Tuesday 8 April 2014

स्वयंबोध् अमनस्कयोग



अमनस्खण्ड्

वामदेव उवाच

प्रणम्य शिरसा देवं वामदेवः कृताञ्जलिः।
जीवन्मुक्तिपदोपयं कथयस्वेति पृच्छति॥ १॥

ईश्वर उवाच

परं ज्ञानम् अहं वाच्मि येन तत्त्वं प्रकाशते।
येन विच्छिद्यते सर्वम् आशापाशदिबन्धनं॥ २॥

आधारादिषु चक्रेषु सुषुम्नादिषु नाडिषु।
प्राणादिषु समीरेषु परं तत्त्वं न तिष्ठति॥ ३॥

तत्र योगरताः केचित् केचिद् ध्यानविमोहिताः।
जपेन केचित् क्लिश्यन्ति नैव जानन्ति तरकं॥ ४॥

न मीमंसतर्कग्रहगतसिद्धन्तपठनैर् न वेदैर्
वेदान्तैः स्मृतिभिर् अभिधानैर् अपि न च।
न चापि च्छन्दोव्याकरणकवितालङ्कृतिमयैर् मुनेस्
तत्त्वावाप्ति निर्जगुरुमुखाद् एव विहिता॥ ५॥

कसयग्रहणं कपलधरणं केशावलीलुन्चनं
पाषण्डव्रतभस्मचीवरजटाधारित्वम् उन्मत्तता।
नग्नत्वं निगमागमादिकवितागोष्टी सभाभ्यन्तरे
सर्वं चोदरपूरणार्थघटनं न श्रेयसः कारणम्॥ ६॥

द्वेषोच्चाटनमारणादिकुहकैर् मन्त्रप्रपञ्चोद्गमः
सर्वाभ्यासविचित्रबन्धकरणान्यज्ञानभोगोपरः।
ध्यनं देहपदेषु नाडिषु षडाधारेषु चेतोभ्रमस् तस्मात्
सकलं मनोविरचितं त्यक्त्वमनस्कं भज॥ ७॥

अनेके जगतो भावा ये च तिष्ठन्त्य् अनेकधा।
तेसं तु लक्षणेनापि परं तत्त्वं न गीयते॥ ८॥

अथहं वच्मिम् मोक्षाय ज्ननरगजितं नृणं।
निस्कलं निःप्रपन्चं यत् परं तत्त्वं तद् उच्यते॥ ९॥

व्योमादिभूतनिर्मुक्तं बुद्धीन्द्रियविवर्जितं।
त्यक्तचित्तादि भवं यत् परं तत्त्वं तद् उच्यते॥ १०॥

यस्माद् उत्पद्यते सर्वं यस्मिन् सर्वं प्रतिष्ठितं।
यस्मिन् विलीयते सर्वं परं तत्त्वं तद् उच्यते॥ ११॥

भवभवविनिर्मुक्तं विनाशोत्पत्तिवर्जितं।
सर्वसङ्कल्पनातीतं परं तत्त्वं तद् उच्यते॥ १२॥

अनाकारम् अविच्छिन्नम् अग्राह्यम् अचलं ध्रुवं।
सर्वोपधिविनिर्मुक्तं सर्वकमविवर्जितं॥ १३॥

प्रथमं पृथिवीतत्त्वं जलतत्त्वं द्वितीयकं।
तेजस् तत्त्वं तृतीयं स्याद् वायुस् तत्त्वं चतुर्थकं॥ १४॥

आकाशं पन्चमं तत्त्वं मनः षष्ठम् उदीरितं।
सप्तमं परमं तत्त्वं यो जानाति स मोक्षभाक्॥ १५॥

परं तत्त्वं समख्यतं जन्मबन्धविनाशनं।
तस्यभ्यसं प्रवक्ष्यामि येन सञ्जायते लयः॥ १६॥

विविक्तदेशेषु च सन्निविष्टः समासने किंचिद् उपेत्य पश्चात्।
बहुप्रमणं स्थिरदृक् श्लथाङ्गश् चिन्ताविहीनोऽभ्यसनं कुरुष्व॥ १७॥

सुखासने समासीनस् तत्त्वभ्यसं समाचरेत्।
सदाभ्यासेन तत् कूर्यात् परं तत्त्वं प्रकाशते॥ १८॥

ब्रह्माण्डं पञ्चभूतस्थं पञ्चभूतमयी तनुः।
सर्वं भूतमयं चेति त्यक्त्वा नास्तीति भावयेत्॥ १९॥

न किम्चिन् मनसा ध्यायेत् सर्वचिन्ताविवर्जितः।
स बाह्याभ्यन्तरे योगी जायते तत्त्वसन्मुखः॥ २०॥

तत्त्वस्य सन्मुखे जातेत्वमनस्कं प्रजायते।
अमनस्केऽपि सञ्जाते चित्तादिविलयो भवेत्॥ २१॥

चित्तादिविलये जाते पवनस्य लयो भवेत्।
मनःपवनयोर् नाशाद् इन्द्रियर्थं विमुञ्चति॥ २२॥

इन्द्रियार्थैर् यदा मुक्तो बह्यज्ननं न जायते।
बाह्यज्ञाने विनष्टे च ततः सर्वसमो भवेत्॥ २३॥

