Wednesday 12 March 2014

॥ योगसारसंग्रहः॥

कुण्डलिनीस्वरूपमाह -
अथ योगसारसंग्रहे कुण्डलिनी स्वरूपक्रियानिरूपणं नाम
चतुर्दशोध्यायः
पिण्डाण्डान्तर चक्रमध्य सुषिराक्रान्ताब्ज तन्तूपमा
विद्युद्व्यक्तलतेव भाति तनुभृत् गर्भान्तरालैः सदा।
मूलाधारगता त्रिमूर्ति जननी सर्वापर ब्रह्मणः
शक्तिः कुण्डलिनी त्रिलोक जननी वान्तामृतास्वादिनी॥
कुण्डली सुफणी नागी चक्रीषप्ती सरस्वती।
ललनारसनाक्षेत्रा ललाटा शक्तिचालिनी॥
राजीभुजंगी शेषा च कुजाह्वा सर्पिणी फणी।
आधारशक्तिः कुटिला करलाप्राण वाहिनी॥
अष्टवक्रा षडाधारा व्यापिनी कलनाधरा॥
चिद्रूपा कुञ्चिका बाला दुर्विज्ञेया सुरासुरैः।
दिक्कालाद्यनवच्छिन्ना सर्ववेदार्थगा शुभा॥
परापराविभागेन परशक्तिरियं स्मृता।
योगिनां हृदयां भोजे नृत्यन्ती नृत्तलालसा॥
आधारसर्वभूतानां स्फुरन्ती विद्युदाकृतिः।
शंखावर्तक्रमाद्देवि सर्वमन्त्रमयी शुभा॥
सर्वतत्वमयी साक्षात् सूक्ष्मात् सूक्ष्ममयी विभुः।
त्रियामा जननी देवी शब्दब्रह्मस्वरूपिणी॥
चतुर्विंशत् सदर्णात्मा पञ्चाशद्वर्णरूपिणी।
गुणितासर्वगात्रेषु कुण्डली परदेवता॥
विश्वानना प्रबुद्धात्मा सूत्रे मणिमिमं जंगम्।
एकधा गुणिताशक्तिस्सर्वविश्वप्रवर्तका॥
सर्वमन्त्रप्रसूस्तच्छ्रीः सर्वतन्त्रस्वरूपिणी।
इच्छाज्ञानक्रियात्मास्य तेजोरूपा गुणात्मिका॥
पञ्चाशद्वारगुणिता पञ्चाशद्वर्णमालिका।
अग्नीषोमात्मिका शुद्धा सोमसूर्याग्नि रूपिणी॥
इति। कुण्डली नामानि।
अथ तत्संप्रवक्ष्यामि कुण्डल्युत्थापन क्रमम्।
दुर्लभं सर्वदुष्टानां साध्यानं स जपक्रमम्॥
वामकेश्वर महातन्त्रे -
भुजंगाकाररूपेण मूलाधारं समाश्रिता।
शक्तिः कुण्डलिनी प्रोक्ता विसतन्तु निभाशुभा॥
मूलकन्दं फणाग्रेण दष्ट्वा कमलवन्दवत्।
मुखेन पुच्छं संगृह्य ब्रह्मरंध्रसमन्विता॥
योगयाज्ञवल्क्ये -
द्वादशारयुतं चक्रं नाभिदेशे प्रतिष्ठितम्।
तस्योर्ध्वे कुण्डली स्थानं नाभेस्तिर्यगधोर्ध्वगम्॥
अष्टप्रकृतिरूपासा त्वष्टधा कुण्डली कृता।
यथावद्वायुसंचारं ज्वलनादीनि नित्यशः॥
परितः कन्दपार्श्वेषु निरुध्येनं सदा स्थिता।
मुखेनैव समावेष्ट्य ब्रह्मरन्ध्रमुखं तथा॥
योगकाले त्वपानेन प्रबोधं या जलाग्निना।
स्वनन्ती हृदयाकाशे नागरूपा महोज्ज्वला॥
वायुर्वायुसखे नैव ततो याति सुषुम्नया॥
प्रणवचिन्तामणौ -
तत्रानलं वायुसखेन सार्धं धिया समारोप्य निरोधयेत् ततः।
ध्यायन् सदा चक्रणमप्रबुद्धं नाभौ सदा कुण्डलिनं निविष्टम्॥
नालं समावेष्ट्यमुखेन मध्यामन्यांश्च भोगेन सिरास्तथैव।
स्वपुच्छमास्येन निगृह्य सम्यक् पदं च संयम्यमरुद्गणानाम्॥
प्रबुद्ध नागेन्द्रवदुच्छ्वसन्ती सदाप्रबुद्धा प्रभया ज्वलन्ती।
