Wednesday 12 March 2014

॥ विवेक मार्तण्ड॥

श्री गुरुं परमानन्दं वन्दे स्वानन्द विग्रहम्।
यस्य संनिध्य मात्रेण चिदानन्दायते तनुः॥१॥
अन्तर् निश्चलितात्म दीप कलिका स्वाधार बन्धादिभिः
यो योगी युग कल्प काल कलनात् त्वं जजेगीयते।
ज्ञानामोद महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त गुणाधिकं तम् अनिशं श्री मीननाथं भजे॥२॥
नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्द कारकम्॥३॥
एतद् विमुक्ति सोपानम् एतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो भोगादासक्तं परमात्मनि॥४॥
द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम्।
शमनं भव तापस्य योगं भजति सत्तमाः॥५॥
आसनं प्राणसंरोधः प्रत्याहारश्च धारणा।
ध्यानं समाधिरेतानि योगाङ्गानि भवन्ति षट्॥६॥
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं क्षमा धृतिः।
दयार्जवं मिताहारः शौचं चैव यमा दश॥ ७॥
तपः सन्तोषास्तिक्यं दानमीश्वरपूजनम्।
सिद्धान्तश्रवणं चैव ह्रीमती च जपो हुतम् ॥ ८॥
नियम अथ वक्ष्यामि योगमष्टाङ्गसंयुतम्।
सयोगं योगमित्याहुर्जीवात्मपरमात्मनोः॥ ९॥
आसनानि तु तावन्ति यावत्यो जीवजातयः।
एतेषामखिलान् भेदान् विजानाति महेश्वरः॥१०॥
चतुराशीति लक्षाणां एकम् एकम् उदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥११॥
आसनेभ्यः समस्तेभ्यो द्वयम् एव प्रशस्यते।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥१२॥
योनि स्थानकम् अङ्घ्रि मूल घटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्।
स्थाणुः संयमितेन्द्रियोचल दृशा पश्यन् भ्रुवोर् अन्तरम्
एतन् मोक्ष कवाट भेद जनकं सिद्धासनं प्रोच्यते॥१३॥
वामोरूपरि दक्षिणं हि चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद् व्याधि विकार हारि यमिनां पद्मासनं प्रोच्यते॥१४॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
तृतीयम् मणिपूराक्यं चतुर्थं स्यदनाहतम्॥१५॥
पञ्चमं तु विशुद्धाख्यमाज्ञाचक्रं तु षष्ठकम्।
सप्तमं तु महाचक्रं ब्रह्मरन्ध्रे महापथे॥१६॥
चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षड्दलम्।
नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि॥ १७॥
कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा।
सहस्रदलमाख्यातं ब्रह्मरन्ध्रे महापथे॥ १८॥
आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनिस्थानं तयोर्मध्ये कामरूपं निगद्यते॥१९॥
आधाराख्यं गुदस्थाने पङ्कजं च चतुर्दलम्।
तन्मध्ये प्रोच्यते योनिः कामाख्या सिद्धवन्दिता॥२०॥
योनि मध्ये महा लिङ्गं पश्चिमाभिमुखं स्थितम्।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥२१॥
तप्तचामीकराभासं तडिल्लेखेव विस्फुरत्।
त्रिकोणं तत्पुरंवह्नेरधो मेढ्रात्प्रतिष्ठितम्॥२२॥
यत्समाधौ परं ज्योतिरनन्तं विश्वतो मुखम्।
तस्मिन् दृष्टे महा योगे यातायातं न विद्यते॥२३॥
दृष्टिः स्थिरा यस्य विनापि दृश्या
द्वायुः स्थिरो यस्य विनापि यत्नात्।
मनः स्थिरं यस्य विनाबलम्बवात्
स एव योगी स गुरूः स सेव्यः॥ २४॥
स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः।
