Sunday 6 April 2014

॥विज्ञान भैरव॥



श्री देव्युवाच।

श्रुतं देव मया सर्वं रुद्रयामलसम्भवम्।
त्रिकभेदमशेषेण सारात्सारविभागशः॥ १॥

अद्यापि न निवृत्तो मे संशयः परमेश्वर।
किं रूपं तत्त्वतो देव शब्दराशिकलामयम्॥ २॥

किं वा नवात्मभेदेन भैरवे भैरवाकृतौ।
त्रिशिरोभेदभिन्नं वा किं वा शक्तित्रयात्मकम्॥ ३॥

नादबिन्दुमयं वापि किं चन्द्रार्धनिरोधिकाः।
चक्रारूढमनच्कं वा किं वा शक्तिस्वरूपकम्॥ ४॥

परापरायाः सकलमपरायाश्च वा पुनः।
पराया यदि तद्वत्स्यात्परत्वं तद् विरुध्यते॥ ५॥

न हि वर्णविभेदेन देहभेदेन वा भवेत्।
परत्वं निष्कलत्वेन सकलत्वे न तद् भवेत्॥ ६॥

प्रसादं कुरु मे नाथ निःशेषं चिन्द्धि संशयम्।

भैरव उवाच।

साधु साधु त्वया पृष्टं तन्त्रसारम् इदम् प्रिये॥ ७॥

गूहनीयतमम् भद्रे तथापि कथयामि ते।
यत्किञ्चित्सकलं रूपं भैरवस्य प्रकीर्तितम्॥ ८॥

तद् असारतया देवि विज्ञेयं शक्रजालवत्।
मायास्वप्नोपमं चैव गन्धर्वनगरभ्रमम्॥ ९॥

ध्यानार्थम् भ्रान्तबुद्धीनां क्रियाडम्बरवर्तिनाम्।
केवलं वर्णितम् पुंसां विकल्पनिहतात्मनाम्॥ १०॥

तत्त्वतो न नवात्मासौ शब्दराशिर् न भैरवः।
न चासौ त्रिशिरा देवो न च शक्तित्रयात्मकः॥ ११॥

नादबिन्दुमयो वापि न चन्द्रार्धनिरोधिकाः।
न चक्रक्रमसम्भिन्नो न च शक्तिस्वरूपकः॥ १२॥

अप्रबुद्धमतीनां हि एता बलविभीषिकाः।
मातृमोदकवत्सर्वं प्रवृत्त्यर्थम् उदाहृतम्॥ १३॥

दिक्कालकलनोन्मुक्ता देशोद्देशाविशेषिनी।
व्यपदेष्टुमशक्यासाव् अकथ्या परमार्थतः॥ १४॥

अन्तःस्वानुभवानन्दा विकल्पोन्मुक्तगोचरा।
यावस्था भरिताकारा भैरवी भैरवात्मनः॥ १५॥

तद् वपुस् तत्त्वतो ज्ञेयं विमलं विश्वपूरणम्।
एवंविधे परे तत्त्वे कः पूज्यः कश्च तृप्यति॥ १६॥

एवंविधा भैरवस्य यावस्था परिगीयते।
सा परा पररूपेण परा देवी प्रकीर्तिता॥ १७॥

शक्तिशक्तिमतोर् यद्वद् अभेदः सर्वदा स्थितः।
अतस् तद्धर्मधर्मित्वात्परा शक्तिः परात्मनः॥ १८॥

न वह्नेर् दाहिका शक्तिर् व्यतिरिक्ता विभाव्यते।
केवलं ज्ञानसत्तायाम् प्रारम्भोऽयम् प्रवेशने॥ १९॥

शक्त्यवस्थाप्रविष्टस्य निर्विभागेन भावना।
तदासौ शिवरूपी स्यात्शैवी मुखम् इहोच्यते॥ २०॥

यथालोकेन दीपस्य किरणैर् भास्करस्य च।
ज्ञायते दिग्विभागादि तद्वच् चक्त्या शिवः प्रिये॥ २१॥