नाभौ सदा तिष्ठति कुण्डली सा तिर्यग़्मनुष्येषु तथेतरेषु॥
उत्पत्ति नाश स्थिति हेतु भूतमाधारपद्मासन रन्ध्रपूर्णम्।
योगेष्टसिद्धिप्रदमादिमूलं जानीहितं कुण्डलिनं निविष्टम्॥
वायुना विवृतवह्नि शिखाभिः कन्दमध्यगतनाडिषु संस्थात्।
कुण्डलीं दहति यत्स्वभिरूपं संस्मरन्नपरवस्तु न एव॥
सन्तप्त वायुना तत्र वह्निना च प्रतापिता।
प्रसार्य फणभृद्भोगी प्रबोधं याति सत्वरा॥
बोधंगते चक्रिणि नाभिमध्ये प्राणान् सुसंभूय कलेबरेस्मिन्।
चरन्ति सर्वे सह वह्नि नैव यथा पटेतन्तु गतिस्तथैव॥
जित्वैवं चक्रिणी स्थानं तथाध्यानपरायणः।
ततो नयेदपानन्तु नाभेरूर्ध्वमनुस्मरन्॥
योगसारमञ्जर्याम् -
वायुयदावायुसखेन सार्धं नाभिं त्वतिक्रम्यगतः शरीरम्।
रोगाश्च नश्यन्ति बलाभिवृद्धिः कान्तिस्तदानीं भवन्ति प्रबुद्धा॥
ब्रह्मरन्ध्रमुखं मन्त्रवायवः पावकेन सहयान्ति समूह्याः।
केन चित्विह वदामि तवाहं वीक्षितं हृदि च दीपशिवावत्॥
निरोधितः स्याद्धृदि तेन वायुनामध्ये तदा वायुसखेन सार्धम्।
सहस्रपद्मस्य मुखं प्रविश्य कुर्यात्पुनस्त्वूर्ध्वमुखं द्विजेन्द्रे॥
प्रबुद्ध हृदयाम्भोजे गौर्यस्मिन् ब्रह्मणः पुरे।
बालात् श्रेणिवद्व्योम्नि विरराजसमीरणः॥
आहुर्मध्ये सुषुम्नायाः संस्थितो हुतभुक्तदा।
स जलाम्बुदमालासु विद्युल्लेखे वराजते॥
निरुध्यनाडी द्वितयं सोमसूर्यात्मकं प्रिये।
संप्राप्यकुम्भकावस्थां स्थिरचेता दृढासनः॥
संरुध्य च मनः स्वान्ते मूलाधारधराधरे।
हृत्कोणपुरमध्यस्थ वाहिसूर्येन्दुमण्डले॥
सुषुप्तभुजगाकारं सर्वमन्त्रमयीं पराम्।
इलापिग़्गलयो ग्रन्थि भेदत्रयविभेदिनीम्॥
षडम्बुजदरीमार्ग कवाटोद्घाटनक्षमाम्।
शनैरुन्नीयतां मूलादाज्ञायां सन्निवेशयेत्।
ततो रसनया भित्वा शिव द्वारार्गलं महत्॥
ब्रह्मरंध्रे दृगाधाय स्थिरं कृत्वा मनो हृदि।
तत्रापि मण्डलं देवी शृंगाटं सुमहोज्ज्वलम्॥
त्रिकोणं तु विजानीयात् वह्निसूर्येन्दुगर्भकम्।
तत्रेन्दु मण्डले देवी परमात्मा सदाशिवः॥
यावन्नशक्त्या संयोगं प्राप्नोति परमेश्वरः।
तावद् भ्रमयते विश्वं यन्त्रारूढं तु मायया॥
शिवः -
मूलाधारात् समुद्यन्ती शक्तिः कुण्डलिनी परा।
स्वमन्त्रोच्चारणा देव सम्यगूर्ध्वमुखी तदा॥
षड्ढुंकार स्वरोद्भिन्न षडंभुजकवाटिका।
भित्वा ब्रह्मार्गलं दिव्यं स्वपते स्थानमेयुषी।
वह्न्यर्कमण्डलं भित्वा द्रवन्ति चन्द्रमण्डलम्॥
तदुद्भवामृता स्वादा परमानन्दनन्दिनी॥
कुलयोषित् कुलंत्यक्त्वा परंपुरुषमेयुषी।
निर्लक्ष्यं निर्गुणं चैव कुलरूपविवर्जितम्॥
तत्र स्वच्छन्दरूपा तु परिरभ्य स्वकंपतिम्।
विश्राम्य च चिरं कालं तद्भोगाह्लाद नन्दिता॥
