Friday 28 March 2014

आमरौघशासन

ऊर्ध्वशक्तिनिपातः कन्दचतुष्टयेन ज्ञायते॥ १॥

यच् चन्द्रप्रभव वराम्बरगत यल् लिङ्गसज्ञ जल स प्राणस् तदधः स्थिर च कमल धत्ते मुखोर्ध्व हृदि॥ १॥ १॥

बद्ध्वा कुम्भकम् आत्मगाढरचित तद् ब्रह्मनाडीगत ह्य् आनेतु वदने षडध्वगकला सैवविधा सारणा॥ १॥ २॥

षडध्वगा कथ्यते॥ २॥

घण्टाकोटिकपोलकोटरकुटीजिह्वाग्रमध्याश्रयाच् छङ्खिन्यागतराजदन्तविवर प्रान्तोर्ध्ववक्त्रेण यत्॥ २॥ १॥

सप्राप्त हनुरन्ध्रमूलविधिना यच् चन्द्रतोय मुखे तत् सर्व रविकालरूपसदने रक्षेत् परा सारणा॥ २॥ २॥

कर्मान्तरेण परा सारणा कथ्यते॥ ३॥

नृत्यन् नित्योर्ध्वजिह्वो यदि पिबति पुमान् वक्त्रधारामृतौघ सुस्वाद शीतलाङ्ग दुरितभयहर क्षुत्पिपासाविनाशि॥ ३॥ १॥

पिण्डस्थैर्य यद् अस्माद् भवति बत महामृत्युरोगा द्रवन्ते दौर्भाग्य याति नाश हरति विषजरा याति काले भ्रमित्वा॥ ३॥ २॥

सारणानन्तर सारणा कथ्यते॥ ४॥

जिह्वाग्र त्व् अथ राजदन्तविवर नीत्वा ततो घण्टिका सस्थाप्य प्रतिजिह्वपर्व शशिनो मार्गे कला च क्षिपेत्॥ ४॥ १॥

एवसारणिके पतन्ति च सुधाधाराः पुनः षण्मुखगान्धाराप्य् अथ तत्कलापमथन नाडीमुखोज्जृम्भणम्॥ ४॥ २॥

सारणानन्तर प्रतिसारणा कथ्यते॥ ५॥

प्राणवातेन नीत्वोर्ध्व कोटरे चन्द्रजा कलाम्॥ ५॥ १॥

मन्थिता दिव्यजाता च तेन गान्धारकर्मणा॥ ५॥ २॥

गान्धारानन्तर प्रतिसारणा कथ्यते॥ ६॥

नासापश्चिममार्गवाहपवनात् प्राणेतिदीर्घीकृते चन्द्राम्बु प्रतिसारणा सुकृतिनः प्राग्घण्टिकायाः पथः॥ ६॥ १॥

सिञ्चन् कालविशालवह्निवशग भूत्वा स नाडीशत तत् कार्य कुरुते पुनर् नवतनु जीर्णद्रुमस्कन्धवत्॥ ६॥ २॥

प्रतिसारणानन्तर शङ्खसारणा कथ्यते॥ ७॥

प्रोत्क्षिप्त वृषणस्य गोलकयुग मध्ये ध्वज प्रोद्ध्वज नित्योर्ध्वे बत शङ्खसारणविधौ वक्त्र विधेय निजम्॥ ७॥ १॥

सर्वस्थानशरीरबन्धनवशात् स्कन्धोद्धृताना यथा नाडीना मुखतः सुधानिधिजल सिञ्चन्न् अधो गच्छति॥ ७॥ २॥

कर्मान्तरेण शङ्खसारणा कथ्यते॥ ८॥

वृषणाकर्षण कार्यम् अथवा शङ्खसारणा॥ ८॥ १॥

बोधन चैव कुण्डल्यास् तिष्ठेच् चैवोत्कटासनम्॥ ८॥ २॥

शङ्खसारणानन्तर महासारणा कथ्यते॥ ९॥

पश्चाद् आसनशुद्धवातनिकरान् आदाय कण्ठव्रणात् सस्थाप्या रविमण्डले तु भुजगी सभूतनाडीत्रयात्॥ ९॥ १॥