श्री देव्युवाच।

देवदेव त्रिशूलाङ्क कपालकृतभूषण।
दिग्देशकालशून्या च व्यपदेशविवर्जिता॥ २२॥

यावस्था भरिताकारा भैरवस्योपलभ्यते।
कैर् उपायैर् मुखं तस्य परा देवि कथम् भवेत्।
यथा सम्यग् अहं वेद्मि तथा मे ब्रूहि भैरव॥ २३॥

भैरव उवाच।

ऊर्ध्वे प्राणो ह्यधो जीवो विसर्गात्मा परोच्चरेत्।
उत्पत्तिद्वितयस्थाने भरणाद् भरिता स्थितिः॥ २४॥

मरुतोऽन्तर् बहिर् वापि वियद्युग्मानिवर्तनात्।
भैरव्या भैरवस्येत्थम् भैरवि व्यज्यते वपुः॥ २५॥

न व्रजेन् न विशेच् चक्तिर् मरुद्रूपा विकासिते।
निर्विकल्पतया मध्ये तया भैरवरूपता॥ २६॥

कुम्भिता रेचिता वापि पूरिता वा यदा भवेत्।
तदन्ते शान्तनामासौ शक्त्या शान्तः प्रकाशते॥ २७॥

आमूलात्किरणाभासां सूक्ष्मात्सूक्ष्मतरात्मिकम्।
चिन्तयेत्तां द्विषट्कान्ते श्याम्यन्तीम् भैरवोदयः॥ २८॥

उद्गच्चन्तीं तडित्रूपाम् प्रतिचक्रं क्रमात्क्रमम्।
ऊर्ध्वं मुष्टित्रयं यावत्तावद् अन्ते महोदयः॥ २९॥

क्रमद्वादशकं सम्यग् द्वादशाक्षरभेदितम्।
स्थूलसूक्ष्मपरस्थित्या मुक्त्वा मुक्त्वान्ततः शिवः॥ ३०॥

तयापूर्याशु मूर्धान्तं भङ्क्त्वा भ्रूक्षेपसेतुना।
निर्विकल्पं मनः कृत्वा सर्वोर्ध्वे सर्वगोद्गमः॥ ३१॥

शिखिपक्षैश् चित्ररूपैर् मण्डलैः शून्यपञ्चकम्।
ध्यायतोऽनुत्तरे शून्ये प्रवेशो हृदये भवेत्॥ ३२॥

ईदृशेन क्रमेणैव यत्र कुत्रापि चिन्तना।
शून्ये कुड्ये परे पात्रे स्वयं लीना वरप्रदा॥ ३३॥

कपालान्तर् मनो न्यस्य तिष्ठन् मीलितलोचनः।
क्रमेण मनसो दार्ढ्यात्लक्षयेत्लष्यम् उत्तमम्॥ ३४॥

मध्यनाडी मध्यसंस्था बिससूत्राभरूपया।
ध्यातान्तर्व्योमया देव्या तया देवः प्रकाशते॥ ३५॥

कररुद्धदृगस्त्रेण भ्रूभेदाद् द्वाररोधनात्।
दृष्टे बिन्दौ क्रमाल् लीने तन्मध्ये परमा स्थितिः॥ ३६॥

धामान्तःक्षोभसम्भूतसूक्ष्माग्नितिलकाकृतिम्।
बिन्दुं शिखान्ते हृदये लयान्ते ध्यायतो लयः॥ ३७॥

अनाहते पात्रकर्णेऽभग्नशब्दे सरिद्द्रुते।
शब्दब्रह्मणि निष्णातः परम् ब्रह्माधिगच्चति॥ ३८॥

प्रणवादिसमुच्चारात्प्लुतान्ते शून्यभावानात्।
शून्यया परया शक्त्या शून्यताम् एति भैरवि॥ ३९॥

यस्य कस्यापि वर्णस्य पूर्वान्ताव् अनुभावयेत्।
शून्यया शून्यभूतोऽसौ शून्याकारः पुमान् भवेत्॥ ४०॥

तन्त्र्यादिवाद्यशब्देषु दीर्घेषु क्रमसंस्थितेः।
अनन्यचेताः प्रत्यन्ते परव्योमवपुर् भवेत्॥ ४१॥