परमावृष्टिभिर्नित्यं सिञ्चन्ती योगिनस्तनुम्।
यथा गतेनमार्गेण पुनरेति स्वकं पतिम्॥
अनेन देवि योगेन मासाद्योगीश्वरो भवेत्।
षण्मासादणिमादीनां सिद्धीनामधिपो भवेत्॥
वत्सरात् पिबते नित्यं समुद्रमपि लीलया।
अर्कानिल नलादीनां जलानां स्तम्भनं क्रमात्॥
करोति लीलया योगी रुद्रशक्ति प्रभावतः।
त्र्यब्दात्सर्वज्ञको भूत्वा वलीपलितवर्जितः॥
महाबलो वज्रकायो जीवेदा चन्द्रतारकम्।
शक्तिमन्त्रमहायोगः कथितस्तवसुव्रते॥
वाञ्छाकल्पद्रुमाः सत्यं सत्यं यत्खेचरी पदे॥
श्रीशिवः -
स्थिरमासनमासीनः सकलीकृतविग्रहः।
जितश्वासो जितमताः जितकर्मा जितेन्द्रियः॥
नियोज्यघटिका यन्त्रे रसनां निश्चलात्मिकाम्।
अधस्ताच्चिन्तयेच्चक्रमाक्रान्ताधारमण्डलम्॥
तत्र मध्ये समुद्दीप्तां मूलशक्तिं विभावयेत्।
प्राणान्निरुध्योर्ध्वमुखीन्नयेद् भित्वाषडंबुजम्॥
एकीभूता हि नादाख्य चक्रभेदक्षमेण च।
तटिद्वलयसंकाशां स्फुरत्किरणरूपिणीम्॥
चिद्रूपां च निरालम्बे शून्य तेजो मये परे।
ब्रह्मद्वारस्य गर्भान्ते विसर्गाख्ये विलीयते॥
ततो रसनयोद्भिद्य प्रविशेद् ब्रह्मणः पदम्।
तस्मिन् कुलामृतं दिव्यं पीत्वाभूयो विशेत्कुलम्॥
तेन प्राशितमात्रेण परां सिद्धिमवाप्नुयात्॥ इति।
अथातः संप्रवक्ष्यामि मुद्रांखेचरिसंज्ञिकाम्॥
यथा विज्ञातया मर्त्यो लोकेस्मिन्न जरामरः।
मृत्युव्याधिजराग्रस्तं दृष्ट्वा लोकमिमं प्रिये॥
बुद्धिं दृढतरं कृत्वा खेचरीं तु समभ्यसेत्॥
प्रकटेन मयाप्रोक्तंमिदानीं खेचरीं शृणु॥
यत्रास्ते च गुरुर्देव दिव्ययोगप्रसादकः।
तत्र गत्वा च तेनोक्तां विद्यां संगृह्य खेचरीम्।
न तया रहितो योगी खेचरी सिद्धि भाग्भवेत्॥
खेचर्य खेचरीं युञ्जन् खेचरी बीज पूर्वया।
खचराधिपतिर्भूत्वा खेचरीषु सदा चरेत्।
खेचरावसथो वह्निरग्निमण्डलभूषितम्॥
व्याख्यातं खेचरी बीजं तेन योगः प्रसिध्यति।
मस्तकाख्यं महाचण्ड शिखी वह्निखवज्रभृत्॥
पूर्वबीजयुताविद्या व्याख्याता ह्यतिदुर्लभा।
षडंगविद्यां वक्ष्यामि तथाषट्स्वरभिन्नया॥
कुर्याद्देवी यथा न्यायं सर्वविद्याप्ति हेतवे।
सोमेशा नवमं वर्णं प्रतिलोमेन चोच्चरेत्॥
तस्यात्रिंशकमाख्यातमक्षरं च स रूपकम्।
तस्मादप्यष्टकं वर्णं विलोमेनावलं प्रिये॥
ततस्तत्पञ्चमं देवि तदादिरविपञ्चमम्।
इन्दोर्ह्रीं बिन्दुसंभिन्नं कूटोयं परिकीर्तितः॥
गुरूपदेशलभ्यं च सर्वरोगप्रसिद्धिदम्।
एतस्य देवजा माया विरूपकरणाश्रया॥
स्वप्नेपि न भवेत् तस्य नित्यं द्वादश जप्यकः।
यड्मरुपञ्चलक्षाणि जपेदपि सुयन्त्रितः॥
तस्य श्रीखेचरी सिद्धिः स्वयमेव प्रवर्तते॥ इति।
आदिनाथः -
एवं यस्य प्रबुद्धा सा तस्य सिद्धिर्भवेद्ध्रुवम्।