यदा सर्वसमो जातो भवेद् व्यापारवर्जितः।
परब्रह्मणि सम्बद्धो योगी प्राप्तलयस् तदा॥ २४॥

सदाभ्यासरतानं च यः परो जायते लयः।
तस्याहं कथयिष्यामि लक्सणं मुक्तचेतसः॥ २५॥

सुखं दुःखं न जानाति शीतोस्णं न च विन्दति।
विचरं चेन्द्रियर्थनं न वेत्ति हि लयं गतः॥ २६॥

न च जीवन्मृतो वापि न पश्यति न मीलति।
निर्जीवः काष्ठवत् तिष्ठेल् लयस्थश् चाभिधीयते॥ २७॥

निर्वातस्थापितो दीपो भासते निश्चलो यथा।
जगद्व्यापारनिर्मुक्तस् तथा योगी लयं गतः॥ २८॥

यथा वातैर् विनिर्मुक्तो निश्चलो निर्मलः परः।
शब्दादिविषयैस् त्यक्तो लयस्थो दृश्यते तदा॥ २९॥

प्रक्सिप्तं लवणं तोये क्रमाद् यद्वद् विलीयते।
मनोऽप्य् अभ्यासयोगेन तद्वद् ब्रह्मणि लीयते॥ ३०॥

लवणं तोयसम्पर्काद् यथा तोयमयं भवेत्।
मनोऽपि ब्रह्मसंस्पर् ब्रह्ममयं भवेत्॥ ३१॥

यथा क्षारम् अयत्नेन प्राप्यते लवणं स्वकं।
ब्रह्मज्ञानम् अयत्नेन निर्वणं मनसस् तथा॥ ३२॥

घृतात् पृथक्विरहितं घृते लीनं घृतं यथा।
तत्त्वे लीनस् तथा योगी पृथग्भवं न विन्दति॥ ३३॥

निमेषैः श्वासपलकैर् नाडीभिः प्रहरैर् दिनैः।
मासैः संवत्सरैः कालैर् लयस्थो यत् परं व्रजेत्॥ ३४॥

श्वासोच्छ्वासात्मकः प्राणः षड्भिः प्राणैः पलं स्मृतं ।
पलैः षष्टिभिर् एव स्यात् घटिका कालसन्मिता॥ ३५॥

योगी निमेषमात्रेण लयेन लभते ध्रुवं।
स्पर्शनं परतत्त्वस्याप्य् उत्थनं च पुनः पुनः॥ ३६॥

धर्मशान्तिः प्रजायेत मुहुर्निद्रा च मूर्छना।
निमेषषट्कमात्रेण लये नीतस्य योगिनः॥ ३७॥

श्वासमत्रलयेनापि तेन प्राणादिवायवः।
श्वसप्रवहसंबन्धत् स्वस्वस्थाने वहन्ति ते॥ ३८॥

श्वासद्वयलयेनापि कूर्मवातादिवायवः।
न वर्तन्ते च धावन्ति न विकुर्वन्ति धातवः॥ ३९॥

चतुःश्वासलयेनापि सप्तधातुगता रसाः।
समपुष्टिं प्रकुर्वन्ति धातूनं समवायवः॥ ४०॥

लयेन पलमात्रेण आसनस्थो न खिद्यते।
स्वल्पश्वासो भवेद् योगी स्वल्पोन्मेषयुतस् तथा॥ ४१॥

पलद्वयलयेनापि हृन्नाड्याश् चलनं भवेत्।
अनाहतः स विज्ञेयो न तत्रैव न्यसेन् मनः॥ ४२॥

चतुःपलप्रमाणेन लयेनानुभवो भवेत्।
अकस्मान् निपतत्य् एव शब्दः कर्णे शुभाशुभः॥ ४३॥

पलाष्टकलयेनापि कामस् तस्मान् निवर्तते।
तथापि नैव जायेत कामिन्यालिङ्गितस्य च॥ ४४॥

कलापादलयेनापि सुषुम्नामार्गवाहिनी।
कला पश्चिममार्गेण तस्य भागेन गच्छति॥ ४५॥

घटिकार्धलयेनापि शक्तिः कुण्डलिनी परा।
मनोवातनिरोधेन जागर्त्य् अधरसंस्थित॥ ४६॥

कलामात्रलयेनापि शक्तिः सञ्चलते ध्रुवं।
ऊर्ध्वं पश्चिममार्गेण वातरोधेन जायते॥ ४७॥

कलाद्वयलयेनापि शक्तेः सञ्चलनेन च।
क्षणाद् उत्पद्यते तस्य मनसः कम्पनं सकृत्॥ ४८॥

चतुःकलालयेनापि निद्राभावो निवर्तते।
हृदि स्फुलिङ्गवद् योगी तेजोबिन्दुं प्रपश्यति॥ ४९॥

दिनपादलयेनापि स्वल्पाहारो भवेन् नरः।
स्वल्पमूत्रपुरीसत्वं लघुतास्निग्धता तनोः॥ ५०॥

वासरार्धलयेनापि स्वात्मज्योतिः प्रकाशते।
सूर्यगोभिर् इवोद्दीप्तो योगी विश्वे प्रकाशते॥ ५१॥