देवी मध्यपथोदिता प्रकुरुते कम्प ततो मूर्छना दूरकर्षणदर्शन श्रुतिगणाश् चान्या महासारणा॥ ९॥ २॥

कर्मान्तरेण महासारणा कथ्यते॥ १०॥

आधाराम्बुजकोशकन्दभुजगी सभूय नाडीत्रयात् चन्द्रार्कोद्भवनाडिकोर्ध्वयुगल चाद्वैतपथ्यागतम्॥ १०॥ १॥

तत्रैवाङ्गुलिभिर् निपीड्य क्रमशः शान्ति मनो मारुत चन्द्रो याति रवि ततश् च भुवने तुल्या महासारणा॥ १०॥ २॥

सूर्यान्तः शशिवीचिदन्तवदनप्रान्तप्लवौघोरगी सप्राप्ते पवनातिसङ्गहरणे क्षिप्र ततो धाविता॥ १०॥ ३॥

श्रीमन्मध्यपथान्ततो विदधती कम्पादि कोपान्विता तस्यैवाश्रययायिनोपि शशिनो दत्ता सुधा समता॥ १०॥ ४॥

आदौ शोषणिकोत्र सारणम् अतः कार्य महासारण कर्तव्य प्रतिसारण च गुरुणा निर्दिष्टमार्ग क्रमात्॥ १०॥ ५॥

पश्चाद् एव च शङ्खसारणविधौ कार्य महासारण सम्मूर्छा वितताकृतिः प्रतिदिन वेलात्रय दीयताम्॥ १०॥ ६॥

आकुञ्च्यागजकामरूपम् अचल बन्धत्वजात तनौ नात्यूर्ध्वे चतुरङ्गुलाग्रविदिते स्थाने हृदा प्राणिते॥ १०॥ ७॥

दन्तैर् बन्धुरिते च वातयुगले प्रश्लेषणाश्लेषणात् नाभिग्रन्थिविमोक्षपातसहजे मार्गे मनःसिद्धयः॥ १०॥ ८॥

दूराकारविसर्पिते च पवने नाभेश् च मार्गस्थिते बन्धेषु त्रिषु सत्सु सोपि शिथिले मध्यप्रबोधे सति॥ १०॥ ९॥

क्षिप्र च ध्रियते द्विपीठमरुतोप्य् ऊर्ध्वक्रमाकर्षणे सयुक्तो गतिचित्तशोषणम् अतः प्राप्येनिले तिष्ठति॥ १०॥ १०॥

मूले मूलोर्ध्वचक्रे वृषणकुलतले वह्निमातङ्गकूले कम्पक्षोभभ्रमाढ्ये ध्वनितपरिचय घर्मपातोर्ध्वरोम॥ १०॥ ११॥

भूमित्याग कवित्व परपुरविशन वश्यम् आकर्षण च ह्य् एव वा चेतनाप्ता प्रभवति निखिला खेचरत्वप्रतिष्ठा॥ १०॥ १२॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म पर च तत्॥ १०॥ १३॥