सर्वशास्तार्थ वेत्तृत्वं सौभाग्यं परमन्ततः॥
काव्यं च सर्वभाषाभिस्सालग़्कारपदोज्ज्वलम्।
करोति लीलया योगी रुद्रशक्ति प्रबोधनात्॥
अनेनैव प्रकारेण सर्वमन्त्राः स्फुरन्ति हि।
रुद्रग्रन्थिं ततो भित्वा मणिपूरे समानयेत्।
मणिपूरे यदा विष्टा शान्ति श्रीपुष्टि तुष्टयः॥
आकर्षणं परक्षोभं भवन्त्येता हि सिद्धयः।
मणीपूरात् समानाय्य स्वाधिष्ठाने प्रवेशयेत्॥
योगंगते स्वात्मनि नाभिमध्ये प्राणान् सुंसंभूय कलेवरेस्मिन्।
स चरन्ति सर्वे सह वह्निनैव यथा पटे तन्तु गतिस्तथैव॥
योगग्रन्थिं च भित्वाथ मण्डलं च भिनत्यथ।
योगसारमञ्जर्याम् -
अनाहतं तु संलीनो योगग्रन्थिविभेदनात्॥
गिरीणां पातनं चैव देवि कुर्यान्मृत्योश्च वञ्छनम्॥
प्रणवचिन्तामणौ -
यदा विशुद्धमानीतं सामृतप्राशनं तदा।
योगिनः संप्रवर्तन्ते ह्यणिमाद्यष्टसिद्धयः॥
तदूर्ध्वे लम्बिकां भित्वानासाग्रं तु समानयेत्।
नासाग्रे श्वाससंभिन्न भ्रूमध्ये सन्निवेशयेत्॥
आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा॥
योगसारमंजर्याम् -
श्वासेनसहितं जीवं तेजोरूपं ललाटके।
गत्वालक्ष्यं ललाटस्थं प्रविशेत् सूर्यसन्निभम्॥
कुञ्चिकाग्रं ततः सूक्ष्मं चिद्रूपाणि च सुस्थिरम्।
उद्घाटयेत् ततो द्वारं शिवद्वारार्गलं महत्॥
बिन्दुं द्विरर्गलं भित्वा दुर्भेद्यं त्रिदशैरपि।
ब्रह्माण्डोदरमित्युक्तं योगिनीसिद्धिसेवितम्॥
तदेतंगुलोत्सेधं कपाले संव्यवस्थितम्।
शक्तिचक्रप्रवेशेन सर्वसिद्धिर्भवेद्ध्रुवम्॥
आदिनाथः -
अपानवृत्तिमाकृष्य प्राणो गच्छतिमध्यमे।
राजते गगनां भोजे राजयोगस्तु तेन वै॥
एतत् साधनमार्गस्य लक्षणं वक्ष्यतेधुना।
प्राकाराणि शरीरस्य षडुत्तानत्वगादिभिः॥
षडब्जैष्षट्क वाटैस्तद्रक्षितं पञ्चवायुभिः।
तन्मध्ये सुषिरं सूक्ष्मं तत्र लिग़्गं शिवालयम्॥
तस्यशक्तिः स्थिताबाह्ये प्राकारद्वारमण्टपे।
तटिद्वलयसंकाशां सुप्तांपतिविलोलुपाम्॥
प्राकारपालकेनैव कवाटानां प्रभेदनम्।
कृत्वातां प्रापयेच्छम्भुं तत्क्षणाद्ब्रह्मवर्त्मना॥
पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे।
शनैः संबोधये च्छक्तिं कुण्डली मनुनैवताम्॥
पवनेनसमाकृष्य योजयेत् पतिना सह॥ इति।
शक्तिध्यानं विनायोगी शक्तिहीनः प्रजायते॥
शक्तिध्यानप्रयोगेण शक्तियुक्तो भवेद् ध्रुवम्॥
अथ मन्त्रोद्धारः -
कुण्डलीश प्लदं देवि कुण्डलीशसमन्वितम्।
कुण्डली कुण्डला बिन्दु नादमध्यस्थ लांछिताम्॥
एतच्छक्ति मयं बीजं रहस्यं सुप्रकाशितम्।
पञ्चलक्षं जपेदाशुसिद्धिर्भवति योगिनः॥
ओं कुण्डलीं कुण्डलीश कुण्डली कुण्डला ओं॥ इति॥
बिन्दुः प्रणवः। नादं दीर्घस्वरः। तदुक्तं नादबिन्दुपनिषदि