दिनमात्रलयेनापि स्वत्मतत्त्वं प्रकाशते।
इन्द्रियज्ञानविस्तारो ब्रह्माण्डेऽप्य् अस्य वर्तते॥ ५२॥

अहोरात्रलयेनापि योगी च स्वासने स्थितः।
चित्तवृत्तिनिरोधेन गन्धं जानाति दूरतः॥ ५३॥

अहोरात्रद्वयेनापि लयानन्दसुमूर्छितः।
दूराद् अपि रसं वेत्ति योगी सङ्कल्पवर्जितः॥ ५४॥

अहोरात्रत्रयेणापि लयेनान्तस्थयोगिनः।
दूराद् दर्शनविज्ननं स्वभावेनैव वर्तते॥ ५५॥

अहोरात्रचतुष्केण लयभावप्रभावतः।
स्पर्शं जानाति योगीन्द्रो दूराद् अपि न संशयः॥ ५६॥

पञ्चरात्रलयेनापि तस्याप्य् उत्पद्यते ध्रुवं।
दूरश्रवणविज्ननं मनसाश्चर्यकरणं॥ ५७॥

एतत्पन्चेन्द्रियज्ननं महत् स्वनुभवत्मकं।
जानात्य् अनेन योगीन्द्रः सकलं विश्ववर्तनं॥ ५८॥

षट्रात्रविलयेनापि महाबुद्धिः प्ररोहति।
यावत् तर्कमतिर् न स्याद् विश्वज्ननं प्रवर्तते॥ ५९॥

सप्तरात्रलयेनापि परे लीनस्य योगिनः।
आब्रह्मविश्ववेतृत्वं श्रुतं ज्ननं च वर्तते॥ ६०॥

अष्टरात्रलयेनापि भवेद् योगी निरामयः।
क्षुत्पिपासादिभावैश् च सहजस्थो न पीड्यते॥ ६१॥

नवरात्रलयेनापि निर्भेदः स्वात्मवर्तिनः।
वाचासिद्धिर् भवेत् तस्य शापानुग्रहकारिणी॥ ६२॥

दशरात्रलयेनापि योगीन्द्रः स्वात्मधिष्ठितः।
यानि कानि सुगुप्तानि महाचित्राणि पश्यति॥ ६३॥

ततश् चैकादशाहेन लयस्थस्य जवोदयात्।
मनसा सहितस्यापि गन्तुम् इच्छति विग्रहः॥ ६४॥

द्वादशाहलयेनापि भूचरत्वं हि सिध्यति।
निमिषार्धप्रमाणेन पर्यटत्य् एव भूतले॥ ६५॥

ततस् त्रयोदशाहेन लयेनापि महद्द्रुतं।
योगीन्द्रः खेचरीसिद्धिं लभते चिन्तनाद् अपि॥ ६६॥

चतुर्दशदिनन्तं च लयस्थो यदि तिष्ठति।
अणिमाद्यष्टसिद्धि स्याद् अणुत्वं प्राप्यते यथा॥ ६७॥

आत्मन्य् एवात्मनाह् लीनो योगी षोडशवासराति।
लभते महिमासिद्धिं समहारूपधृग् यथा॥ ६८॥

अष्टादशदिनान्तं च लयस्थो यदि तिष्ठति।
गरिमख्यं लभेत् सिद्धिं यथा भूभारधृक् भवेत्॥ ६९॥

अभिन्नार्थे लयेनापि यश्च विंशतिवासरात्।
लघिमाख्या भवेत् सिद्धिर् यथाणुत्वस्य भारधृक्॥ ७०॥

द्वाविं  शतिदिनानि स्यात् स्वलक्षे यो लयं गतः
प्राप्ति सिद्धिर् भवेत् तस्य प्रापयेद् वा जगत्स्थितिं॥ ७१॥

परे लयं गतो योगी चतुर्विं शतिवासरात्।
तस्य प्राकाम्यसिद्धिः स्याद् ईप्सितं लभते यथा॥ ७२॥

यस्य वसं गतं चित्तं षड्विं शतिदिनानि वै
लभते जगदीशत्वं येन विश्वगुरुर् भवेत्॥ ७३॥

अष्टविं शद्दिनं यस्य लयस् तिष्ठेत् स्थिरासने
वशित्वसिद्धिप्राप्तिः स्याद् यथा वै वश्यकृज् जगत्॥ ७४॥

गन्तुम् इच्छन्ति ये केचित् परे ब्रह्मपदे लयं।
भवन्ति सिद्धयः सर्वास् तेसं विध्वंसकरकः॥ ७५॥

मसमेकं लयो यस्य लग्नस् तिष्ठेद् अखण्डितः।
न जागर्ति स योगीन्द्रो यावन् मोक्सं स गच्छति॥ ७६॥

नवमासलयेनापि पृथ्वीतत्त्वं च सिध्यति।
पृथ्वीतत्त्वे सुसंसिद्धे योगीन्द्रो वज्रसंनिभः॥ ७७॥

सर्धसंवत्सरेणपि लयस्थस्यापि योगिनः
तोयतत्त्वस्य सिद्धिः स्यात् तोयतत्त्वमयो भवेत्॥ ७८॥