पिण्डमन्त्रस्य सर्वस्य स्थूलवर्णक्रमेण तु।
अर्धेन्दुबिन्दुनादान्तः शून्योच्चाराद् भवेच् चिवः॥ ४२॥

निजदेहे सर्वदिक्कं युगपद् भावयेद् वियत्।
निर्विकल्पमनास् तस्य वियत्सर्वम् प्रवर्तते॥ ४३॥

पृष्टशून्यं मूलशून्यं युगपद् भावयेच् च यः।
शरीरनिरपेक्षिण्या शक्त्या शून्यमना भवेत्॥ ४४॥

पृष्टशून्यं मूलशून्यं हृच्चून्यम् भावयेत्स्थिरम्।
युगपन् निर्विकल्पत्वान् निर्विकल्पोदयस् ततः॥ ४५॥

तनूदेशे शून्यतैव क्षणमात्रं विभावयेत्।
निर्विकल्पं निर्विकल्पो निर्विकल्पस्वरूपभाक्॥ ४६॥

सर्वं देहगतं द्रव्यं वियद्व्याप्तं मृगेक्षणे।
विभावयेत्ततस् तस्य भावना सा स्थिरा भवेत्॥ ४७॥

देहान्तरे त्वग्विभागम् भित्तिभूतं विचिन्तयेत्।
न किञ्चिद् अन्तरे तस्य ध्यायन्न् अध्येयभाग् भवेत्॥ ४८॥

हृद्याकाशे निलीनाक्षः पद्मसम्पुटमध्यगः।
अनन्यचेताः सुभगे परं सौभाग्यमाप्नुयात्॥ ४९॥

सर्वतः स्वशरीरस्य द्वादशान्ते मनोलयात्।
दृढबुद्धेर् दृढीभूतं तत्त्वलक्ष्यम् प्रवर्तते॥ ५०॥

यथा तथा यत्र तत्र द्वादशान्ते मनः क्षिपेत्॥
प्रतिक्षणं क्षीणवृत्तेर् वैलक्षण्यं दिनैर् भवेत्॥ ५१॥

कालाग्निना कालपदाद् उत्थितेन स्वकम् पुरम्।
प्लुष्टम् विचिन्तयेद् अन्ते शान्ताभासस् तदा भवेत्॥ ५२॥

एवम् एव जगत्सर्वं दग्धं ध्यात्वा विकल्पतः।
अनन्यचेतसः पुंसः पुम्भावः परमो भवेत्॥ ५३॥

स्वदेहे जगतो वापि सूक्ष्मसूक्ष्मतराणि च।
तत्त्वानि यानि निलयं ध्यात्वान्ते व्यज्यते परा॥ ५४॥

पिनां च दुर्बलां शक्तिं ध्यात्वा द्वादशगोचरे।
प्रविश्य हृदये ध्यायन् मुक्तः स्वातन्त्र्यमाप्नुयात्॥ ५५॥

भुवनाध्वादिरूपेण चिन्तयेत्क्रमशोऽखिलम्।
स्थूलसूक्ष्मपरस्थित्या यावद् अन्ते मनोलयः॥ ५६॥

अस्य सर्वस्य विश्वस्य पर्यन्तेषु समन्ततः।
अध्वप्रक्रियया तत्त्वं शैवं ध्यत्वा महोदयः॥ ५७॥

विश्वम् एतन् महादेवि शून्यभूतं विचिन्तयेत्।
तत्रैव च मनो लीनं ततस् तल्लयभाजनम्॥ ५८॥

घतादिभाजने दृष्टिम् भित्तिस् त्यक्त्वा विनिक्षिपेत्।
तल्लयं तत्क्षणाद् गत्वा तल्लयात्तन्मयो भवेत्॥ ५९॥

निर्वृक्षगिरिभित्त्यादिदेशे दृष्टिं विनिक्षिपेत्।
विलीने मानसे भावे वृत्तिक्षिणः प्रजायते॥ ६०॥