बीजाक्षरं परं बिन्दु नादं तस्योपरिस्थितम्॥ इति।
नारसिंहतापनीये -
वेदादि मूलं सकलं स्वराणां त्रयोदशस्थं शशिबिन्दुरूपम्।
वेदान्वितं सुप्तभुजंगरूपं यो वेत्ति विद्वान् स विमुक्तिमेति॥ इति।
योगिनीहृदये च -
या मूलाद्दूरगाशक्तिः स्वाधारे बिन्दुरूपिणी।
तस्यामुत्पद्यते नादः सूक्ष्मरूपो दिवाकरः॥
स्थूलसूक्ष्मभेदेन बिन्दुनाथास्त्री विधः।
तदुक्तं शिवयोगे -
स्थूलसूक्ष्मपरश्चेति त्रिविधो बिन्दुरद्रिजे।
स्थूलश्शुक्रात्मको बिन्दुः सूक्ष्मः पञ्चाग्नि रूपकः॥
सोमात्मकः परः प्रोक्तः स तु नित्यस्सदा शिवः॥
तदुक्तं शूलिनीकल्पे -
शुक्रं प्रवृत्तमिति। सूक्ष्मपञ्चाग्नि रूपकः। पञ्चमात्रः प्रणवः।
सोमात्मकः परः। षोडशमात्रायुक्तः प्रणवः॥
अनयारहितो योगी न क्वचित्फलमाप्नुयात्।
बीजेन हि विनावृक्षः कथं संजायते भुवि॥
तदेवाक्षरमध्यस्थं प्ररोहति कथं पुनः।
सर्वयोगद्रुमस्यायं बीज भूतो महामनुः॥
तदुक्तं कठवल्क्योपनिषदि -
सर्वे देवायत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीम्योमि त्येतत्॥
अतः। स्थूलसूक्ष्मभेदेन बिन्दुशब्दः प्रणवस्यैव॥
गोरक्षः। धूमोमरीचिः खद्योतः दीप ज्वालेन्दु भास्वरः।
अमीकला महाबिन्दो बिन्दुविश्वविभासकः॥ इति।
आदिनाथः -
एवं यस्य प्रबुद्धा सा तस्यसिद्धिः करस्थिता।
सर्वशास्त्रार्थ वेत्तृत्वं सौभाग्यं परमन्ततः॥
काव्यं च सर्वभाषाभिः सालंकार पदोज्ज्वलम्।
करोति लीलया योगी रुद्रशक्ति प्रबोधनात्॥
अनेनैव प्रकारेण सर्वमात्रान् स्फुरन्ति हि।
रुद्रग्रन्थिं ततो भित्वा विष्णुग्रन्थिंभिनत्यतः॥
ब्रह्मग्रन्थिं ततो भित्वा कमलानिभिनत्ति षट्।
सहस्रकमलेशक्तिश्शिवेन परिमोदते॥
मणिपूरे यदा विष्ठा शान्तिश्श्री तुष्टि पुष्टयः।
आकर्षणं परक्षोभो भवन्त्येव हि सिद्धयः॥
मणिपूरात्समानीय स्वाधिष्ठाने प्रवेशयेत्।
स्वाधिष्ठानात् समानीय चानाहत पदं नयेत्॥
योगसारमञ्जर्याम् -
अनाहते तु संलीने योगग्रन्थिविभेदनात्।
गिरीणां पातनं देवि कुर्यान्मृत्योश्च वञ्छनम्॥
यदा विशुद्धमानीतः सा मृतप्राशनं तदा।
योगिनः संप्रवर्तन्ते ह्यणिमाद्यष्टसिद्धयः॥
तदूर्ध्वं लाम्भिकां भित्वा नासाग्रं तु समानयेत्।
नासाग्रे श्वाससंभिन्नं भ्रूमध्ये संनिवेशयेत्॥
आज्ञास्थानगतो योगी सर्वं जानाति सर्वदा।
योगसारमंजर्याम् -
श्वासेन सहितं जीवं तेजोरूपं ललाटिके॥
गत्वालक्ष्यं ललाटस्थं प्रविशेत् सूर्यसन्निभम्।
कुञ्चिकाग्रं ततः सूक्ष्मं चिद्रूपाणि च सुस्थिरम्॥
उद्घाटयेत् ततो योगी द्वारं शिवद्वारार्गलं महत्।
बिन्दु द्विरर्गलं भित्वा दुर्भेद्यं त्रिदशैरपि॥
ब्रह्माण्डोदरमित्युक्तं योगिनी सिद्धि सेवितम्।