संवत्सरत्रयेणपि लयस्थस्यापि योगिनः।
तेजस्तत्त्वस्य सिद्धिः स्यात् तेजस्तत्त्वमयो भवेत्॥ ७९॥

षड्भिः संवत्सरैर् भूतैर् अखण्डलयसंस्थितः।
वायुस्तत्त्वस्य सिद्धिः स्याद् वायुतत्त्वमयो भवेत्॥ ८०॥

तथा द्वादशभिर् वर्षैर् लयस्थस्य निरन्तरं।
व्योमतत्त्वस्य सिद्धिः स्याद् व्योमतत्त्वमयो हि सः॥ ८१॥

चतुर्विं वर्षैर् लयस्थस्य निरन्तरं।
शक्तितत्त्वस्य सिद्धिः स्याच् छक्तितत्त्वमयो हि सः॥ ८२॥

ब्रह्माण्डं सकलं पश्येत् पाणिस्थम् इव मौक्तिकं।
आत्मकायस्वरूपं च निधायाथ यथा स्थितं॥ ८३॥

कायस्थो दृश्यते लोके तत्त्वचर्यं समाचरन्।
तत्त्वचर्यं करोत्य् एव शक्तितत्त्वक्षयाय च॥ ८४॥

इत्थं क्रमविवृद्धेन लयाभ्यासेन योगिनः।
भुञ्जते परमनन्दं भृशण्ड्वादिमहात्मवत्॥ ८५॥

ब्रह्मविष्णुमहेशनं प्रलयेष्व् अपि योगिनः।
भुञ्जते परमनन्दं भृषण्ड्वादिमहात्मवत्॥ ८६॥

इति श्री अमनस्के कल्पखण्डे राजयोगो नाम प्रथमोऽध्यायः

उत्तरार्ध

वामदेव उवाच

भगवन् देवदेवेश परमानन्दसुन्दरम्।
त्वत्प्रसादान् मया लब्धः पूर्वयोगः सविस्तरः॥ १॥

अपरं किं तद् आख्याहि भवता यद् उदीरितं।
बहिर्मुद्रन्वितं पूर्वं बहिर्योगं च तन्मतं॥ २॥

महादेव उवाच

अन्तर्मुद्राख्यम् अपरं अन्तर्योगं तद् एव हि।
राजयोगः स कथितः स एव मुनिपुङ्गव॥ ३॥

राजत्वात् सर्वयोगनं राजयोग इति स्मृतः।
रजनं दीप्यमनं तं परब्रह्माणम् अव्ययं।
देहिनं प्रापयेद् यस् तु राजयोगः स उच्यते॥ ४॥

राजयोगस्य महत्म्यं को वा जानाति तत्त्वतः
ज्ञानात् सिद्धिर् मुक्तिर् इति गुरोर् ज्ननं च लभ्यते॥ ५॥

अन्तर्योगं बहिर्योगं यो जानाति विशेषतः।
मया त्वयाप्य् असौ वन्द्यः शेषैर् वन्द्यस् तु किं पुनः॥ ६॥

चित्तं बुद्धिर् अहङ्कार ऋत्विजः सोमपं मनः।
इन्द्रियाणि दशप्राणान् जुहोति ज्योतिमण्डले॥ ७॥

तन्मूलाद् इन्दुपर्यन्तं विभाति ज्योतिमण्डलं।
योगिभिः सततं ध्येयम् अणिमाद्यष्टसिद्धिदं॥ ८॥

वेदशास्त्रपुराणानि सामान्यगणिका इव।
एकैव शाम्भवी मुद्रा गुप्ता कुलवधूर् इव॥ ९॥

अन्तर्लक्स्यं बहिर्दृष्टिर् निमेषोन्मेषवर्जिता।
एषा हि शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता॥ १०॥

आदिशक्तिर् उमा चैषा मत्तो लब्धवती पुरा।
अधुना जन्मसम्स्कारात्त्वम् एको लब्धवान् असि॥ ११॥

गुह्याद् गुह्यतरा विद्या न देया यस्य कस्यचित्।
एतज्ज्ञानी वसेद् यत्र स देशः पुयभजनं॥१२॥

दर्शनाद् अर्चनात् तस्य त्रिसप्तकुलसंयुतः।
जना मुक्तिपदं यान्ति किं पुनस् तत्परायणाः॥ १३॥

ऊर्ध्वाधः कुण्डलीभेदाद् उन्मन्याश् चैव तन्मयः
अनुसन्धानमात्रेण योगोऽयं सिद्धिदायकः॥ १४॥

ऊर्ध्वमुष्टिर् अधोदृष्टिर् ऊर्ध्ववेधस्त्वधः शिरः।
राधायन्त्रविधानेन जीवन्मुक्तो भविष्यति॥ १५॥

कुलाचाररताः सन्ति गुरवो बहवो मुने।
कुलाचारविहीनस् तु गुरुर् एको हि दुर्लभः॥ १६॥

पुष्पात् प्रकाशते यद्वत् फलं पुष्पविनाशकं।
देहात् प्रकाशते यद्वत् तत्त्वं देहविनाशकं॥ १७॥

