Wednesday 12 March 2014

हठयोगगोरक्षशतक

                                                                                                                       ॐ हठयोगगोरक्षशतकप्रारम्भः। | श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम् । यस्य सन्निध्यमात्रेण चिदानन्दायते तनुः ॥ १ ॥                                                                                                                       अन्तर्निश्चलितात्मदीपकलिका स्वाधारबन्धादिभिः यो योगी युगकल्पकालकलनातत्त्वं च जेगीयते।           ज्ञानामोदमहोदधिः समभवद् यत्रादिनाथः स्वयं व्यक्ताव्यक्तगुणाधिकं तमनिशं श्रीमीननाथं भजे ॥ २ ॥          नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानमुत्तमम् । अभीष्टं योगिनां ब्रूते परमानन्दकारकम् ॥ ३ ॥                        गोरक्षः शतकं वक्ति योगिनां हितकाम्यया । ध्रुवं यस्यावबोधेन जायते परमं पदम् ॥ ४ ॥                        एतद् विमुक्तिसोपानमेतत् कालस्य वञ्चनम् । यद् व्यावृत्तं मनो मोहाद् आसक्तं परमात्मनि ॥ ५ ॥   द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम् । शमनं भवतापस्य योगं भजति सज्जनः ॥ ६ ॥                                 आसनं प्राणसंरोधः प्रत्याहारश्च धारणा । ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट् ॥ ७ ॥                   आसनानि तु तावन्ति यावत्यो जीवजातयः । एतेषामखिलान् भेदान् विजानाति महेश्वरः ॥ ८ ॥ चतुराशीतिलक्षाणाम् एकमेकमुदाहृतम्। ततः शिवेन पीठानां षोडाशोनं शतं कृतम्॥९॥                               आसनेभ्यः समस्तेभ्यो द्वयमेव विशिष्यते । एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम् ॥ १० ॥ योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढ़ं विन्यसेन् मेढ्रे पादमथैकमेव नियतं कृत्वा समं विग्रहम् । स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन् भ्रुवोरन्तरम् एतन् मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते ॥ ११ ॥  वामोरापरि दक्षिणं हि चरणं संस्थाप्य वामं तथा दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।  अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेद् एतद्व्याधिविकारहारि यमिनां पद्मासनं प्रोच्यते ॥ १२ ॥  षट्चक्रं षोडशाधारं त्रिलक्षं व्योमपञ्चकम् । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ १३ ॥    एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम् । स्वदेहे ये न जानन्ति कथं सिध्यन्ति योगिनः ॥ १४ ॥           चतुर्दलं स्याद् आधारः स्वाधिष्ठानं च षट्दलम् । नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि ॥ १५ ॥                कङ्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा । सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे ॥ १६ ॥                           आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम् । योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते ॥ १७ ॥   आधाराख्यं गुदस्थानं पङ्कजं च चतुर्दलम् । तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता ॥ १८ ॥               या मूलाधारगा शक्तिः कुण्डली बिन्दुरूपिणी। मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥ इति।  तप्तचामीकराभासं तडिल्लेखेव विस्फुरत् । त्रिकोणं तत्पुरं वह्नेरधोमेढ्रात् प्रतिष्ठितम् ॥ २० ॥                   यत्समाधौ परं ज्योतिरनन्तं विश्वतो मुखम् । तस्मिन्दृष्टे महायोगे यातायातं न विद्यते ॥ २१॥              स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः । स्वाधिष्ठानात् पदादस्मात् मेढ्रमेवाभिधीयते ॥ २२॥                तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्णया । तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम् ॥ २३ ॥ . द्वादशारेमहाचक्रे पुण्यपापविवर्जिते । तावज्जीवो भ्रमत्येव यावत्तत्त्वं न विन्दति ॥ २४ ॥                     ऊर्ध्वं मेढ्रादधोनाभेः कन्दयोनिः खगाण्डवत् । तत्रनाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ॥ २५ ॥                  तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः । प्रधानं प्राणवाहिन्यो भूयस्तासु दशस्मृताः ॥ २६ ॥                         इडा च पिङ्गला चैव सुषुम्णा च तृतीयका । गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी ॥ २७ ॥             अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता । एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभी सदा ॥ २८ ॥                     इडा वामे स्थिता भागे पिङ्गला दक्षिणे तथा । सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि ॥ २९ ॥                      दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे । यशस्विनी वामकर्णे ह्यानने चाप्यलम्बुषा ॥ ३० ॥                    कुहूश्च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी । एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडिकाः ॥ ३१ ॥  . इडापिङ्गलासुषुम्णा च तिस्रो नाड्य उदाहृताः । सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः ॥ ३२ ॥                प्राणोऽपानः समानश्चोदानव्यानौ च वायवः । नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः ॥ ३३ ॥                 हृदि प्राणो वसेन्नित्यं अपानो गुदमण्डले । समानो नाभिदेशे स्याद् उदानः कण्ठमध्यगः ॥ ३४ ॥                       व्यानो व्यापी शरीरेतु प्रधानम् पञ्च वायवः । प्राणाद्याश्चात्र विख्याता नागाद्याः पञ्चवायवः ॥ ३५ ॥   उद्गारे नागाख्यातः कूर्म उन्मीलने स्मृतः। कृकरः क्षुतकृज् ज्ञेयो देवदत्तो विजृम्भणे॥ ३६॥                         न जहाति मृतं चापि सर्वव्यापि धनञ्जयः । एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः ॥ ३७ ॥                    आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः। प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति॥ ३८॥  प्राणापानवशो जीवो ह्य धश्चोर्ध्वं च धावति । वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते ॥ ३९ ॥           रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः । गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते ॥ ४० ॥               अपानः कर्षति प्राणः प्राणोऽपानं च कर्षति । ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित् ॥ ४१ ॥             हकारेण बहिर्याति सकारेण विशेत् पुनः । हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा ॥ ४२ ॥                        षट्शतानित्वहो रात्रे सहस्राण्येकविंशतिः । एतत्सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा ॥ ४३ ॥              अजपा नाम गायत्री योगिनां मोक्षदायिनी । अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते ॥ ४४ ॥               अनया सदृशी विद्या अनया सदृशो जपः । अनया सदृशं ज्ञानं न भूतं न भविषायति ॥ ४५ ॥                    कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी । प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित् ॥ ४६ ॥  कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृति । ब्रह्मद्वारमुखं नित्यं मुखेनाच्चाद्य तिष्ठति ॥ ४७ ॥         येन द्वारेण गन्तव्यं ब्रह्मस्थानमनामयम् । मुखेनाच्चाद्य तद्द्वारं प्रसुप्ता परमेश्वरी ॥ ४८ ॥                  प्रबुद्धा वह्नियोगेन मनसा मारुता हता । सूचीवद् गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया ॥ ४९ ॥                    प्रस्फुरद् भुजगाकारा पद्मतन्तुनिभा शुभा । प्रबुद्धा वह्नियोगेन व्रजत्यूर्ध्वं सुषुम्णया ॥ ५० ॥                उद्धटयेत् कवाटं तु यथा कुञ्चिकया हठात् । कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत् ॥ ५१ ॥                   कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च तत्प्रेक्षितम् । वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रबोधान्नरः ॥ ५२ ॥               अङ्गानां मर्दनं कुर्याच्छ्रमजातेन वारिणा । कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत् ॥ ५३॥              ब्रह्मचारी मिताहारी त्यागी योगपरायणः । अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा ॥ ५४ ॥                    सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम् । भुज्यते सुरसम्प्रीत्यै मिताहारः स उच्यते ॥ ५५ ॥                       कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुण्डलाकृतिः । बन्धनाय च मूढानां योगिनां मोक्षदा स्मृता ॥ ५६ ॥              महामुद्रां नमोमुद्रां उड्डियानं जलन्धरम् । मूलबन्धं च यो वेत्ति स योगी मुक्तिभाजनम् ॥५७॥                    शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः । रसानां शोषणं चैव महामुद्राभिधीयते ॥ ५८ ॥                   वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा हस्ताभ्यामवधारयेत् प्रसरितं पादं तथा दक्षिणम् । आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनैरेचयेद् एषा व्याधिविनाशिनी सुमहती मुद्रा नृणां कथ्यते ॥ ५९ ॥           चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत् पुनः । यावत्तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत् ॥ ६० ॥         नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः। अपि भुक्तं विषं घोरं पीयूषमिव जीर्यते॥ ६१॥                   क्षयकुष्ठ गुदावर्त गुल्मा जीर्णपुरोगमाः । रोगास्तस्य क्षयं यान्ति महामुद्रां च योऽभ्यसेत् ॥ ६२ ॥                कथितेयं महामुद्रा सर्वसिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्य कस्यचित् ॥ ६३ ॥                  कपालकुहरे जिह्वा प्रविष्टा विपरीतगा। भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी॥ ६४॥                                   न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा । न च मूर्च्चा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् ॥ ६५ ॥                    पीड्यते न स रोगेण लिप्यते न च कर्मणा । बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् ॥ ६६ ॥               चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैव खेचरी मुद्रा सर्वसिद्धैर्नमस्कृता ॥ ६७ ॥                 बिन्दुमूलं शरीरं तु शिरास्तत्र प्रतिष्ठिताः । भावयन्ति शरीरं या आपादतलमस्तकम् ॥ ६८ ॥ .                   खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः । न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च ॥ ६९ ॥                यावद् बिन्दुः स्थितो देहे तावन्मृत्युभयं कुतः । यावद् बद्धा नभोमुद्रा तावद् बिन्दुर्न गच्चति ॥ ७० ॥     चलितोऽपि यदा बिन्दुः सम्प्राप्तश्च हुताशनम् । व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया ॥ ७१ ॥              स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा । पाण्डुरं शुक्रमित्याहुर्लोहितं तु महाराजः ॥ ७२ ॥ . सिन्दूरद्रवसंकाशं रविस्थाने स्थितं रजः। शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम्॥ ७३ ॥.                 बिन्दुः शिवो रजः शक्तिर्बिन्दुमिन्दू रजो रविः । उभयोः सङ्गमादेव प्राप्यते परमं पदम् ॥ ७४ ॥                       वायुना शक्तिचारेण प्रेरितं तु महारजः । बिन्दुनैति सहैकत्वं भवेद् दिव्यं वपुस्तदा ॥ ७५ ॥                             शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम् । तयोः समरसैकत्वं यो जानाति स योगवित् ॥ ७६ ॥                 उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः । उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते ॥ ७७ ॥                 उदरात्पश्चिमे भागे ह्यधो नाभेर्निगद्यते। उड्डीयनस्य बन्धोऽयं तत्र बन्धो विधीयते॥ ७८॥                  कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् । बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ॥ ७० ॥.              बध्नाति हि सिराजालमधोगामिशिरोजलम् । ततो जालन्धरो बन्धः कण्ठदुःखौघनाशनः ॥ ७९ ॥ जालन्धरे कृते बन्धे कण्ठसङ्कोचलक्षणे । पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति ॥ ८० ॥ पार्ष्णिभागेन सम्पीड्य योनिमाकुष्चयेद् गुदम् । अपानमूर्ध्वमाकृष्य मूलबन्धोऽभिधीयते ॥ ८१ ॥अपानप्राणयोरैक्यात् क्षयो मूत्रपुरीषयोः । युवा भवतिवृद्धोऽपि सततं मूलबन्धनात् ॥ ८२ ॥ पद्मासनं समारुह्य समकायशिरोधरः । नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम् ॥ ८३ ॥ भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्नि देवताः । यस्या मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति ॥ ८४ ॥त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वराः । त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८५ ॥ क्रिया चेच्छा तथा ज्ञाना ब्राह्मी रौद्री च वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८६ ॥आकाराश्च तथोकारोमकारो बिन्दुसंज्ञकः । तिस्रो मात्राः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ८७ ॥ ā. वचसा तज्जयेद् बीजं वपुषा तत्समभ्यसेत् । मनसा तत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति ॥ ८८ ॥ शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा । न स लिप्यते पापेन पद्मपत्रमिवाम्भसा ॥ ८९ ॥चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत् । योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् ॥ ९० ॥   यावद् वायुः स्थितो देहे तावज्जीवो न मुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥ ९१ ॥ यावद् बद्धो मरुद् देहे यावच्चित्तं निराकुलम् । यावद् दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः ॥ ९२ ॥ अतः कालभयाद् ब्रह्मा प्राणायामपरायणः । योगिनो मुनयश्चैव ततो वायुं निरोधयेत् ॥ ९३ ॥    षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः । वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते ॥ ९४ ॥   शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम्। तदैव जायते योगी प्राणसङ्ग्रहणे क्षमः॥ ९५॥  बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा यथाशक्ति भूयः सूर्येण रेचयेत् ॥ ९६ ॥   अमृतं दधिसंकाशं गोक्षीररजतोपमम् । ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत् ॥ ९७ ॥. दक्षिणेन श्वासमाकृष्य पूरयेत् उदरं शनैः। कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत्॥ ९८॥ प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम् । ध्यात्वा नाभिस्थितं योगी प्राणायामी सुखी भवेत् ॥ ९९ ॥  प्राणं चोदिडया पिबेत् परिमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया। सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतः शुद्धा नाडिगणा भवन्ति यमिनो मासत्रयादूर्ध्वतः॥ १००॥ . यथेष्ठं धारणं वायोरनलस्य प्रदीपनम्। नादाभिव्यक्तिरारोग्यं जायते नाडिशोधनात्॥ १०१॥   इति गोरक्षशतकं सम्पूर्णम्।


No comments:

Post a Comment