Thursday 20 March 2014

॥ गुरुस्तोत्र॥

अखण्डमण्डलाकारं व्याप्तं येन चराचरम्‌।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥ १॥

अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः॥ २॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः॥ ३॥

स्थावरं जङ्गमं व्याप्तं यत्किञ्चित्सचराचरम्‌।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥ ४॥

चिन्मयं व्यापि यत्सर्वं त्रैलोक्यं सचराचरम्‌।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः॥ ५॥

सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः।
वेदान्ताम्बुजसूर्यो यः तस्मै श्रीगुरवे नमः॥ ६॥

चैतन्यश्शाश्वतश्शान्तः व्योमातीतो निरञ्जनः।
बिन्दुनादकलातीतः तस्मै श्रीगुरवे नमः॥ ७॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः॥ ८॥


अनेकजन्मसम्प्राप्तकर्मबन्धविदाहिने।
आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः॥ ९॥

शोषणं भवसिन्धोश्च ज्ञापनं सारसम्पदः।
गुरोः पादोदकं सम्यक्‌ तस्मै श्रीगुरवे नमः॥ १०॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।
तत्त्वज्ञानात्‌ परं नास्ति तस्मै श्रीगुरवे नमः॥ ११॥

मन्नाथः श्रीजगन्नाथः मद्गुरुः श्रीजगद्गुरुः।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः॥ १२॥

गुरुरादिरनादिश्च गुरुः परमदैवतम्‌।
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः॥ १३॥

त्वमेव माता च पिता त्वमेव। त्वमेव बन्धुश्च सखा त्वमेव
त्वमेव विद्या द्रविणं त्वमेव। त्वमेव सर्वं मम देवदेव॥ १४॥


॥ इति श्रीगुरुस्तोत्रम्‌॥

No comments:

Post a Comment