तत्त्वम् आत्मस्थम् अज्ञात्वा मूढः शास्त्रेषु मुह्यति।
गोपः कक्षागते छागे कूपे पश्यति दुर्मतिः॥ १८॥

नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे।
यस्य वाक्यामृतं हन्ति सम्सरविसमोहनं॥ १९॥

अमृतोद्दीपिनी विद्या निरपाया निरञ्जना।
अमनस्कैव सा कापि जयत्य् आनन्ददायिनी॥ २०॥

प्रनष्टोच्छ्वासनिश्वासः प्रध्वस्तविषयग्रहः।
निश्चेष्टो निर्गतारम्भो ह्य् अनन्दं याति योगवित्॥ २१॥

उच्छिन्नसर्वसङ्कल्पो निःशेषाशेषचेष्टितः।
स्वावगम्यो लयः कोऽपि जायते वागगोचरः॥ २२॥

वदन्त्य् एव परं ब्रह्म बुद्धिमन्तो हि सूरयः।
स्वावबोधकलालापकुशला दुर्लभा भुवि॥ २३॥

वदन्त्य् एवात्मनो भवं वेदान्तोपनिषद्विदः।
रहस्य् उपदिशन्त्य् अन्ये स्वयं नानुभवन्ति ते॥ २४॥

विहाय योगशास्त्राणि नानागुरुमतानि च।
निबद्धस्वावबोधोऽयं सद्यः प्रत्ययकारकः॥ २५॥

सकलं समनस्कं च सयसं च सदा त्यज।
निर्मलं निर्मनस्कं च निरभसं सदा भज॥ २६॥

दुग्धंबुवत् सम्मिलितौ सदैव तुल्यक्रियौ मानसमारुतौ च।
यावन् मनस् तत्र मरुत्प्रवृत्तिर् यावन् मरुच् चापि मनःप्रवृत्तिः॥ २७॥

तत्रैकनाशाद् अपरस्य नाश एकप्रवृत्तेर् अपरप्रवृत्तिः।
अध्वस्तयोश् चेन्द्रियवर्गबुद्धिर् विध्वस्तयोर् मोक्षपदस्य सिद्धिः॥ २८॥

तत्राप्य् साध्यः पवनस्य नाशः षडङ्गयोगादिनिषेवणेन
मनोविनाशस् तु गुरुप्रसादान् निमेषमात्रेन सुसाध्य एव॥ २९॥

तस्मान् मनो नाशयतेऽमनस्काद् यन्नाशतो नश्यति वायुरुग्रः।
तस्मात् सबुद्धीन्द्रियदेहनाशाद् अद्वैतबुद्धिः सहजस्थितस्य॥ ३०॥

जित्वा वयुं विविधकरणैः क्लेशमूलैः
कथञ्चित् कृत्वा यत्नं निजतनुगतान् शेषनाडीप्रवाहान्।
अश्रद्धेयं परपुरगतिं साधयित्वापि नूनं
विज्ञानैकव्यसनिसुखिनो नास्ति मोक्षस्य सिद्धिः॥ ३१॥

केचिन् मूत्रं पिबन्ति स्वमलम् अथ तनोः केचिद् उज्झन्ति लालाः
केचित् कोष्ठं प्रविष्टा युवतिभगपतद्बिन्दुम् ऊर्ध्वं नयन्ति।
केचित् वादन्ति धातून् अखिलतनुशिरवयुसंचरदक्सः
नैतेसं देहसिद्धिर् विगतनिजमनोराजयोगाद् ऋते स्यात्॥ ३२॥

केचित् तर्कवितर्ककर्कशधियोऽहङ्कारदर्पोद्धताः
केचिज् जातिजडानयामतिगता ध्यानादिकर्माकुलाः।
प्रायः प्राणिगणा विमूढमनसो नानाविकारान्विता
दृश्यन्ते न हि निर्विकारसहजानन्दैकभाजो भुवि॥ ३३॥

एकदण्डत्रिदण्डादि जटभस्मदिकं तथा।
केशलुन्चननग्नत्वं रक्तचीवरधरणं॥ ३४॥

उन्मत्तत्वम् अभोज्यान्नपानपाखण्डवृत्तिता।
इत्यदिलिगग्रहणं नानादर्शनदर्शितं॥ ३५॥

उत्पन्नस्वावबोधस्य ह्य् उदासीनस्य सर्वदा।
सदाभ्यासरतस्यैतन् नैकत्राप्य् उपयुज्यते॥ ३६॥

तदा दृष्टिविशेषाश् च विविधान्यासनानि च।
अन्तःकरणभावश् च योगिनो नोपयुज्यते॥ ३७॥

अहङ्कारवृताः केचिज् ज्ञात्वा शस्त्रसमुच्चयं।
उपदेशं न जानन्ति न च ग्रन्थशतैर् अपि॥ ३८॥

सङ्कल्पमूलध्यानादिचिन्ताशतसमाकुलाः
क्लेशेनापि न विन्दन्ति प्रप्तव्यं स्थानम् ईप्सितं॥ ३९॥

वेदान्ततर्कोक्तिभिर् आगमैश् च नानाविधैः शस्त्रकदंबकै च।
ध्यानादिभिः सत्करणैर् अगम्यं चिन्तमं ह्य् एकगुरुं विहाय॥ ४०॥