उभयोर् भावयोर् ज्ञाने ध्यात्वा मध्यं समाश्रयेत्।
युगपच् च द्वयं त्यक्त्वा मध्ये तत्त्वम् प्रकाशते॥ ६१॥

भावे त्यक्ते निरुद्धा चिन् नैव भावान्तरं व्रजेत्।
तदा तन्मध्यभावेन विकसत्यति भावना॥ ६२॥

सर्वं देहं चिन्मयं हि जगद् वा परिभावयेत्।
युगपन् निर्विकल्पेन मनसा परमोदयः॥ ६३॥

वायुद्वयस्य सङ्घट्टाद् अन्तर् वा बहिर् अन्ततः।
योगी समत्वविज्ञानसमुद्गमनभाजनम्॥ ६४॥

सर्वं जगत्स्वदेहं वा स्वानन्दभरितं स्मरेत्।
युगपत्स्वामृतेनैव परानन्दमयो भवेत्॥ ६५॥

कुहनेन प्रयोगेण सद्य एव मृगेक्षणे।
समुदेति महानन्दो येन तत्त्वं प्रकाशते॥ ६६॥

सर्वस्रोतोनिबन्धेन प्राणशक्त्योर्ध्वया शनैः।
पिपीलस्पर्शवेलायाम् प्रथते परमं सुखम्॥ ६७॥

वह्नेर् विषस्य मध्ये तु चित्तं सुखमयं क्षिपेत्।
केवलं वायुपूर्णं वा स्मरानन्देन युज्यते॥ ६८॥

शक्तिसङ्गमसङ्क्षुब्धशक्त्यावेशावसानिकम्।
यत्सुखम् ब्रह्मतत्त्वस्य तत्सुखं स्वाक्यम् उच्यते॥ ६९॥

लेहनामन्थनाकोटैः स्त्रीसुखस्य भरात्स्मृतेः।
शक्त्यभावेऽपि देवेशि भवेद् आनन्दसम्प्लवः॥ ७०॥

आनन्दे महति प्राप्ते दृष्टे वा बान्धवे चिरात्।
आनन्दम् उद्गतं ध्यात्वा तल्लयस् तन्मना भवेत्॥ ७१॥

जग्धिपानकृतोल्लासरसानन्दविजृम्भणात्।
भावयेद् भरितावस्थां महानन्दस् ततो भवेत्॥ ७२॥

गितादिविषयास्वादासमसौख्यैकतात्मनः।
योगिनस् तन्मयत्वेन मनोरूढेस् तदात्मता॥ ७३॥

यत्र यत्र मनस् तुष्टिर् मनस् तत्रैव धारयेत्।
तत्र तत्र परानन्दस्वारूपं सम्प्रवर्तते॥ ७४॥

अनागतायां निद्रायाम् प्रणष्टे बाह्यगोचरे।
सावस्था मनसा गम्या परा देवी प्रकाशते॥ ७५॥

तेजसा सूर्यदीपादेर् आकाशे शबलीकृते।
दृष्टिर् निवेश्या तत्रैव स्वात्मरूपम् प्रकाशते॥ ७६॥

करङ्किण्या क्रोधनया भैरव्या लेलिहानया।
खेचर्या दृष्टिकाले च परावाप्तिः प्रकाशते॥ ७७॥

मृद्वासने स्फिजैकेन हस्तपादौ निराश्रयम्।
निधाय तत्प्रसङ्गेन परा पूर्णा मतिर् भवेत्॥ ७८॥

उपविश्यासने सम्यग् बाहू कृत्वार्धकुञ्चितौ।
कक्षव्योम्नि मनः कुर्वन् शममायाति तल्लयात्॥ ७९॥

स्थूलरूपस्य भावस्य स्तब्धां दृष्टिं निपात्य च।
अचिरेण निराधारं मनः कृत्वा शिवं व्रजेत्॥ ८०॥

मध्यजिह्वे स्फारितास्ये मध्ये निक्षिप्य चेतनाम्।
होच्चारं मनसा कुर्वंस् ततः शान्ते प्रलीयते॥ ८१॥

आसने शयने स्थित्वा निराधारं विभावयन्।
स्वदेहं मनसि क्षिणे क्षणात्क्षीणाशयो भवेत्॥ ८२॥