हृदये परमे धाम्नि मध्ये तु रविचन्द्रमाः॥ १०॥ १४॥

नाद तु त ग्ढ़ीत्वा च चैतन्य तत्र योजयेत्॥ १०॥ १५॥

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म पर च तत्॥ १०॥ १६॥

शब्दब्रह्मणि निष्णातः पर ब्रह्माधिगच्छति॥ १०॥ १७॥

अन्यत् सर्व परित्यज्य शब्दब्रह्म सदाभ्यसेत्॥ १०॥ १८॥

स्वसवेद्यम् असवेद्य शब्दब्रह्म द्विधा स्थितम्॥ १०॥ १९॥

चिनोति प्रथमः शब्दश् चिञ्चिनोति द्वितीयकः॥ १०॥ २०॥

विवरश् च तृतीयः स्याच् छङ्खशब्दश् चतुर्थकः॥ १०॥ २१॥

पञ्चमो मेघनिर्घोषः षष्ठम् एतद् उदीरणम्॥ १०॥ २२॥

सप्तम कास्यतालाख्य मेघशब्दस् तथाष्टमम्॥ १०॥ २३॥

नवमोप्य् अग्निदाहश् च दशमो दुन्दुभिस्वनः॥ १०॥ २४॥

अनाहतनिनादोय पवनान्तविनिर्गतः॥ १०॥ २५॥

ध्वनितेन विना यस् तु नादश् चैवम् अपण्डितः॥ १०॥ २६॥

चिनोति रसम् उद्धृत्य चिञ्चिनोति भगाश्रितम्॥ १०॥ २७॥

विरसाशेन सप्राप्त मेघशब्देन चाविशेत्॥ १०॥ २८॥

मज्जा पतति निर्घोषः सस्थितोदधिभीषणः॥ १०॥ २९॥

कास्यताले नभःशब्दः प्राणमेघध्वनिः क्रमात्॥ १०॥ ३०॥

जीवश् चैवाग्निदाहः स्यान् मोक्षः समरसो भवेत्॥ १०॥ ३१॥

विशुद्धम् इत्थम् आत्मान पश्येत चात्मनात्मनि॥ १०॥ ३२॥

प्रथमे जनवात्सल्य द्वितीये रोगनाशनम्॥ १०॥ ३३॥

तृतीयेन कवित्व च दूराकर्ष चतुर्थके॥ १०॥ ३४॥

पञ्चमे वाचि कामित्व षष्ठे भूमि परित्यजेत्॥ १०॥ ३५॥

सप्तमे दूरम् आलोक्य चाष्टमे वज्रवद् भवेत्॥ १०॥ ३६॥

नवमे स्फुरते कायो दशमे सामरस्यकम्॥ १०॥ ३७॥

पृथ्वीमध्ये भवेत् पृथ्वी चापाम् आपस् तथैव च॥ १०॥ ३८॥

तेजोमध्ये भवेत् तेजो वायुर् वायौ प्रलीयते॥ १०॥ ३९॥

आकाशो लीयते सर्वः सतत्त्वः पिण्डसग्रहः॥ १०॥ ४०॥

अनाहतो दिवारात्रौ ध्वनते तु धनजयः॥ १०॥ ४१॥

तत्रारूढो यदा योगी प्राप्नुयात् परम पदम्॥ १०॥ ४२॥

अय प्रकृतिभेदः पृथ्वी आपः तेजः वायुः आकाशश् च इति शरीरे पञ्चगुणाः महाभूतानि भवन्ति तत्रैव तानि पञ्चविधानि भवन्ति॥ ११॥

अस्थि मास त्वक् नाडी रोमाणि इति पञ्चगुणा पृथिवी॥ १२॥

लालामूत्रास्रुनिःस्वेदप्रस्वेदाः इति पञ्चगुणा आपः॥ १३॥

क्षुधा तृष्णा निद्रा आलस्य कान्तिश् च इति पञ्चगुण तेजः॥ १४॥

धावन वल्गनम् आकुञ्चन प्रसारण निरोधश् चेति पञ्चगुणो वायुः॥ १५॥

रागो द्वेषो लज्जा भय मोहश् चेति पञ्चगुण आकाशः इति पञ्चगुणालङ्कृतानि पञ्चतत्त्वानि॥ १६॥

शब्दः स्पर्शः रसः रूप गन्धश् चेति पञ्च भूतगुणाः॥ १७॥

शृङ्गारादिनवनाट्यरसाः इति हास्यादिभावाः शृङ्गारादीनाम्॥ १८॥

कटुकतिक्तकषायाम्लमधुरलवणाश् चेति षट् आस्वादाः॥ १९॥

शुभम् अशुभ चेति कर्मद्वयम्॥ २०॥

प्राणापानसमानोदानव्याना नागकूर्मकृकरदेवदत्तधनजयाश् चेति दश वाताः॥ २१॥

इडापिङ्गलासुषुम्नागान्धारीहस्तिजिह्वायशस्विनीपूषालम्बुसाकुहूशङ्खिनीप्रभृतयः द्वासप्ततिर् नाडीसहस्राणि॥ २२॥