तस्मान् नूनं सकलविषया निष्कलाध्यात्मयोगाद्
वयोर् नाशस् तदनु मनसस् तद्विनाशाच् च मोक्षः।
सच्चिद्देवं सहजम् अमलं निस्कलं निर्विकरं
प्रप्तुं यत्नं कुरुत कुशलाः पूर्वम् एवमनस्कं॥ ४१॥

अभ्यस्तैः किमु दीर्घकालम् अनिलैर् व्याधिप्रदैर् दुःखदैः
प्राणायामशतैर् अनेककरणैर् दुःखात्मकैर् दुर्जयैः।
यस्मिन्न् अभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात्
प्रप्तं तत्सहजस्वभावम् अनिशं सेवध्वम् एकं गुरुं॥ ४२॥

गुरुर् ब्रह्मा गुरुर् विष्णु गुरुर् देवो महेश्वरः।
गुरुदेवात् परं नास्ति तस्मात् सम्पूजयेत् सदा॥ ४३॥

दृष्टिः स्थिरा यस्य विनैव दृश्याद् वायुः स्थिरो यस्य विना प्रयत्नात्।
चित्तं स्थिरं यस्य विनावलम्बनात् स एव योगी स गुरुः स सेव्यः॥ ४४॥

अमनस्कं सुशिष्येषु सौक्रम्येन्द्रियजं सुखं।
निवारयन्ति ते वन्द्या गुरवोऽन्ये प्रतारकाः॥ ४५॥

गुरुणा दर्शिते तत्त्वे दर्शनात् तन्मयो भवेत्।
विमुक्तं मन्यतत्मनं मुच्यते नात्र संअयः॥ ४६॥

यथा सिद्धरसस्पर्शात् तम्रं भवति कन्चनं।
गुरूपदेशश्रवणाच् छिष्यस् तत्त्वमयो भवेत्॥ ४७॥

तस्माद् उपासितात् सम्यक्सहजं प्राप्यते गुरोः।
अनायासेन सततम् आत्माभ्यासरतो भवेत्॥ ४८॥

विविक्ते विजने देशे पवित्रेऽतिमनोहरे।
समासने सुखासीनः पश्चात् किंचित् समाश्रितः॥ ४९॥

सुखस्थापितसर्वाङ्गः सुस्थिरात्मा सुनिश्चलः।
बाहुदण्डप्रमाणेन कृतदृष्टिः समभ्यसेत्॥ ५०॥

शिथिलीकृतसर्वाङ्गः स्वानखाग्रशिखाग्रतः।
सबाह्याभ्यन्तरे सर्वचिन्ताचेष्टाविवर्जितः॥ ५१॥

यदा भवेद् उदासीनस् तदा तत्त्वं प्रकाशते।
स्वयं प्रकाशिते तत्त्वे स्वानन्दस् तत्क्षणाद् भवेत्॥ ५२॥

आनन्देन च सन्तुष्टः सदाभ्यासरतो भवेत्।
सदाभ्यासे स्थिरीभूते न विधिर् नैव च क्रमः॥ ५३॥

न किंचिच् चिन्तयेद् योगी सदाभ्यासपरो भवेत्।
न किंचिच् चिन्तनाद् एव स्वयं तत्त्वं प्रकाशते॥ ५४॥

स्वयं प्रकाशिते तत्त्वे तत्क्षणात् तन्मयो भवेत्।
इदं तद् इति तद्वक्तुं गुरुणापि न शक्यते॥ ५५॥

वाङ्मनःकयसम्क्सोभं प्रयत्नेन विवर्जयेत्।
दिशं चान्तम् इवत्मनं सुस्थिरं धारयेत् सदा॥ ५६॥

यावत् प्रयत्नलेशोऽस्ति यावत् सङ्कल्पकल्पना।
श्रेयस्त्वं मनसा प्रप्तं तावत् तत्त्वस्य का कथा॥ ५७॥

औदासीन्यामृतेनापि वर्धमानेन योगिना।
उन्मूलितमनोमूले जगद्वृक्षः पतिष्यति॥ ५८॥

यदा जग्रदवस्थयं सुप्तवद् योऽवतिष्ठते।
निश्वासोच्छ्वासविहीनस् तु निश्चितं मुक्त एव सः॥ ५९॥

स्वप्नजागरणोपेता जन्तवो जगतिं गताः।
योगिनस् तत्त्वसम्पन्ना न जाग्रति न शेरते॥ ६०॥

स्वप्ने चिदंअशून्यत्वं जागरे विषयग्रहाः।
स्वप्नजागरणातीतम् अतस् तत्त्वं विदुर् बुधाः॥ ६१॥

भावाभावद्वयातीतं स्वप्नजगरणतिगं।
मृत्युजीवननिर्मुक्तं तत्त्वं तत्त्वविदो विदुः॥ ६२॥

यथा सुप्तोत्थितः कश्चिद् विषयान् प्रतिपद्यते।
जाग्रत्य् एव ततो योगी योगनिद्राक्षये तथा॥ ६३॥

सर्वतो वितता दृष्टिः प्रत्यक् भूता शनैः शनैः।
परं तत्त्वम् अनादर्शे पश्यत्य् आत्मानम् आत्मनि॥ ६४॥