चलासने स्थितस्याथ शनैर् वा देहचालनात्।
प्रशान्ते मानसे भावे देवि दिव्यौघमाप्नुयात्॥ ८३॥

आकाशं विमलम् पश्यन् कृत्वा दृष्टिं निरन्तराम्।
स्तब्धात्मा तत्क्षणाद् देवि भैरवं वपुर् आप्नुयात्॥ ८४॥

लीनं मूर्ध्नि वियत्सर्वम् भैरवत्वेन भावयेत्।
तत्सर्वम् भैरवाकारतेजस्तत्त्वं समाविशेत्॥ ८५॥

किञ्चिज् ज्ञातं द्वैतदायि बाह्यालोकस् तमः पुनः।
विश्वादि भैरवं रूपं ज्ञात्वानन्तप्रकाशभृत्॥ ८६॥

एवम् एव दुर्निशायां कृष्णपक्षागमे चिरम्।
तैमिरम् भावयन् रूपम् भैरवं रूपम् एष्यति॥ ८७॥

एवम् एव निमील्यादौ नेत्रे कृष्णाभमग्रतः।
प्रसार्य भैरवं रूपम् भावयंस् तन्मयो भवेत्॥ ८८॥

यस्य कस्येन्द्रियस्यापि व्याघाताच् च निरोधतः।
प्रविष्टस्याद्वये शून्ये तत्रैवात्मा प्रकाशते॥ ८९॥

अबिन्दुमविसर्गं च अकारं जपतो महान्।
उदेति देवि सहसा ज्ञानौघः परमेश्वरः॥ ९०॥

वर्णस्य सविसर्गस्य विसर्गान्तं चितिं कुरु।
निराधारेण चित्तेन स्पृशेद् ब्रह्म सनातनम्॥ ९१॥

व्योमाकारं स्वमात्मानं ध्यायेद् दिग्भिर् अनावृतम्।
निराश्रया चितिः शक्तिः स्वरूपं दर्शयेत्तदा॥ ९२॥

किञ्चिद् अङ्गं विभिद्यादौ तीक्ष्णसूच्यादिना ततः।
तत्रैव चेतनां युक्त्वा भैरवे निर्मला गतिः॥ ९३॥

चित्ताद्यन्तःकृतिर् नास्ति ममान्तर् भावयेद् इति।
विकल्पानामभावेन विकल्पैर् उज्झितो भवेत्॥ ९४॥

माया विमोहिनी नाम कलायाः कलनं स्थितम्।
इत्यादिधर्मं तत्त्वानां कलयन् न पृथग् भवेत्॥ ९५॥

झगितीच्चां समुत्पन्नामवलोक्य शमं नयेत्।
यत एव समुद्भूता ततस् तत्रैव लीयते॥ ९६॥

यदा ममेच्चा नोत्पन्ना ज्ञानं वा कस् तदास्मि वै।
तत्त्वतोऽहं तथाभूतस् तल्लीनस् तन्मना भवेत्॥ ९७॥

इच्चायामथवा ज्ञाने जाते चित्तं निवेशयेत्।
आत्मबुद्ध्यानन्यचेतास् ततस् तत्त्वार्थदर्शनम्॥ ९८॥

निर्निमित्तम् भवेज् ज्ञानं निराधारम् भ्रमात्मकम्।
तत्त्वतः कस्यचिन् नैतद् एवम्भावी शिवः प्रिये॥ ९९॥

चिद्धर्मा सर्वदेहेषु विशेषो नास्ति कुत्रचित्।
अतश्च तन्मयं सर्वम् भावयन् भवजिज् जनः॥ १००॥

कामक्रोधलोभमोहमदमात्सर्यगोचरे।
बुद्धिं निस्तिमितां कृत्वा तत्तत्त्वमवशिष्यते॥ १०१॥

इन्द्रजालमयं विश्वं व्यस्तं वा चित्रकर्मवत्।
भ्रमद् वा ध्यायतः सर्वम् पश्यतश्च सुखोद्गमः॥ १०२॥

