Tuesday 8 April 2014

गोरक्षपद्धति


प्रथमशतक

श्रीगुरुं परमानन्दं वन्दे स्वानन्दविग्रहम्।
यस्य संनिध्यमात्रेण चिदानन्दायते तनुः॥ १॥

नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानमुत्तमम्।
अभीष्टं योगिनां ब्रूते परमानन्दकारकम्॥ २॥

गोरक्षसंहितां वक्ति योगिनां हितकाम्यया।
ध्रुवं यस्यावबोधेन जायते परमं पदम्॥ ३॥

एतद् विमुक्तिसोपानमेतत् कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो भोगादासक्तं परमात्मनि॥ ४॥

द्विजसेवितशाखस्य श्रुतिकल्पतरोः फलम्।
शमनं भवतापस्य योगं भजत सत्तमाः॥ ५॥

आसनं प्राणसंरोधः प्रत्याहारश्च धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि वदन्ति षट्॥ ६॥

आसनानि च तावन्तो यावन्तो जीवजान्तवः।
एतेषामखिलान् भेदान् विजानाति महेश्वरः॥ ७॥

चतुराशीतिलक्षाणामेकैकं समुदाहृतम्।
ततः शिवेन पीठानां षोडेशानं शतं कृतम्॥ ८॥

आसनेभ्यः समस्तेभ्यो द्वयमेतदुदाहृतम्।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥ ९॥

योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा दृढं विन्यसेन्
मेढ्रे पादमथैकमेव हृदये कृत्वा हनुं सुस्थिरम्।
स्थाणुः संयमितेन्द्रियो चलदृशा पश्येद् भ्रुवोरन्तरम्
ह्येतन्मोक्षकवाटभेदजनकं सिद्धासनं प्रोच्यते॥ १०॥

वामोरूपरि दक्षिणं चे चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेनविधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रमालोकयेद्
एतद् व्याधिविकारनाशनकरं पद्मासनं प्रोच्यते॥ ११॥

षट्चक्रं षोडशाधारं द्विलक्ष्य् व्योमपञ्चकम्।
स्वदेहे ये न जानन्ति कथं सिद्ध्यन्ति योगिनः॥ १२॥

एकस्तम्भं नवद्वारं गृहं पञ्चाधिदैवतम्।
स्वदेहे ये न जानन्ति कथं सिद्ध्यन्ति योगिनः॥ १३॥

चतुर्दलं स्यादाधारः स्वाधिष्ठानं च षट्दलम्।
नाभौ दशदलं पद्मं सूर्यसङ्ख्यदलं हृदि॥ १४॥

कण्ठे स्यात् षोडशदलं भ्रूमध्ये द्विदलं तथा।
सहस्रदलम् आख्यातं ब्रह्मरन्ध्रे महापथे॥ १५॥

आधारः प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनिस्थानं द्वयोर्मध्ये कामरूपं निगद्यते॥ १६॥

आधाराख्यं गुदस्थानं पङ्कजं च चतुर्दलम्।
तन्मध्ये प्रोच्यते योनिः कामाक्षा सिद्धवन्दिता॥ १७॥

योनिमध्ये महालिङ्गं पश्चिमाभिमुखस्थितम्।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥ १८॥

तप्तचामीकराभासं तडिल्लेखेव विस्फुरत्।
त्रिकोणं तत्पुरं वह्नरधो मेढ्रात्प्रतिष्ठितम्॥ १९॥

यत् समाधौ परं ज्योतिरनन्तं विश्वतोमुखम्।
तस्मिन् दृष्टे महायोगे यातायातन्न विन्दते॥ २०॥

स्वशब्देन भवेत्प्राणः स्वाधिष्ठानं तदाश्रयः।
स्वाधिष्ठानात्पदादस्मान्मेढ्रमेवाभिधीयते॥ २१॥

तन्तुना मणिवत्प्रोतो यत्र कन्दः सुषुम्णया।
तन्नाभिमण्डलं चक्रं प्रोच्यते मणिपूरकम्॥ २२॥

द्वादशारे महाचक्रे पुण्यपापविवर्जिते।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति॥ २३॥

ऊर्ध्वं मेढ्रादधोनाभेः कन्दो योनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः॥ २४॥

तेषु नाडिसहस्रेषु द्विसप्ततिरुदाहृताः।
प्रधानः प्राणवाहिन्यो भूयस्तासु दशस्मृताः॥ २५॥