उत्पत्तिस्थितिप्रलयाश् चेति मार्गत्रयम्॥ २३॥

अस्थिसचय षष्ट्यधिक शतत्रयम् अस्त्य् अस्य प्राणेन सबन्धः॥ २४॥

कामक्रोधलोभमोहमदमानाहङ्काराश् चेति सप्त बन्धनानि॥ २५॥

विवेकबोधसतोषहर्षपुलकक्षमोपशमध्यानज्ञानोत्सवरागवैराग्यानन्दकम्पमूर्छाविकारमनोवासनादीनि प्रकृतिस्वरूपाणि॥ २६॥

रोम्णा कोटित्रय सार्धम्॥ २७॥

वातपित्तश्लेष्माण इति प्रकृतित्रयम्॥ २८॥

वातः प्राणप्रकृतिः पित्त हुताशनोद्भूत श्लेष्मा निरोधात् भवति॥ २९॥

त्वक् असृक् मास मेदः अस्थि मज्जा शुक्र प्राणो जीवः शक्तिः इति दश धातवः॥ ३०॥

प्राणरन्ध्रद्वय लोचनरन्ध्रद्वय कर्णरन्ध्रद्वय मुखरन्ध्रद्वयम् उत्सर्गरन्ध्रद्वयम् इति दश द्वाराणि॥ ३१॥

अथ दशमद्वार द्विविध शुक्रमार्गम् अमृत कालमार्गश् चेति ब्रह्मदण्डमूले रविशशिमध्ये भगाकारम् अस्ति तस्माद् आगतब्रह्मदण्डाश्रित पश्चिमलिङ्गम् अस्ति पश्चिमशब्देन स्थानम् अस्ति तस्य मध्ये लिङ्गाकारम् अस्ति॥ ३२॥

पुरुषाणा रेतोमार्गः स्त्रीणा रजोमार्गः सहैव तेन ब्रह्मदण्डरेखाश्रितपुष्पसमये सर्वव्यापकनाडीसमूहागत कामिनीरजः स्रवति॥ ३३॥

तत्रैव कामविषहरनिरञ्जनाना सयोग बीजपातात् आनन्दागमः प्रलयकालविषकालयोः कर्ता निरञ्जनश् च इति॥ ३४॥

शक्तित्रयविनिर्भिन्ने चित्ते बीजनिरञ्जनात्॥ ३५॥

वज्रपूजापदानन्द यः करोति स मन्मथः॥ ३६॥

चित्ते तृप्ते मनोमुक्तिर् ऊर्ध्वमार्गाश्रितेनले॥ ३७॥

उदानचलित रेतो मृत्युरेखाविष विदुः॥ ३८॥

चित्तमध्ये भवेद् यस् तु बालाग्रशतधाश्रये॥ ३९॥

नानाभावविनिर्मुक्तः स च प्रोक्तो निरञ्जनः॥ ४०॥

निरञ्जनाश्रिता शक्तिः सूक्ष्मशक्त्या तयाश्रितम्॥ ४१॥

मनस्य् आश्रयतामेति ज्ञेय शक्तित्रय तु तत्॥ ४२॥

शक्तित्रयोद्भव बीज बीजात् कामो विष ततः॥ ४३॥

कामः सृष्टितया प्रोक्तो विष मृत्युपद भवेत्॥ ४४॥

कि बहुना कामविषहरनिरञ्जनाना ब्रह्मदण्डमूलाङ्कुरे निवासः एभिर् यद् अमुखो मोक्षः भस्मीभूतस्य देहस्य पुनर् आगमनकार्य नास्ति॥ ४५॥