न चित्तं निक्षिपेद् दुःखे न सुखे वा परिक्षिपेत्।
भैरवि ज्ञायतां मध्ये किं तत्त्वमवशिष्यते॥ १०३॥

विहाय निजदेहस्थं सर्वत्रास्मीति भावयन्।
दृढेन मनसा दृष्ट्या नान्येक्षिण्या सुखी भवेत्॥ १०४॥

घटादौ यच् च विज्ञानम् इच्चाद्यं वा ममान्तरे।
नैव सर्वगतं जातम् भावयन् इति सर्वगः॥ १०५॥

ग्राह्यग्राहकसंवित्तिः सामान्या सर्वदेहिनाम्।
योगिनां तु विशेषोऽस्ति सम्बन्धे सावधानता॥ १०६॥

स्ववद् अन्यशरीरेऽपि संवित्तिमनुभावयेत्।
अपेक्षां स्वशरीरस्य त्यक्त्वा व्यापी दिनैर् भवेत्॥ १०७॥

निराधारं मनः कृत्वा विकल्पान् न विकल्पयेत्।
तदात्मपरमात्मत्वे भैरवो मृगलोचने॥ १०८॥

सर्वज्ञः सर्वकर्ता च व्यापकः परमेश्वरः।
स एवाहं शैवधर्मा इति दार्ढ्याच् चिवो भवेत्॥ १०९॥

जलस्येवोर्मयो वह्नेर् ज्वालाभङ्ग्यः प्रभा रवेः।
ममैव भैरवस्यैता विश्वभङ्ग्यो विभेदिताः॥ ११०॥

भ्रान्त्वा भ्रान्त्वा शरीरेण त्वरितम् भुवि पातनात्।
क्षोभशक्तिविरामेण परा सञ्जायते दशा॥ १११॥

आधारेष्व् अथवाऽशक्त्याऽज्ञानाच् चित्तलयेन वा।
जातशक्तिसमावेशक्षोभान्ते भैरवं वपुः॥ ११२॥

सम्प्रदायम् इमम् देवि शृणु सम्यग् वदाम्यहम्।
कैवल्यं जायते सद्यो नेत्रयोः स्तब्धमात्रयोः॥ ११३॥

सङ्कोचं कर्णयोः कृत्वा ह्यधोद्वारे तथैव च।
अनच्कमहलं ध्यायन् विशेद् ब्रह्म सनातनम्॥ ११४॥

कूपादिके महागर्ते स्थित्वोपरि निरीक्षणात्।
अविकल्पमतेः सम्यक् सद्यस् चित्तलयः स्फुटम्॥ ११५॥

यत्र यत्र मनो याति बाह्ये वाभ्यन्तरेऽपि वा।
तत्र तत्र शिवावास्था व्यापकत्वात्क्व यास्यति॥ ११६॥

यत्र यत्राक्षमार्गेण चैतन्यं व्यज्यते विभोः।
तस्य तन्मात्रधर्मित्वाच् चिल्लयाद् भरितात्मता॥ ११७॥

क्षुताद्यन्ते भये शोके गह्वरे वा रणाद् द्रुते।
कुतूहलेक्षुधाद्यन्ते ब्रह्मसत्तामयी दशा॥ ११८॥

वस्तुषु स्मर्यमाणेषु दृष्टे देशे मनस् त्यजेत्।
स्वशरीरं निराधारं कृत्वा प्रसरति प्रभुः॥ ११९॥

क्वचिद् वस्तुनि विन्यस्य शनैर् दृष्टिं निवर्तयेत्।
तज् ज्ञानं चित्तसहितं देवि शून्यालायो भवेत्॥१२०॥

भक्त्युद्रेकाद् विरक्तस्य यादृशी जायते मतिः।
सा शक्तिः शाङ्करी नित्यम् भवयेत्तां ततः शिवः॥ १२१॥

वस्त्वन्तरे वेद्यमाने सर्ववस्तुषु शून्यता।
ताम् एव मनसा ध्यात्वा विदितोऽपि प्रशाम्यति॥ १२२॥

