१॥

कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः।
तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिर-पदं व्रजेत्॥ ८२॥

अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम्।
पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत्॥ ८३॥

श्रूयते प्रथमाभ्यासे नादो नाना-विधो महान्।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः॥ ८४॥

आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः।
मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास्तथा॥ ८५॥

अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः।
इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः॥ ८६॥

महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ।
तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत्॥ ८७॥

घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने।
रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत्॥ ८८॥

यत्र कुत्रापि वा नादे लगति प्रथमं मनः।
तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते॥ ८९॥

मकरन्दं पिबन्भृङ्गी गन्धं नापेक्षते यथा।
नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते॥ ९०॥

मनो-मत्त-गजेन्द्रस्य विषयोद्यान-चारिणः।
समर्थोऽयं नियमने निनाद-निशिताङ्कुशः॥ ९१॥

बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम्।
प्रयाति सुतरां स्थैर्यं छिन्न-पक्षः खगो यथा॥ ९२॥

सर्व-चिन्तां परित्यज्य सावधानेन चेतसा।
नाद एवानुसन्धेयो योग-साम्राज्यमिच्छता॥ ९३॥

नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते।
अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽपि च॥ ९४॥

अन्तरङ्गस्य यमिनो वाजिनः परिघायते।
नादोपास्ति-रतो नित्यमवधार्या हि योगिना॥ ९५॥

बद्धं विमुक्त-चाञ्चल्यं नाद-गन्धक-जारणात्।
मनः-पारदमाप्नोति निरालम्बाख्य-खेऽटनम्॥ ९६॥

नाद-श्रवणतः क्षिप्रमन्तरङ्ग-भुजङ्गमम्।
विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति॥ ९७॥

काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति।
नादे प्रवर्तितं चित्तं नादेन सह लीयते॥ ९८॥

घण्टादिनाद-सक्त-स्तब्धान्तः-करण-हरिणस्य।
प्रहरणमपि सुकरं स्याच्छर-सन्धान-प्रवीणश्चेत्॥ ९९॥

अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते।
ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः।
मनस्तत्र लयं याति तद्विष्णोः परमं पदम्॥ १००॥

तावदाकाश-सङ्कल्पो यावच्छब्दः प्रवर्तते।
निःशब्दं तत्-परं ब्रह्म परमातेति गीयते॥ १०१॥

यत्किंचिन्नाद-रूपेण श्रूयते शक्तिरेव सा।
यस्तत्त्वान्तो निराकारः स एव परमेश्वरः॥ १०२॥

इति नादानुसन्धानम्
सर्वे हठ-लयोपाया राजयोगस्य सिद्धये।
राज-योग-समारूढः पुरुषः काल-वञ्चकः॥ १०३॥

तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः।
उन्मनी कल्प-लतिका सद्य एव प्रवर्तते॥ १०४॥

सदा नादानुसन्धानात्क्षीयन्ते पाप-संचयाः।
निरञ्जने विलीयेते निश्चितं चित्त-मारुतौ॥ १०५॥

शङ्ख-दुन्धुभि-नादं च न शृणोति कदाचन।
काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम्॥ १०६॥

सर्वावस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः।
मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः॥ १०७॥

खाद्यते न च कालेन बाध्यते न च कर्मणा।
साध्यते न स केनापि योगी युक्तः समाधिना॥ १०८॥

न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम्।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना॥ १०९॥

चित्तं न सुप्तं नोजाग्रत्स्मृति-विस्मृति-वर्जितम्।
न चास्तमेति नोदेति यस्यासौ मुक्त एव सः॥ ११०॥

न विजानाति शीतोष्णं न दुःखं न सुखं तथा।
न मानं नोपमानं च योगी युक्तः समाधिना॥ १११॥

स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते।
निःश्वासोच्छ्वास-हीनश्च निश्चितं मुक्त एव सः॥ ११२॥

अवध्यः सर्व-शस्त्राणामशक्यः सर्व-देहिनाम्।
अग्राह्यो मन्त्र-यन्त्राणां योगी युक्तः समाधिना॥ ११३॥

यावन्नैव प्रविशति चरन्मारुतो मध्य-मार्गे
यावद्विदुर्न भवति दृढः प्राण-वात-प्रबन्धात्।
यावद्ध्याने सहज-सदृशं जायते नैव तत्त्वं
तावज्ज्ञानं वदति तदिदं दम्भ-मिथ्या-प्रलापः॥ ११४॥

इति हठ-योग-प्रदीपिकायां समाधि-लक्षणं नाम चतुर्थोपदेशः।