अहो मूर्खता लोकस्य केचिद् वदन्ति शुभाशुभकर्मविच्छेदन मोक्षः॥ ४६॥

केचिद् वदन्ति वेदपाठाश्रितो मोक्षः॥ ४७॥

केचिद् वदन्ति निरालम्बनलक्षणो मोक्षः॥ ४८॥

केचिद् वदन्ति ध्यानकलाकरणसम्बद्धप्रयोगसम्भवेन रूपबिन्दुनादचैतन्यपिण्डाकाशलक्षणो मोक्षः॥ ४९॥

केचिद् वदन्ति पूजापूजकमद्यमासादिसुरतप्रसङ्गसानन्दलक्षणो मोक्षः॥ ५०॥

केचिद् वदन्ति॥ ५१॥

मूलकन्दोल्लासितकुण्डलिनीसचारलक्षणो मोक्षः॥ ५२॥

केचिद् वदन्ति सुसमदृष्टिनिपातलक्षणो मोक्षः इत्य् एवविधभावनाश्रितलक्षणो मोक्षो न भवति॥ ५३॥

अथ मोक्षपद कथ्यते यत्र सहजसमाधिक्रमेण मनसा मनः समालोक्यते स एव मोक्षः॥ ५४॥

कामविषहरस्थान मानसोद्भवः मनोमध्ये कारण कारणात् उत्पत्तिस्थितिप्रलयाः प्रवर्तन्ते॥ ५५॥

उक्त च भगवता महेश्वरेण॥ ५६॥

जीवन्मुक्तिपदे देवि चित्त बीजनिरञ्जनम्॥ ५७॥

मृत्युमार्गस्थितो योगी ज्ञात्वा कर्म समभ्यसेत्॥ ५८॥

इति जीवन्मुक्तिपदम् अनेन मार्गेण स्थिरत्व भवति॥ ५९॥

अथाधारणकर्मोदितशङ्खिनीभेदव्यवस्थाव्याख्या गुदमेढ्रान्तरे त्रिकोणत्रिधावर्तभगमण्डलम् उच्यते तत्र आधारग्रन्थय एकद्वित्रयश् चेति एकद्वित्रयाणा मध्ये ग्रन्थीनाम् उपान्तरे चतुष्पत्र पद्मम् अधोमुख तिष्ठति तत्र कर्णिकामध्ये मृणालसूत्रपरिमाणा शङ्खावर्ता तत्र प्रवालाङ्कुरसन्निभा द्वित्रिनाडीभूता कुण्डलिनी शक्तिः चैतन्यबीजमुख गत्वा सुप्ता॥ ६०॥

तत्र त्रिपथमध्ये तु सूक्ष्मीभूता व्यवस्थिता॥ ६१॥

ऊर्णातन्तुनिभाकारा गता सा नाभिमण्डलम्॥ ६२॥

चतुरङ्गुलमानेनाप्य् अष्टधा कुटिलाकृतिः॥ ६३॥

स्फुरिता नाभिमध्ये तु शाखाशाखम् अनेकधा॥ ६४॥

दशनाड्याश्रित चक्र नाभिमध्ये प्रकीर्तितम् ॥

इडा च पिङ्गला चैव सुषुम्ना च तृतीयका॥ ६५॥

ऊर्ध्वमार्गस्थिता ह्य् एता ब्ढ़च्छाखावलम्बिताः॥ ६६॥

जयन्त्य् अलम्बुसा चैका ब्ढ़च्छाखावलम्बिनी॥ ६७॥

प्रणीता सा ह्य् अनेकैस् तु ब्रह्मावर्तेन सस्थिता॥ ६८॥

ब्रह्मदण्डचक्रेणासौ कपालकर्पर यावत् तस्मिन् कपालकर्परे चन्द्रमण्डलान्तर्गत कपाललिङ्ग लम्पिकास्थानोर्ध्वेमृतधाराम् अभिस्रवति मस्तकमध्ये गर्भे तिष्ठति तद् एवामृत राजदन्तमये शङ्खिनी ब्रह्मदण्डतले दमयित्वा स्रवति॥ ६९॥