तदेतदंगुलोत्सेधं कपाले स व्यवस्थितम्॥
शक्तिचक्र प्रवेशेन सर्वसिद्धिर्भवेद्ध्रुवम्॥
आदिनाथः -
अपानवृत्तिमाकृष्य प्राणो गच्छति मध्यमे।
राजते गगनाम्भोजे राजयोगस्तु तेन वै।
एतत् साधनमार्गस्य लक्षणं वक्ष्यतेधुना॥
प्राकाराणि शरीरस्य षडुक्तानि त्वगादिभिः।
तन्मध्ये सुषिरं सूक्ष्मं तत्रलिग़्गं शिवालयम्॥
तस्य शक्ति स्थिता बाह्ये प्राकारद्वारमण्टपे।
तटिद्वलयसंकाशां सुप्तांपति विलोलुपाम्॥
प्राकारपालके नैव कवाटानां प्रभेदनम्।
हुंकारं च षडिति पूर्वमेवोक्तम्।
कृत्वातां प्रापयेच्छम्भुं तत्क्षणाद्ब्रह्मवर्त्मना॥
पूरयेन्मारुतं दिव्यं सुषुम्ना पश्चिमे मुखे।
शनैः संबोधयेच्छक्तिं कुण्डली मनुनैवताम्॥
पवनेन समाकृष्य योजयेत् पतिना सह॥ इति।
शक्तिध्यानं विनाशक्त्या हीनो योगी प्रजायते।
शक्ति ध्यानप्रयोगेण शक्तियुक्तो भवेद्ध्रुवम्॥ इति।
यदा तु योगिनो बुद्धिस्त्यक्तुं देहमिमं भवेत्।
तदा स्थिरासनो भूत्वा मूलाच्छक्तिं समुज्ज्वलाम्।
कोटि सूर्यप्रतीकाशां भावयेच्चिरमात्मवित्॥
आपादमस्तमस्तपर्यन्तं प्रसृतं जीवमात्मनः।
संहृत्य क्रमयोगेन मूलाधारात्पदं नयेत्॥
तत्र कुण्डलिनी शक्तिं संवर्तानिलसन्निभाम्।
जिह्वानलं चेन्द्रियाणि ग्रसन्तीं चिन्तयेद्धिया॥
संप्राप्य कुम्भकावस्थां तटिद्वलयभासुराम्।
मूलादुन्नीय देवेशि स्वाधिष्ठान पदं नयेत्।
तत्रस्थं जीवमखिलं ग्रसन्तं चिन्तयेच्चताम्॥
तटित्कोटिप्रतीकाशां तस्मादुन्नीयसत्वरम्।
मणिपूरपदं प्राप्य तत्र पूर्ववदाचरेत्॥
समुन्नीयपुनः स्थानात् अनाहतपदं नयेत्।
तत्रस्थित्वा क्षणं देवि पूर्ववद् ग्रथितं स्मरेत्॥
तत्रापि चिन्तयेद् देवि पूर्ववद् योगमात्मवित्।
तस्मादुन्नीयभ्रूमध्यं नीत्वा जीवं ग्रसन् स्मरेत्॥
परामृत महाम्भोधौ विश्रामं सम्यगाचरेत्।
तत्रस्थं परमं देवं शिवं परमकारणम्।
शक्त्या सहसमायोज्य तयोरैक्यं विभावयेत्॥
यदि वञ्चि तु मुद्युक्तः कालंकालविभागवित्।
यावद्वजति तं कालं तावत् तत्र सुखं वसेत्॥
ब्रह्मद्वारार्गलस्याधो देहे कालप्रयोजनम्।
यदा देव्यात्मकः कालमति क्रान्तः प्रविश्यति॥
तदा ब्रह्मार्गलं भित्वा शक्तिं मूलपदं नयेत्।
शक्ति देहान् प्रसूयन्ति स्वजीवं चेन्द्रियैः सह॥
तत्तत्कर्माणि संयोज्य स्वस्था देहे सुखं भवेत्।
अनेन देवि योगेन वञ्चयेत् कालमागतम्।
यदा मानुष्यकं देहं त्यक्तुमिच्छा प्रवर्तते॥
ततः परमसन्तुष्टः ब्रह्मस्थानगतं शिवम्।
शक्त्या संयोज्यनिर्भिद्य व्योमब्रह्मशिलं व्रजेत्॥
व्योमतत्वं महाव्योम्नि वायुतत्वमथानिले।
तेजस्तत्वं तथा तेजस्यप्तत्वं जलमण्डले॥
धरा तत्वं धराभागे निरालंबे मनः परे।
व्योमादि गुणतत्वेषु स्वेन्द्रियाणि निवेदयेत्॥