स्वाधिष्ठानाश्रयस्तस्मान्मेढ्रमेवाभिधीयते॥२५॥
तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया।
तन्नाभिमण्डले चक्रं प्रोच्यते मणिपूरकम्॥२६॥
द्वादशारे महाचक्रे पुण्यपापविवर्जिते।
तावज्जीवो भ्रमत्येव यावत्तत्त्वं न विन्दति॥२७॥
ऊर्ध्वं मेढ्रादधो नाभेः कन्दयोनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः॥२८॥
तेषु नाडि सहस्रेषु द्विसप्ततिरुदाहृताः।
प्रधानः प्राणवाहिन्यो भूयस्तासु दशस्मृताः॥२९॥
इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्ति जिह्वा च पूषा चैव यशस्विनी॥३०॥
अलम्बुषा कुहूश्चैवशङ्खिनी दशमी स्मृता।
एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा॥३१॥
इडा वामे स्थिता भागे  दक्षिणे पिङ्गला स्मृता।
सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि॥३२॥
दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वाम कर्णं आनने चाप्यलम्बुषा॥३३॥
कुहूश्च लिङ्ग देशे तु मूलस्थाने च शङ्खिनी।
एवं द्वारम् समश्रित्य तिष्ठन्ति दशनाडयः॥३४॥
इडा च पिङ्गला चैव सुषुम्णा प्राणसंश्रिताः।
सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः॥३५॥
प्राणोपानः समानश्चोदानो तथैव च।
नागः कूर्मोथ कृकरो देवदत्तो धनञ्जयः॥३६॥
प्राणाद्याः पञ्चविख्याता नागाद्याः पञ्च वायवः।
हृदि प्राणो वसेन्नित्यमपानो गुदमण्डले॥३७॥
समानो नाभिदेशे स्यादुदानः कण्ठदेशगः।
व्यानो व्यापी शरीरे तु प्रधानाः पञ्चवायवः॥३८॥
उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः।
कृकरः क्षुतके ज्ञेयो देवदत्तो विजृम्भणे॥३९॥
न जहाति मृतं चापि सर्वव्यापि धनञ्जयः।
एते नाडीषुसहस्रेषु वर्तन्ते जीवरूपिणः॥४०॥
आक्षिप्तो भुज दण्डेन यथोच्चलति कन्दुकः।
प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति॥४१॥
प्राणापानवशो जीवो ह्यश्चोर्ध्वं च धावति।
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते॥४२॥
रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः।
गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते॥४३॥
अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थिताव् एतौ संयोजयति योगवित्॥४४॥
हकारेण बहिर्याति सकारेण विशेत् पुनः।
हंसहंसेत्य्ं मन्त्रं जीवो जपति सर्वदा॥४५॥
षट्शतानि दिवारात्रौ सहस्राण्येक विंशतिः।
एतत्सङ्ख्यान्वितं मन्त्र जीवो जपति सर्वदा॥४६॥
अजपा नाम गायत्री योगिनां मोक्ष दायिनी।
अस्याः सङ्कल्प मात्रेण नरः पापैर्विमुच्यते॥४७॥
अनया सदृशो विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति॥४८॥
अनया सदृशं तीर्थमनया सदृशः क्रतुः।
अनया सदृशं पुण्यं न भूतं न भविष्यति॥४९॥
अनया सदृशो स्वर्गो अनया सदृशो तपः।
अनया सदृशं वेद्यम् न भूतं न भविष्यति॥५०॥
कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी।
प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित्॥५१॥
प्रस्फुरद् भुजगाकारा पद्मतन्तुनिभा शुभा।
मूढ़ानां बन्धिनि सास्ति योगिनां मोक्षदायिनो॥ ५२॥
कन्दोर्ध्वं कुण्डली शक्तिरष्टधा कुटिलाकृति।
ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति॥५३॥
येन मार्गेण गन्तव्यं ब्रह्मस्थानमनामयम्।
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी॥५४॥
प्रबुद्धा वह्नियोगेन मनसा मारुतै सहः।
सूचीव गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया॥५५॥
उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्।
कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत्॥५६॥
कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यात्वा च  तच्चेतसा।
वारं वारमपानमूर्ध्वमनिलंप्रोच्चारयेत् पूरयन्
मुञ्चन् प्राणमुपैतिबोधमतुलं शक्तिप्रबोधान्नरः॥५७॥
अङ्गानां मर्दनं कृत्वा श्रमसञ्जातवारिणा।
कट्वम्ललवणत्यागीक्षीरभोजनमादिशेत्॥५८॥
ब्रह्मचारी मिताहारी त्यागी योगपरायणः।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा॥५९॥
सुस्निग्धमधुराहारं चतुर्थांशविवर्जितम्।
भुङ्क्त् य इश्वरप्रीत्यै मिताहारि स उच्यते॥६०॥
महामुद्रां नभोमुद्रामुड्डियानं जलन्धरम्।
मूलबन्धं च यो वेत्ति स योगी सिद्धिभाजनम्॥६१॥
अपानप्राणयोरैक्ये क्षयोमूत्रपुरीषयोः।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात्॥ ६२॥
पार्ष्णिभागेनसंपीड्य योनिमाकुञ्चयेद् गुदम्।
अपानमूर्ध्वमाकृष्य मूलबन्धो निगद्यते॥ ६३॥
उड्डीनं कुरुते यस्मादविश्रान्तो महाखगः।
उड्डीयानं तदेव स्यान्मृत्युमातङ्गकेसरी॥ ६४॥
उदरात्पश्चिमे भागे ह्यधो नाभेर्निगद्यते।
उड्डीयानाह्वयो बन्धस्तत्र बन्धो विधीयते॥ ६५॥
बध्नाति हि सिरोजालं नाधो याति नभोजलम्।
ततो जालन्धरो बन्धः कण्ठे दुःखौघनाशकः॥ ६६॥
जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे।
पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति॥ ६७॥
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोरन्तर्गता दृष्टिर् मुद्रा भवति खेचरी॥ ६८॥
चित्तं चलति खे यस्माज्जिह्वा चरति खे गता।
तेनैव खेचरी मुद्रा सर्वसिद्धैर्नमस्कृता॥ ६९॥
न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ ७०॥
पीड्यते न च शिकेन लिप्यते न च कर्मणा।
बाध्यते न स केनापि यो मुद्रां वेत्ति खेचरीम्॥ ७१॥
बिन्दुमूल शरीरणां शिरास्तत्र प्रतिष्ठिताः।
भावयन्ति शरीराणि चापादतलमस्तकम्॥ ७२॥
खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च॥ ७३॥
यावद् बिन्दुः स्थितो देहे तावन्मृतोर्भयं कुतः।
यावद् बद्धा नभोमुद्रा तावद् बिन्दुर्न गच्छति॥ ७४॥
चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्।
व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया॥ ७५॥
स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा।
पाण्डुरः शुक्रमित्याहुर्लोहितां च महाराजः॥ ७६॥
सिन्दूरद्रवसङ्काशं राविस्थाने स्थितं रजः।
शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम्॥ ७७॥
बिन्दुः शिवो रजः शक्तिर्बिन्दुरिन्दू रजो रविः।
उभयोः सङ्गमादेव प्राप्यते परमं पदम्॥ ७८॥
वायुना शक्तिचारेण प्रेरितं तु यदा रजः।
याति बिन्दोः सहैकत्वं भवेद्दिव्यं वपुस्तदा॥ ७९॥
शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संगतम्।