किञ्चिज्ज्ञैर् या स्मृता शुद्धिः सा शुद्धिः शम्भुदर्शने।
न शुचिर् ह्यशुचिस् तस्मान् निर्विकल्पः सुखी भवेत्॥ १२३॥
सर्वत्र भैरवो भावः सामान्येष्व् अपि गोचरः।
न च तद्व्यतिरेक्तेण परोऽस्तीत्यद्वया गतिः॥ १२४॥
समः शत्रौ च मित्रे च समो मानावमानयोः॥
ब्रह्मणः परिपूर्णत्वातिति ज्ञात्वा सुखी भवेत्॥ १२५॥

न द्वेषम् भावयेत्क्वापि न रागम् भावयेत्क्वचित्।
रागद्वेषविनिर्मुक्तौ मध्ये ब्रह्म प्रसर्पति॥ १२६॥

यद् अवेद्यं यद् अग्राह्यं यच् चून्यं यद् अभावगम्।
तत्सर्वम् भैरवम् भाव्यं तदन्ते बोधसम्भवः॥ १२७॥

नित्ये निराश्रये शून्ये व्यापके कलनोज्झिते।
बाह्याकाशे मनः कृत्वा निराकाशं समाविशेत्॥ १२८॥

यत्र यत्र मनो याति तत्तत्तेनैव तत्क्षणम्।
परित्यज्यानवस्थित्या निस्तरङ्गस् ततो भवेत्॥ १२९॥

भया सर्वं रवयति सर्वदो व्यापकोऽखिले।
इति भैरवशब्दस्य सन्ततोच्चारणाच् चिवः॥ १३०॥

अहं ममेदम् इत्यादि प्रतिपत्तिप्रसङ्गतः।
निराधारे मनो याति तद्ध्यानप्रेरणाच् चमी॥ १३१॥

नित्यो विभुर् निराधारो व्यापकश्चाखिलाधिपः।
शब्दान् प्रतिक्षणं ध्यायन् कृतार्थोऽर्थानुरूपतः॥ १३२॥

अतत्त्वम् इन्द्रजालाभम् इदं सर्वमवस्थितम्।
किं तत्त्वम् इन्द्रजालस्य इति दार्ढ्याच् चमं व्रजेत्॥ १३३॥

आत्मनो निर्विकारस्य क्व ज्ञानं क्व च वा क्रिया।
ज्ञानायत्ता बहिर्भावा अतः शून्यम् इदं जगत्॥ १३४॥

न मे बन्धो न मोक्षो मे भीतस्यैता विभीषिकाः।
प्रतिबिम्बम् इदम् बुद्धेर् जलेष्व् इव विवस्वतः॥ १३५॥

इन्द्रियद्वारकं सर्वं सुखदुःखादिसङ्गमम्।
इतीन्द्रियाणि सन्त्यज्य स्वस्थः स्वात्मनि वर्तते॥ १३६॥

ज्ञानप्रकाशकं सर्वं सर्वेणात्मा प्रकाशकः।
एकम् एकस्वभावत्वात्ज्ञानं ज्ञेयं विभाव्यते॥ १३७॥

मानसं चेतना शक्तिर् आत्मा चेति चतुष्टयम्।
यदा प्रिये परिक्षीणं तदा तद् भैरवं वपुः॥ १३८॥

निस्तरङ्गोपदेशानां शतम् उक्तं समासतः।
द्वादशाभ्यधिकं देवि यज् ज्ञात्वा ज्ञानविज् जनः॥ १३९॥

अत्र चैकतमे युक्तो जायते भैरवः स्वयम्।
वाचा करोति कर्माणि शापानुग्रहकारकः॥ १४०॥

अजरामरताम् एति सोऽणिमादिगुणान्वितः।
योगिनीनाम् प्रियो देवि सर्वमेलापकाधिपः॥ १४१॥

जीवन्न् अपि विमुक्तोऽसौ कुर्वन्न् अपि न लिप्यते।

श्री देवी उवाच।

इदं यदि वपुर् देव परायाश्च महेश्वर॥ १४२॥

एवमुक्तव्यवस्थायां जप्यते को जपश्च कः।
ध्यायते को महानाथ पूज्यते कश्च तृप्यति॥ १४३॥