एवं सांसारिकं त्यक्त्वा परतत्वा वलं काः।
अदृष्टः परतत्वाद्यैर्भित्वा सूर्यस्यमण्डलम्॥
परतत्वे परेशानि शिवे लीनः शिवायते।
न कल्पकोटि साहस्रैः पुनरावर्तनं भवेत्॥
अनुग्रहायलोकानां यदि देहं न सन्त्यजेत्।
प्रलयान्ते तनुं त्यक्त्वा स्वात्मन्ये वाति वर्तते॥
इत्येषा खेचरीमुद्रा खेचराधिपतिर्भवेत्।
जन्ममृत्युजरारोगवलीपलितनाशिनी॥
अनया सदृशी विद्या क्वचिच्छास्त्रान्तरे न हि॥
खेचरी मेलनं देवि सुगुप्तं न प्रकाशयेत्॥ इति।
योगसारमञ्जर्याम् -
चुबुकं योजयेज्जिह्वां षोडशस्वरमण्डले।
भ्रूमध्ये चक्षुषी न्यस्य जिह्वामूर्ध्वं प्रसारयेत्॥
संप्राप्य कुम्भकावस्थामिडापिग़्गलरोधनात्।
मूलशक्तिं समाबोध्यभित्वाषट्सरसी रूहान्॥
तटित्सहस्रसग़्काशां ब्रह्माण्डोदर मध्यगाम्।
धमनि शिवामृताम्भोधौ सन्निवेश्य चिरं वसेत्॥
यथाब्रह्ममये धात्रि योगी वसति लीलया।
तथा तज्जीववद् देहं भाति स्फुरति तत्पदम्॥
अनेन देवि योगेन दिनसप्तकमाचरेत्।
यथा तथा स भवति जरामरणवर्जितः॥
मासमात्रप्रयोगेण जीवेदाचन्द्रतारकम्।
यदा ब्रह्मपुरं भित्वा योगी व्रजति लीलया॥
तदा शिवत्वमाप्नोति त्यक्त्वा देहमिमं प्रिये।
न पुनः पीयते मातुः स्तनं यद्भव हेतुकम्॥
इदं गुह्यतमं शास्त्रं सर्वेषां न प्रकाशयेत्।
अपरीक्षितवृत्तस्य स शीघ्रं नश्यति प्रिये॥
डम्भाहं कारहीनाय धार्मिकाय दृढाय च।
समक् शुश्रूषशीलाय दातव्यं मन्त्रपुष्पकम्॥
अविज्ञाय च यः कुर्यात् गुरुवाक्यामृतं विना।
भक्ष्यते सोथिराद्देवि योगिनीभिर्नसंशयः॥
य इदं परमं शास्त्रं ग्रन्थतश्चार्यतश्च हा।
गुरुवक्त्रात् तु लभ्येत स परां सिद्धिमाप्नुयात्॥
य इदं परमं गुह्यं खेचरी मेलनं वदेत्।
स एव हि गुरुर्देवि नान्योस्ति परमेश्वरि॥
बहुधा क्लिश्यमानाय भक्तायानन्य चेतसे।
एकान्ते विजने स्थाने प्रवक्तव्यं विपश्चिता॥
व्याख्यानकाले कर्तव्यः पूजाविधिरशाम्यतः।
भक्ष्यभोज्यादिभिर्युक्तं कस्तूरी चन्दनादिभिः।
पूजयेच्छास्त्रविधिना विद्यापुस्तकमादरात्॥
अथवा यद्यशक्तस्तु मानसेत घनामृतैः।
सन्तर्प्यपूज्यविधिना व्याख्यानं गुप्तमाचरेत्।
यस्य हस्ते स्थितं दिव्यं विद्यापुस्तकमीश्वरि॥
तस्य मूर्तिगतं देवि सकलज्ञानसागरम्।
यथार्थग्रन्थतश्चेदमर्थतश्च विदिष्यति॥
अशेषेण जगद्धात्रि स एव परमेश्वरः।
सर्वज्ञेन शिवेनोक्तमिदं जन्मार्बुदैरपि॥
दुलभं शास्त्रसारं तु विद्याज्ज्ञानप्रकाशकम्।
द्वावेव पुरुषौ लोके सिद्धः साधक एव च।
अभ्यासे नैव सततं यस्यमुत्परिवर्तते॥
अचिरान्मनसस्सिद्धिं स योगीसाधकः स्मृतः।
सम्यगभ्यस्य विज्ञाय यः समं मेलनं चरेत्॥
सर्वसाधारणत्वेन विकल्प कुटिलोज्झितः।