तयोः समरसैकत्वं यो जानाति स योगवित्॥ ८०॥
शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः।
रसानाशोषणं कुर्यान्महामुद्राभिधीयते॥ ८१॥
वक्षोन्यस्तहनुः प्रोपिड्यसुचिरं योनिं च वमाङ्घ्रणा
हस्ताभामनुधारयेत्प्रसरितं पादं तथ दक्षिणम्।
आपूर्य श्वसनेन कुक्षियुगलं बध्वा शनैः रेचये
देषा व्याधिविनाशिनी च महतो मुद्रा नृणां प्रोच्यते॥ ८२॥
चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत्पुनः।
यावत्तुल्या भवेत्संख्या ततो मुद्रां विसर्जयेत्॥ ८३॥
न हि पथ्यमपथयं वा रसाः सर्वेऽपि नीरसाः।
अपि भुक्तं विषं घोरं पियूषमिवजिर्यति॥ ८४॥
क्षयकुष्ठगुदावर्तगुल्माजीर्णप्रिगमाः।
तस्य रोगाः क्षयं यान्ति महामुद्रांतु योऽभ्यसेत्॥ ८५॥
कथितेयं महामुद्रा महासिद्धिकरी नृणाम्।
गोप्नीया प्रयत्नेन न देया यस्य कस्य्चित्॥ ८६॥
पद्मासनं समारुह्य समकायशिरोधरः।
नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम्॥ ८७॥
भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः।
प्रतिष्ठिता यत्र सदा तत्परं ज्योतिरोमिति॥ ८८॥
त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वराः।
त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ८९॥
सत्त्वं रजस्तमश्चाव ब्रह्मविष्णुमहेश्वराः।
त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ९०॥
कृतिरिच्छा तथा ज्ञानां ब्राह्मी रौद्री च वैष्णवी।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ९१॥
शुचिर्वाप्यशुचिर्वापि यो जपेत् प्रणवं सदा।
 न स लिप्यति पापेन पद्मपत्रमिवाम्भसा॥ ९२॥
चले वाते चलं चित्तं निश्चले निश्चल भवेत्।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत्॥ ९३॥
यावद् बद्धो मरुद्देहे तावच्चित्तं निरामयम्।
यावद् दृष्टिर्भ्रुवोर्मध्ये तावन्मृत्युभयं कुतः॥ ९४॥
यावद् वायुः स्थितो देहे तावज्जीवो न मुच्यते।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ ९५॥
अतः कालभयाद् ब्रह्मा प्राणायामपरायणः।
योगिनो मुनयः सर्वें ततो वायुं निरोधयेत्॥ ९६॥
शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम्।
तदैव जायते योगी क्षमः प्राणनियन्त्रणे ॥ ९७॥
बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथाशक्ति पुनः सूर्येण रेचयेत्॥ ९८॥
अमृतंदधिसङ्काशं गोक्षीरधवलोपमम्।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत्॥ ९९॥
प्राणं सूर्येण चाकृष्य पुरयेदुदरं शनैः।
कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत्॥ १००॥
प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम्।
ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत्॥ १०१॥
प्राणंश्चेदिडयापिबेत्परिमितं भूयोऽन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया।
सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां
शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः॥ १०२॥
यथेष्टं धारणं वायोरनलस्य प्रदीपनम्।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधने॥ १०३॥
प्राणो देहे स्थितो वायुरपानस्य निरोधनात्।