एक मुखरन्ध्र राजदन्तान्तरे एतद् एव शङ्खिनीमुख दशमद्वारम् इत्य् उच्यते॥ ७०॥

यत्र च मूलभगमण्डलान्ते कुण्डलिनी शक्तिर् विनिर्गता तत्र वामभागोद्भवसोमनाडिका दक्षिणभागोद्भवसूर्यनाडिका चन्द्रो वामाङ्गव्यापकः सूर्यो दक्षिणाङ्गव्यापकः चन्द्रो वामाङ्गे वामनासापुट सूर्यो दक्षिणाङ्गे दक्षिणनासापुटम् इत्य् एव सूर्यचन्द्रौ व्यवस्थितौ॥ ७१॥

यत्र मूलकन्दे पवनोदयः मनस उदयः तपनोदयः जीवोदयः शब्दोदयः मातृकाक्षरोदयश् चेति॥ ७२॥

मनोमध्ये निद्राविषयम् इच्छाकार्यो निरञ्जनः परमात्मा॥ ७३॥

मूलकन्दोद्यतो वायुः सोमसूर्यपथोद्भवः॥ ७४॥

शक्त्याधारस्थितो याति ब्रह्मदण्डकभेदकः॥ ७५॥

मूलकन्दे तु या शक्तिः कुण्डलाकाररूपिणी॥ ७६॥

उद्गमावर्तवातोय प्राण इत्य् उच्यते बुधैः॥ ७७॥

कन्ददण्डेन चोद्दण्डैर् भ्रामिता या भुजङ्गिनी॥ ७८॥

मूर्छिता सा शिव वेत्ति प्राणैर् एव व्यवस्थिता॥ ७९॥

जन्मावस्थानाद् अधो लिङ्गः स चाधारकन्दजातिमध्यस्थितो गुह्य ऊर्ध्वे भवति तस्योर्ध्वे लिङ्गस्थान स्वाधिष्ठान नाभिमण्डले मणिपूरकस्योर्ध्वभागेनलकः तेनोद्दण्डकाद्य समागच्छति अधःप्रदेशे मणिपूरकस्य दक्षिणपश्चिमवर्ति अमेध्यस्थानम् मध्ये नाभेः कन्दः तत्र पद्माकृतिः तत्र शरीरनाडीनाम् आधारः कथ्यते हृदये पृथिवीतत्त्व पीतवर्ण मध्ये कदम्बगोलकाकृति तत्र चित्तविश्रान्तिस्थान तद् एव अनलचक्रम् कण्ठे चोदकप्रवाहपूर्णम् आत्मतत्त्व तद् विशुद्धिस्थानम् तालुमध्ये दीपशिखाकारः सदोद्द्योतः तत् तेजस्तत्त्वम् कपालकन्दराङ्कुरे वायुतत्त्वम् नासाग्रे आकाशतत्त्वम् तस्योर्ध्वे॥

आज्ञास्थानम् आज्ञास्थानान्तरे ग्रन्थिषोडशान्तरे अमृता षोडशी कला तदन्तरे वालाग्रशतधाश्रया अन्ते तस्योर्ध्वे कलान्ते बिन्दुः बिन्दुभेदाद् अनन्तर शृगाटकाकृतिर् मस्तकस्योद्देशस् तस्मिन् चित्तलयस्थानम् चित्तस्य शरीरबन्धनाद्वयोपेतस् त्रैलोक्यविहारः तस्याश्रिता ज्ञानशक्तिः एव शक्तित्रयालकृतश् चिद्दर्पणप्रतिबिम्बः समो विविधभावकलाकलितः ससारचेष्टावलोकनकुशलः सुप्तावस्थाया रूपी जलचन्द्रवत् दृश्यते यः स परमात्मा सर्वव्यापी महेश्वरः चतुर्दशविधभूतग्रामकर्ता च इति सोय परमात्मा॥ ८०॥

No comments:

Post a Comment