कर्ताभर्ता च संहर्ता नित्यतृप्तो निरामयः॥
पश्यत्यात्माविभेदेन जगदेतच्चराचरम्।
स योगी सर्वविच्छ्रीमान् सिद्ध इत्युच्यते बुधैः।
सहस्रारे महापद्मे स्थित्वा योगी विराजते॥
तस्मात् सर्वप्रयत्नेन खेचरी मेलनं चरेत्॥ इति। अयं भावः -
द्वादशान्तादि मूलाधारान्तं विभाव्य पराशक्तिः स्वयं
कुण्डलिन्यादि रूपं भूत्वा सर्वाधारेषु सर्ववर्णेषु सूत्ररूपेण स्थिता।
तदुक्तं शारदातिलके -
शंखावर्तक्रमाद्देवी सर्वमावृत्य तिष्ठति॥ इति।
दक्षिणामूर्ति कल्पे -
सूत्रेमणिमयं जगत्॥ इति।
सूत्ररूपेण मणिरूपेण स्थिता भवति। इति। अनन्त व्रतसूत्रग्रंथि रूपेण
सूत्ररूपेण यथा तथा कमलानि कलाश्च निर्मितवती।
तदुक्तं योगयाज्ञवल्क्ये -
अष्टप्रकृतिरूपा सा ह्यष्टधा कुण्डलाकृतिः॥ इति।
भगवद्गीतासु -
भूमिरापो नलो वायुः खं मनोबुद्धिरेव च।
अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा॥ इति।
अत एवाधाराद्यष्ट पद्मेषु अष्टवक्रेण स्थिता। पृथिव्यादयः पञ्चमनो
बुद्धिरहंकारा अष्टप्रकृतयः। भिन्नरूपत्वात् अष्टधाकुटिलीकृता।
द्वादशान्ते गुरुपादुका युग्मस्य पीठरूपे स्थित पद्मस्य नालरूपेण
कर्णिकारूपेण स्थितवती। एतदर्थं गुरुपादुका स्मरणा वसरे उच्यते।
सहस्रारे सूक्ष्मसृष्ट्यर्थं जगत्पावनार्थं बुद्धिरूपेणपत्यासह
स्थिता। तदुक्तं -
सहस्रारे पद्मे सह रहसि पत्या विहरसे॥ इति।
आज्ञाचक्रेण प्रज्ञायुक्तमनोरूपेण शंभुना सह स्थिता।
तदुक्तं -
तवाज्ञा चक्रस्थं तपन शशिकोटिद्युतिधरम्॥ इति।
विशुद्धे आज्ञाकाशरूपेण अमृतकुण्डलिरूपेण स्थिता।
तदुक्तं -
शशिकिरणसारूप्य सरणीति। अनाहते वायुरूपेण हृदयकमलस्य
नालरूपेण स्थिता। सर्वकारणरूपेण स्वाधिष्ठाने स्थिता।
स्वाधिष्ठानेदुग्धामृतवर्षेण जगत्प्लावनार्थं मणिपूरे स्थिता।
तदुक्तं याज्ञवल्क्ये -
द्वादशारयुतं चक्रं तेन देहः प्रतिष्ठितः।
चक्रेस्मिन् भ्रमते जीवः पुण्यः पापः प्रचोदितः॥
सा शक्ति पुण्यपाप रूपत्वात् स्थूलसृष्ट्यर्थं पत्यासह क्रीडयित्वा
मूलाधारे स्थिता।
तदुक्तं याज्ञवल्क्ये -
द्वादशारयुतं चक्रं तेन देहः प्रतिष्ठितः।
चक्रेस्मिन् भ्रमते जीवः पुण्यपापप्रचोदितः॥
सा शक्तिः पुण्यपापरूपत्वात् सर्वकारणम्। अमृतवर्षेण स्वाधिष्ठाने
दग्ध जगत्प्लावनार्थं मणिपूरे मेघरूपेण स्थिता। मणिपूराद्धृदये
उड्डीयवर्षन्ती। तदुक्तं तव श्यामं मेघं कमपि
मणिपूरेकशरणमिति। स्थूलसृष्ट्यर्थं पत्यासहक्रीडयित्वा मूलाधारे
स्थिता।
तदुक्तं तवाधारे मूले सह समय चेति॥ एवं प्रवृत्तिः कुण्डलिन्याः इति।
॥ इति योगसारसंग्रहे कुण्डलिनी स्वरूपक्रियानिरूपणं नाम
चतुर्दशोध्यायः॥

No comments:

Post a Comment