एकश्वसनमात्रेणोद्घाटयेत् गगने गतिम्॥ १०४॥
पूरकः  कुम्भकश्चैव रेचकः प्रणवात्मकः।
प्राणायामो भवेत् त्रेधा मत्रद्वादशसंयुतः॥ १०५॥
मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ।
दोषजालमपध्नन्तौ ज्ञातव्यौ योगिभिः सदा॥ १०६॥
पूरके द्वादश प्रोक्ताः कुम्भके षोडशैव तु।
रेचके दश चोम्कराः प्राणायामः स उच्यते॥ १०७॥
अधमे द्वादश प्रोक्ता मध्यमे द्विगुणा मता।
उत्तमे त्रिगुणा ख्याताः प्राणायामस्य निर्णयः॥ १०८॥
अधमे च धनो धर्मः कम्पो भवति मधयमे।
उत्तमे स्थानमाप्नोति ततो वायुं निरोधयेत्॥ १०९॥
बद्धपद्नासनो योगी नमस्कृत्य गुरुं शिवम्।
भ्रूमध्ये दृष्टिरेकाकी प्राणायामं समभ्य्सेत्॥ ११०॥
ऊर्ध्वमाकृष्य चापानवायुं प्राणे नियुज्य च।
उर्ध्वमानीय तं शक्त्या सर्वपापैः प्रमुच्यते॥ १११॥
द्वाराणां नवकं निरुद्ध्य मरुत पीत्वा दृढं धारयेत्
नीत्वाकाशमपानवह्निसहितं शक्त्या समुद्धटितम्।
आत्मस्थानयुतस्त्वनेन विधिना विन्यस्य मूर्घ्न ध्रुवं
यावत्तिष्ठति तावदेन महतां संघेन संस्तूयते॥ ११२॥
प्राणायामो भवत्येवं पातकेन्धनपावकः।
भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा॥ ११३॥
प्राणायामे महान् धर्मों योगिनो मोक्षदयकः।
प्राणायामे दिवारात्रौ दोषजालं परित्यजेत्॥ ११४॥
आसनेन रुजो हन्ति प्राणायामेन पातकम्।
विकारं मानसं योगी प्रत्याहारेण मुण्चति॥ ११५॥
मनोधैर्यं धारणया ध्यानाच्चैतन्यमद्भुतम्।
समाधौ मोक्षमानोति त्यक्त्व कर्म शुभाशुभम्॥ ११६॥
प्राणायामद्विषटकेन प्रत्याहारः प्रकीर्तितः।
प्रत्याहारद्विषट्केन ज्ञायते धारणा शुभा॥ ११७॥
धारणा द्वादश प्रोक्तां ध्यानं धानविशारदैः।
ध्यानद्वादशकेनैव समाधिरभिधीयते॥ ११८॥
सम्बद्धासनमेढ्रमंध्रियुगलं कर्णाक्षिनासापुटा
द्वाराण्यगुलिभिर्नियम्य पवनं वक्त्रेण चापूरितम्।
ध्यात्वा वक्षसि तत्त्वपानसहितं मूर्ध्नि स्थितं धारये
देवं याति नरः शिवेन समतां योगीश्वरस्तन्मयः॥ ११९॥
पवने गगनं प्राप्ते ध्वनिरुत्पद्यते महान्।
घण्टादीनां प्रवाद्यानां तदा सिद्धिरदूरतः॥१२०॥
प्राणायामेन युक्तेन सर्वरोक्षयो भवेत्।
आयुक्ताभ्यासयोगेन सर्वरोगस्य संभवह्॥ १२१ ॥
हिक्का श्वासश्च कासक्ष शिरः कर्णाक्षिवेदनाः।
भवन्ति विविधा रोगाः पवनस्य व्यतिक्रमात्॥ १२२॥
यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः।
तथैव सेवितो वायुरन्यथा हन्ति साधकम्॥ १२३॥
युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत्।
युक्तं युक्तं च बनीयादेवं सिद्धिमाप्नुयात्॥ १२४॥
चरतां चक्षुरादीनां विषयेषु यथाक्रमम्।
यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते॥ १२५॥
यथा तृतीयकालस्थो रविः प्रत्याहरेत् प्रभाम्।
तृतौयाङ्गस्थितो योगी विकारं मानसं तथा॥ १२६॥
अङ्गमध्ये यथाङ्गन् कूर्मः संकोचयेद् ध्रुवम्।
योगी प्रत्याहरेदेवमिन्द्रियाणि तथात्मनि॥ १२७॥
अमेध्यमथवा मेध्यं यं यं पश्यति चक्षुषा।
तत्तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ १२८॥
यद्यच्छृणोति कर्णभ्यामप्रियं चाथवाप्रियम्।
तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित्॥ १२९॥