निद्रादौ जागरस्यान्ते यो भाव उपपद्यते।
तं भवं भावयेद् योगी निश्चितं मुक्त एव सः॥ ६५॥

प्रथमं निसृता दृष्टिः संलग्न यत्र कुत्रचित्।
स्थिरीभूता च तत्रैव विनश्यति शनैः शनैः॥ ६६॥

प्रसह्य सौकल्पपरंपरणम् उच्छेदने सन्ततसावधाना।
आलम्बनाशाद् अपचीयमाना शनैः शनैः शान्तिम् उपैति दृष्टिः॥ ६७॥

यथा यथा समभ्यासान् मनसः स्थिरता भवेत्।
वायुवाक्कायदृष्टीनं स्थिरता च तथा तथा॥ ६८॥

दृश्यं पश्यति येन पश्यति शनैर् आघ्रेयम् आजिघ्रतो
भक्स्यं भक्षयतः श्रुतिप्रियकरं श्रव्यं तथा श्रुण्वतः।
स्पृश्यं च स्पृशतो निरिन्धनशिखप्रख्यं मनोज्नं
क्रमाद् अद्वैताख्यपदस्य तत्त्वपदवीं प्राप्तस्य सद्योगिनः॥ ६९॥

यदा यत्र यथा यस्मात् स्थिरं भवति मनसं।
तदा तत्र तथा तस्मात् न तु चल्यं कदाचन॥ ७०॥

यत्र यत्र मनो याति न निवर्यं ततस् ततः।
अवरितं क्षयम् याति वर्यमणं तु वर्धते॥ ७१॥

यथा निरङ्कुशो हस्ती कामान् प्राप्य निवर्तते।
अवरितं मनस् तद्वत् स्वयम् एव विलीयते॥ ७२॥

निवर्यमणं यत्नेन धर्तुं यत् नैव शक्यते।
तत्तिष्ठति क्षनेनैव मारुतस्य वशोदयात्॥ ७३॥

दुर्निवर्यं मनस् तद्वद् यावत् तत्त्वं न विन्दति।
विदिते तु परे तत्त्वे मनो नौस्तम्भकाकवत्॥ ७४॥

यथा तुलं तुलाधारश् चन्चलं कुरुते स्थिरं।
जाते सौख्ये सदाभ्यासान् मनोवृत्तिस् तथात्मनि॥ ७५॥

निष्पन्नाखिलभावशून्यनिभृतः स्वात्मस्थितिस्
तत्क्षणान् निश्चेष्टश्लथपाणिपादकरणग्रामो विकारोज्झितः।
निर्मूलप्रविनष्टमारुततया निर्जीवकाष्ठोपमो
निर्वातस्थितदीपवत् सहजवान् पार्श्वस्थितैर् दृश्यते॥ ७६॥

निक्षिप्ते कनके विहाय कलुसं यद्वद् भवेन् निर्मलं
निर्वातस्थितनिस्तरङ्गम् उदकं स्वच्छस्वभवं परं।
तद्वत् सर्वम् इदं विहाय सकलं देदीप्यते निस्कलं
तत्त्वं तत्सहजं स्वभावम् अमलं जातेऽमनस्के ध्रुवं॥ ७७॥

मन एव मनुस्यणं करणं बन्धमोक्षयोः।
बन्धाय विसयसक्तं मुक्त्यै निर्विषयम् मनः॥ ७८॥

मनोदृष्यम् इदं सर्वं यत् किम्चित् सचरचरं।
मनसो प्य् उन्मनीभावेऽद्वैतभवं प्रचक्षते॥ ७९॥

जायमानामनस्कस्य ह्य् उदासीनस्य तिष्ठतः।
मृदुत्वं च खरत्वं च शरीरस्योपजायते॥ ८०॥

अमनस्के क्षणात् क्षीणं कमक्रोधदिबन्धनं।
नष्टान्तःकरणस्तम्भे देहगेहं श्लथं भवेत्॥ ८१॥

सहजेनामनस्केन मनःशल्ये वियोजिते।
अतपत्रमिवस्तम्भं शरीरं शिथिलायते॥ ८२॥

अमनस्कखनित्रेण समूलोन्मूलिनी कृते।
अन्तःकरणशल्ये तु सुखी सञ्जायते मुनिः॥ ८३॥

कदलीव महामाया समनस्केन्द्रियछदा।
अमनस्कफलं सूत्वा सर्वथैव विनश्यति॥ ८४॥

इन्द्रियग्रामपदयोर् निश्वासोच्छ्वासपक्षयोः।
संछिन्नयोर् मनः पक्षी स्थिरः सन्न् अवसीदति॥ ८५॥

श्वाससूत्रसमोपेतम् इन्द्रियलयसंकुलं।
त्रोटयित्वा मनोजलं जायते मीनवत् सुखी॥ ८६॥

प्रशान्तेन्द्रियपादान्तो बुद्धिशक्तिसमन्वितः।
वयुयनयुतं जित्वा मनःशत्रुं सुखी भवेत्॥ ८७॥