हूयते कस्य वा होमो यागः कस्य च किं कथम्।

श्री भैरव उवाच।

एषात्र प्रक्रिया बाह्या स्थूलेष्व् एव मृगेक्षणे॥ १४४॥

भूयो भूयः परे भावे भावना भाव्यते हि या।
जपः सोऽत्र स्वयं नादो मन्त्रात्मा जप्य ईदृशः॥ १४५॥

ध्यानं हि निश्चला बुद्धिर् निराकारा निराश्रया।
न तु ध्यानं शरीराक्षिमुखहस्तादिकल्पना॥ १४६॥

पूजा नाम न पुष्पाद्यैर् या मतिः क्रियते दृढा।
निर्विकल्पे महाव्योम्नि सा पूजा ह्यादराल् लयः॥ १४७॥

अत्रैकतमयुक्तिस्थे योत्पद्येत दिनाद् दिनम्।
भरिताकारता सात्र तृप्तिर् अत्यन्तपूर्णता॥ १४८॥

महाशून्यालये वह्नौ भूताक्षविषयादिकम्।
हूयते मनसा सार्धं स होमश् चेतनास्रुचा॥ १४९॥

यागोऽत्र परमेशानि तुष्टिर् आनन्दलक्षणा।
क्षपणात्सर्वपापानां त्राणात्सर्वस्य पार्वति॥ १५०॥

रुद्रशक्तिसमावेशस् तत्क्षेत्रम् भावना परा।
अन्यथा तस्य तत्त्वस्य का पूजा काश्च तृप्यति॥ १५१॥

स्वतन्त्रानन्दचिन्मात्रसारः स्वात्मा हि सर्वतः।
आवेशनं तत्स्वरूपे स्वात्मनः स्नानम् ईरितम्॥ १५२॥

यैर् एव पूज्यते द्रव्यैस् तर्प्यते वा परापरः।
यश्चैव पूजकः सर्वः स एवैकः क्व पूजनम्॥ १५३॥

व्रजेत्प्राणो विशेज् जीव इच्चया कुटिलाकृतिः।
दीर्घात्मा सा महादेवी परक्षेत्रम् परापरा॥ १५४॥

अस्यामनुचरन् तिष्ठन् महानन्दमयेऽध्वरे।
तया देव्या समाविष्टः परम् भैरवमाप्नुयात्॥ १५५॥

षट्शतानि दिवा रात्रौ सहस्राण्येकविंशतिः।
जपो देव्याः समुद्दिष्टः सुलभो दुर्लभो जडैः॥ १५६॥
वरितिन्
सकारेण बहिर्याति हकारेण विषेत् पुनः।
हंसहंसेत्यमुं मन्त्रं जीवो जपति नित्यशः॥१५६॥

इत्येतत्कथितं देवि परमामृतम् उत्तमम्।
एतच् च नैव कस्यापि प्रकाश्यं तु कदाचन॥ १५७॥

परशिष्ये खले क्रूरे अभक्ते गुरुपादयोः।
निर्विकल्पमतीनां तु वीराणाम् उन्नतात्मनाम्॥ १५८॥

भक्तानां गुरुवर्गस्य दातव्यं निर्विशङ्कया।
ग्रामो राज्यम् पुरं देशः पुत्रदारकुटुम्बकम्॥ १५९॥

सर्वम् एतत्परित्यज्य ग्राह्यम् एतन् मृगेक्षणे।
किम् एभिर् अस्थिरैर् देवि स्थिरम् परम् इदं धनम्।
प्राणा अपि प्रदातव्या न देयं परमामृतम्॥ १६०॥

श्री देवी उवाच।

देवदेव माहदेव परितृप्तास्मि शङ्कर।
रुद्रयामलतन्त्रस्य सारमद्यावधारितम्॥ १६१॥

सर्वशक्तिप्रभेदानां हृदयं ज्ञातमद्य च।
इत्युक्त्वानन्दिता देवि कण्ठे लग्ना शिवस्य तु॥ १६२॥

No comments:

Post a Comment