अमिष्टमथवा मिष्टं यद्यत्स्पृशति जिह्वया।
तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित्॥ १३०॥
सुगन्धमयं दुर्गन्धं यद्यज्जिध्रति नासया।
तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित्॥ १३१॥
कर्कंशं कोमलं वापि यद्यत् स्पृशति च त्वचा।
तत्तदात्मेति विज्ञाय प्रत्याहरति योगवित्॥ १३२॥
चन्द्रामृत्मयीं धारां प्रत्याहरति भास्करः।
यत्प्रत्यहरणं तस्याः प्रत्याहारः स उच्यते॥ १३३॥
एका स्त्री भुज्यते द्वाभ्यामागता चन्द्रमण्डलात्।
तृतीयोऽपि पुनस्ताभ्यां स भवेदजरामरः॥ १३४॥
नाभिदेशे वसत्येको भास्करो दहनात्मनः।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः॥ १३५॥
वर्षत्यधोमुखश्चन्द्रो ग्रस्त्यूर्ध्वमुखो रविः।
ज्ञातव्या करणं तत्र येन पीयूषमाप्यते॥ १३६॥
ऊर्ध्वं नाभिरधस्तालु चोर्ध्वं भानुरधः शशी।
करणं विपरीताख्यं गुरुवाक्येन लभ्यते॥ १३७॥
त्रिधा बद्धो वृषो यत्र रोखिति महास्वनः।
अनाहतं तु तच्चक्रं योगिनो हृदयेविदुः॥ १३८॥
अनाहतमतिक्रम्य चाक्रम्य मणिपूरकम्।
प्राप्ते प्राणे महापद्मं योगीतमृतायते॥ १३९॥
ऊर्धवं षोडशपत्रपद्मगलितं प्राणाद्वाप्तं हठा
दूर्ध्वस्यो रसनां नियम्य विवरे शान्ति परां चिन्तयन्।
उत्कल्लोलकलाजलं सुविमलं जिह्वाकुलम् यः पिबे
न्निर्दोषः स मृणालकोपुर्योगी चिरं जीवति॥ १४०॥
काकचञ्चुवदास्येन शीतलं सलिलं पिबेत्।
प्राणापानविधानेन योगी भवति निर्जरः॥ १४१॥
रसनातालुयोगेन योऽमृतं सततं पिबेत्।
अब्दार्द्धेन भवेत्तस्य सर्वरोगपरिक्षयः॥ १४२॥
विशुद्धे परमे चक्रे धृत्वा सोमकलाजलम्।
उन्मार्गेण कृतं याति वञ्चयित्वा खेर्मुखं ॥ १४३॥
वि शब्देन स्मृतो हंसो निर्मलं शुद्धमुच्यते।
अतः कण्ठे विशुद्धाख्ये चक्रं चक्रविदो विदुः॥ १४४॥
अमृतं कन्दरे कृत्वा नासान्तसुषिरे क्रमात्।
स्वयमुच्चालितं याति वर्जयित्वा खेर्मुखं ॥ १४५॥
बद्धं सोमकलाजलं सुविमलं कण्ठस्थलादूर्ध्वतो
नासान्ते सुषिरे याति गगनद्वारं ततः सर्वतः।
ऊर्ध्वास्यो भुवि सन्निपत्य नितरामुत्तानगात्रः पिब
त्येवं यो विबुद्धो जितेन्द्रियगणो नैवास्ति तस्य क्षयः॥ १४६॥
उर्ध्वजिह्वः स्थिर भूत्वा सोमपनां करोति यः।
अब्दार्धेन न सन्देहो मृत्युं जयति योगवित्॥ १४७॥
बद्धम् मूलबिल येन तेन विघ्नो विदारितः।
अजरामरमाप्नोति यथा पञ्चमुखो हरः॥ १४८॥
संपीड्य रसनाग्रेण राजदन्तबिलं महत्।
ध्यात्वामृतमयीं देवीं षण्मासेन सुकविर्भवेत्॥ १४९॥
सर्वद्वाराणि बध्नाति यदूर्ध्वं च बिलं स्थितम्।
न मुञ्चत्यमृतं क्वापि स य्था यत्र धारणात्॥ १५०॥
चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी
स्वीकारादुदकस्य दुग्धसदृशो मिष्टाज्यतुल्यस्य च।
व्याधीनां जरणं जरापहरणं शास्त्रागमोदगीरणं
तस्य स्यादमरत्वमष्टगुणितं दिव्यांगनाकर्षणम्॥ १५१॥
अणिमा महिमा चैव गरिमा लघिमा तथा।
ईशित्व च वशित्वं च प्राप्तिः प्राकाम्यमेवा च॥ १५२॥
अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरैः।
ऊर्ध्वं प्रवर्तते रेतो ह्यणिमादि गुणोदयम्॥ १५३॥
नित्यं सोमकलपूर्णं शरीरं यस्य योगिनः।
तक्षकेणापि सदष्टं त विषं न च पीडयेत्॥ १५४॥
ईन्धनानि यथा वह्निस्तैलवर्तिं च दीपकः।