गुणत्रयमयीं रज्जुं सुदृढात्मनि बन्धनीं।
अमनस्कक्षुरेणैव च्छित्वा मोक्षम् अवाप्नुयात्॥ ८८॥

यथा संह्रियतेन् सर्वम् अस्तं गच्छति भास्करे।
कर्मजलं तथा विश्वम् अमनस्के विलीयते॥ ८९॥

इन्द्रियग्राहनिर्मुक्ते निर्वातनिर्मलामृते।
अमनस्के ह्रदे स्नातः परामृतम् उपाश्नुते॥ ९०॥

इत्य् उक्तम् एतत् सहजमनस्कं शिष्यप्रबोधाय शिवेन साक्षात्।
नित्यं तु तं निष्कलनिःप्रपन्चं वाचाम् अवच्यं स्वयम् एव वेद्यं॥ ९१॥

चित्तेऽचलति सम्सारे चले मोक्षः प्रजायते।
तस्माच् चित्तं स्थिरीकुर्याद् औदासीन्यपरायणः॥ ९२॥

चतुर्विधामनोवस्था विज्ञातव्या मनीषिभिः।
विश्लिष्टं च गतयतं सुश्लिष्टं च सुलीनकं॥ ९३॥

विश्लिष्टं तमसं प्रोक्तं रजसं तु गतगतं।
सुश्लिष्टं सत्विकं प्रोक्तं सुलीनं गुणवर्जितं॥ ९४॥

विश्लिष्टं च गतयतं विकल्पविसयग्रहं।
सुश्लिष्टं च सुलीनं च विकल्पविसयपहं॥ ९५॥

ततोऽभ्यासनियोगेन निरालम्बो भवेद् यदि।
तदा समरसीभूते परमानन्द एव सः॥ ९६॥

अभ्यासतो मनः पूर्वं विश्लिष्टं चलम् उच्यते।
ततश् चलचलं किंचित् सनन्दं च गतगतं॥ ९७॥

सनन्दं निश्चलं चेतस् ततः सुश्लिष्टम् उच्यते।
अतीव निश्चलीभूतं सनन्दं च सुलीनकं॥ ९८॥

एवं भूतस्य कर्माणि पुण्यापुण्यानि सम्क्सयं।
प्रयान्ति नैव लिम्पन्ति क्रियमाणानि साधुना॥ ९९॥

उत्पन्नसहजानन्दः सदाभ्यासरतः स्वयं।
सर्वसौकल्पसंत्यक्तः स विद्वान् कर्म संत्यजेत्॥ १००॥

ये तु विद्यार्थविज्ञाने विद्वंस इति कीर्तिताः।
अत्मतत्त्वं न जानन्ति दर्वी पकरसं यथा॥ १०१॥

संसरिकक्रिययुक्तं ब्रह्मज्ञोऽस्मीति वदिनं।
कर्मब्रह्मोभयभ्रष्टं तं त्यजेद् अन्त्यजं यथा॥ १०२॥

वृथा देवपरित्यक्ता कर्मकाण्डविवर्जिताः।
पाखण्डाः पण्डितं मन्याः न ते किमपि जानते॥ १०३॥

न कर्माणि त्यजेद् योगी कर्मभिस् त्यज्यते ह्य् असौ।
कर्मणो मूलभूतस्य सङ्कल्पस्यैव नाशतः॥ १०४॥

यदा यदा सदाभ्यासात् सङ्कल्पविलयो भवेत्।
योगिनो भवति श्रेयान् कर्मत्यागस् तदा तदा॥ १०५॥

दतॄणं कुशलनं च सततं मोक्षम् इच्छतं
श्रद्धवतं सुशिस्यणं शास्त्रम् एतत् प्रकाशते॥ १०६॥

शास्त्रम् एतत् प्रयत्नेन सदभ्यस्यं मुमुक्षुभिः।
यस्य धारणमात्रेण स्वयं तत्त्वं प्रकाशते॥ १०७॥

ओंकरैर् त्रिविधैर् विचित्रकरणैः प्रायश् च वायोर् जयस्।
तेजश् चिन्तनम् अन्तरालकमले शून्यम्बरलम्बनं।
त्यक्त्वा सर्वम् इदं कलेवरगतं मत्वा मनोविभ्रमं
देहातीतम् अवाच्यम् एकम् अमनस्कत्वं बुधैः सेव्यतं॥ १०८॥

न दिवा जगरितव्यं सुप्तव्यं नैव रात्रिभागेऽपि।
रात्रावहनि च सततं शयितव्यं योगिना नित्यं॥ १०९॥

निर्मलसहजस्थिते पुरुषे न दिवारात्रिभेदोऽस्ति।
जागरणशयनविवर्जितचिन्मत्रनन्दसंस्थ तु॥ ११०॥

अन्यजन्मकृताभ्यासात् स्वयं तत्त्वं प्रकाशते।
सुप्तोत्थितस् तु प्रत्यूषे उपदेशादिना विना॥ १११॥

शुद्धाभ्यासस्य शान्तस्य सदैव गुरुसेवनात्
गुरुप्रसादात् तत्रैव तत्त्वज्ननं प्रकाशते॥ ११२॥

इति श्री ईश्वरप्रोक्तः स्वयंबोधः सम्पूर्णः

No comments:

Post a Comment