तथा सोमकलापूर्णं देहं देही न मुञ्चति॥ १५५॥
आसनेन समायुक्तः प्राणायामेन संयुतः।
प्रत्याहारेण सम्पन्नो धारणां च समभ्यसेत्॥ १५६॥
हृदये पञ्चभूतानां धारणा च पृथक् पृथक्।
मनसो निश्चलत्वेन धारणा साभिधीयते॥ १५७॥
य पृथ्वी हरितालहेमरुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणा हृदि स्थायिनी।
प्राणां तत्र विलीय पञ्चघटिकाश्चित्तान्वितात् धारये
देषा स्तम्भकरी सदाक्षितिजयं कुर्यद् भुवो धारणा॥ १५८॥
आर्द्धेन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितं
तत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना।
प्राण तत्र विलीय पञ्चघटिकाष्चित्तानिवितं धारये
देषा दुःसहकालकूटदहनी स्याद्वारुणी धारणा॥ १५९॥
यत्तालुस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणं ज्वलम्
तेजोरेफ़युक्तं प्रवालरुचिरं रुद्रेण यत्सङ्गतम्।
प्राणं तत्र विलीय पञ्चघटिकाश्चित्तान्वितं धारये
देषा वह्निजयं सदाविदधती वैश्वानरी धारणा॥ १६०॥
यद् भिन्नाञ्जनपुञ्जसन्निभमिदं वृतं भ्रुवोरन्तरे
तत्त्वं वायुमयं यकारसहितं तत्रेश्वरो देवता।
प्राणं तत्रविलीय पञ्चघटिकं चित्तान्वितं धारये
देषा रवे गमनं करोति यमिनां वै वायवी धारणा॥ १६१॥
आकाशं सुविशुद्धवारिसदृशं यद् ब्रह्मरन्ध्रे स्थितं
यन्नाथेन सदाशिवेन सहितं शान्तं हकाराक्षरम्।
प्राणं तत्र विलीया पञ्चघटीकं चित्तन्वितं धारये
देषा मोक्षकपाटपाटनपतुः प्रोक्ता नभोधारणा॥ १६२॥
स्तम्भिनी द्राविणी चैव दाहिनी भ्रामिणी तथा।
शोषिणी च भवात्येषा भूतानां पञ्च धारणाः॥ १६३॥
कर्मणा मनसा वाचा धारणाः पञ्च दुर्लभाः।
विज्ञान सततं योगी सर्वदुःखैः प्रमुच्यते॥ १६४॥
सर्वं चिन्तासमावर्ति योगिनो हृदि वर्तते।
या तत्वे निश्चला चिन्ता तद्धि ध्यानं प्रचक्षते॥ १६५॥
द्विधा भवति तद् ध्यानं सगुणं निर्गुणं तथा।
सगुणं वर्णंभेदेन निर्गुणं केवल विदुः॥ १६६॥
अश्वमेध्सहस्राणि वाजपेयशतानि च।
एकस्य ध्यानयोगस्य कलां नार्हन्ति षोडशीम्॥ १६७॥
आधारे प्रथमे चक्रे स्वर्णाभे च चतुरङ्गुले।
नासाग्रदृष्टिरात्मानां ध्यात्वा योगी सुखी भवेत्॥ १६८॥
स्वाधिष्ठाने शुभे चक्रे सन्माणिक्यसमप्रभे।
नासाग्रदृष्टिरात्मानं ध्यात्वा ब्रह्मसमो भवेत्॥ १६९॥
तरुणादित्यसंकाशे चक्रे तु मणिपूरके।
नासाग्रदृष्टिरात्मानं ध्यात्वा संक्षोभयेज्जगत्॥ १७०॥
अनाहते महाचक्र द्वादशारे च पन्कजे।
नासाग्रे दृष्टिमाधाय ध्यात्वा ध्यातामरो भवेत्॥ १७१॥
सततं घणिटकामध्ये विशुद्धे दीपकप्रभे।
नासाग्रदृष्टिरात्मानं ध्यात्वा दुःखं विमुञ्चति॥ १७२॥
स्रवत्पीयूषसम्पूर्णे लम्बिकाचन्द्रमण्ङ्दले।
नासाग्रदृष्टिरात्मानं ध्यात्वा मृत्युं विमुञ्चति॥ १७३॥
ध्यायन्नीलनिभं नित्यं भूरमध्ये परमेश्वरम्।
आत्मानं विजितप्राणो योगी योगमवाप्नुयात्॥ १७४॥
ब्रह्मरन्ध्रे महाचक्रे सहस्रारे च पन्कजे।
नासाग्रदृष्टिरात्मानं ध्यात्वा सिद्धो भवेत्स्वयम्॥ १७५॥
निर्मलं गगनाकारं मरीचिजलसन्निभम्।
आत्मानं सर्वगंध्यात्वा योगी मुक्तिमवाप्नुयात्॥ १७६॥
गुदं मेढ्रश्च नाभिश्च हृदयं कण्ठ  ऊर्ध्वगः।
घण्टिका लंबिकास्थानं भ्रूमध्यं च नभोबिलम्॥ १७७॥
कथितानि नवैतानि ध्यानस्थानानि योगिनाम्।
उपाधितत्वमुक्तानां कुर्वन्त्यष्टगुणोदयम्॥ १७८॥
उपाधिश्च तथा तत्त्वं द्वयमेतदुदाहृतम्।
उपाधिः प्रोच्यते वर्णस्तत्वमात्माभिधीयते॥ १७९॥
उपाधेरन्यथा ज्ञान तत्वसंस्थितिरन्यथा।
अन्यथ वर्णयोगेन दृश्यते स्फटिकपमम्॥ १८०॥
समस्तोपधिविध्वंसात्सदाभ्यासेन योगिनः।
मुक्तिकृच्छक्तिभेदेन स्वयमात्मा प्रकाशते॥ १८१॥
विरजाः परमाकशादात्माकाशो महत्तरः।
सर्वंदेत्थ भावनया तत्वं योगिजना विदुः॥ १८२॥
एतद् ब्रह्मात्मकं तेजः शिवं ज्योतिरनुत्तमम्॥
ध्वात्वा ज्ञात्वा विमुक्तः स्यादिति गोरक्षभाषितम्॥ १८३॥
शब्दादीनां च तन्मात्रा यावत्कर्णादिषु स्थिताः।
तावदेव स्मृतं ध्यानं समाधिः प्राणसंयमात्॥ १८४॥
धारण पञ्चनाडीभिर्ध्यानं स्यत् षष्टिनाडीभिः।
दिनद्वादशकेनैव समाधिः प्राणसंयमात्॥ १८५॥
यत्समत्वं द्वयोरत्र जीवात्मपरमात्मनोः
समस्तनष्टसंकल्पः समाधि सोऽभिधीयते॥ १८६॥
अंबुसैंधवयोरैक्यं यथा भवति योगतः।
तथात्ममनसोरैक्यं समाधिरभिधीयते॥ १८७॥
यदा संलीयते जीवो मानसं च विलीयते।
तदा समरसत्वं हि समाधिरभिधीयते॥ १८८॥
इन्द्रियेषु मनोवृत्तिरपरा प्रक्रिया हि सा।
ऊर्ध्वमेव गते जीवे न मनो नेन्द्रियाणि च १८९॥
नाभिजानाति शीतोष्ण न दुःखं न सुखं तथा।
न मानं नापमानं च योगी युक्तः समाधिना॥ १९०॥
न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम्।
नात्मानं न परं वेत्ति योगी युक्तः समधिना॥ १९१॥
अभेद्यः सर्वशस्त्राणाग्वध्यः सर्वदेहिनाम्।
अग्राह्यो मंत्रयंत्राणां योगी युक्तः समाधिना॥ १९२॥
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुखहा॥ १९३॥
निराद्यन्तं निरालम्बं निष्प्रपञ्चं निराश्रयम्।
निरामयं निराकारमचलं निर्गुणं महत्॥ १९४॥
हेतुदृष्टान्तनिर्मुक्तः मनोबुद्ध्याद्यगोचरम्।
योगविज्ञानमानन्दं ब्रह्म ब्रह्मविदो विदुः॥ १९५॥
निरालम्बे निराधारे निराकारे निरामये।
योगी योगविधानेन परब्रह्मणि लीयते॥ १९६॥
यथा घृते घृतं क्षिप्तं घृतमेव हि जायते।
क्षीरे क्षीरं तथा योगी तत्त्वमेव हि जायते॥  १९७॥
दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः।
तन्मयत्वं व्रजत्येवं योगी लीनः परे पदे॥ १९८॥
भवभयदवमुक्तिं नाकसोपानमार्गं
प्रकटितपरमार्थं ग्रन्थमेनं सुगुह्यम्।
सकृदपि पठतीत्थं यः प्रशस्तप्रबोधं
स भवति भुवि मान्यो भाजनं मोक्षलक्षम्याः॥ १९९॥
नृणां भवभयहरं  मुक्तिसोपानलक्षणम्।
गुह्याद् गुह्यतरं चेदं गोरक्षेण प्रकाशितम्॥ २००॥
इति गोरक्षसनाथोक्तं योगशास्त्रं जनः पठेत्।
सर्वपापविनिर्मुक्तो योगी सिद्धो भवेद् ध्रुवम्॥ २०१॥
योगशास्त्रं पठेन्नित्यं किमान्यैः शास्त्रविस्तरैः।
यत्स्वयं चादिनाथस्य निर्गतं वदनाम्बुजात्॥ २०२॥
स्नातं तेन समस्ततीर्थसलिले दत्तां महीमण्डलम्
यज्ञानां च कृतं सहस्रमयुतं देवाश्च सम्पूजिताः।
सत्यं तेन सुतर्पिताश्च पितरः स्वर्गं च नीताः पुन
यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोतिधैर्यं मनः॥ २०३॥
॥ इति श्रीमत्सिद्धवर्य श्रीगोरक्षनाथ विरचित विवेक मार्तण्डाभिधानं योगशास्त्रं सम्पूर्णम्॥

No comments:

Post a Comment