इडा च पिङ्गला चैव सुषुम्णा च तृतीयका।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी॥ २६॥

अलम्बुषा कुहूश्चैव शङ्खिनी दशमी स्मृता।
एतन्नाडिमयं चक्रं ज्ञातव्यं योगिभिः सदा॥ २७॥

इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता।
सुषुम्णा मध्यदेशे तु गान्धारी वामचक्षुषि॥ २८॥

दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वामकर्णे ह्यानने चाप्यलम्बुषा॥ २९॥

कुहूश् च लिङ्गदेशे तु मूलस्थाने च शङ्खिनी।
एवं द्वारं समाश्रित्य तिष्ठन्ति दशनाडयः॥ ३०॥

इडापिङ्गलासुषुम्णाः प्राणमार्गे समाश्रिताः।
सततं प्राणवाहिन्यः सोमसूर्याग्निदेवताः॥ ३१॥

प्राणोपानः समानश्चोदानोव्यानौ च वायवः।
नागः कूर्मोथ कृकलो देवदत्तो धनञ्जयः॥ ३२॥

हृदि प्राणो वसेन्नित्यंअपानो गुदमण्डले।
समानो नाभिदेशे तु उदानः कण्ठमध्यगः॥ ३३॥

व्यनो व्यापी शरीरेषु प्रद्धानाः पञ्च वयवः।
प्राणाद्याः पञ्चविख्याता नागाद्याः पन्च वयवः॥ ३४॥

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः।
कृकरः क्षुतकृज् ज्ञेयो देवदत्तो विजृम्भणे॥ ३५॥

न जहाति मृतं चापि सर्वव्यापि धनञ्जयः।
एते सर्वासु नाडीषु भ्रमन्ते जीवरूपिणः॥ ३६॥

आक्षिप्तो भुजदण्डेन यथोच्चलति कन्दुकः।
प्राणापानसमाक्षिप्तस्तथा जीवो न तिष्ठति॥ ३७॥

प्राणापानवशो जीवो ह्य् अधश् चोर्ध्वं च धावति।
वामदक्षिणमार्गेण चञ्चलत्वान्न दृश्यते॥ ३८॥

रज्जुबद्धो यथा श्येनो गतोऽप्याकृष्यते पुनः।
गुणबद्धस्तथा जीवः प्राणापानेन कृष्यते॥ ३९॥

अपानः कर्षति प्राणः प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित्॥ ४०॥

हकारेण बहिर्याति सकारेण विशेत्पुनः।
हंसहंसेत्यमुं मन्त्रं जीवो जपति सर्वदा॥ ४१॥

षट्शतानि त्वहोरात्रे सहस्राण्येकविंशतिः।
एतत्सङ्ख्यान्वितं मन्त्रं जीवो जपति सर्वदा॥ ४२॥

अजपा नाम गायत्री योगिनां मोक्षदायिनी।
अस्याः सङ्कल्पमात्रेण सर्वपापैः प्रमुच्यते॥ ४३॥

अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति॥ ४४॥

कुन्दलिन्याः समुद्भूता गायत्री प्राणधारिणी।
प्राणविद्या महाविद्या यस्तां वेत्ति स योगवित्॥ ४५॥

कन्दोर्ध्वे कुण्डली शक्तिरष्टधा कुण्डलाकृति।
ब्रह्मद्वारमुखं नित्यं मुखेनाच्छाद्य तिष्ठति॥ ४६॥

येन द्वारेण गन्तव्यं ब्रह्मस्थानमनामयम्।
मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमेश्वरी॥ ४७॥

प्रबुद्धा वह्नियोगेन मनसा मारुता सह।
सूचीव गुणमादाय व्रजत्यूर्ध्वं सुषुम्णया॥ ४८॥

प्रस्फुरद्भुजगाकारा पद्मतन्तुनिभा शुभा।
प्रबुद्धा वह्नियोगेन व्रजत्यूर्ध्वं सुषुम्णया॥ ४९॥

उद्घटयेत् कपातं तु यथा कुञ्चिकया हठात्।
कुण्डलिन्या तथा योगी मोक्षद्वारं प्रभेदयेत्॥ ५०॥

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यानं च तच्चेतसि।
वारम्वारमपानमूर्ध्वमनिलं प्रोच्चारयेत्पूरितं
मुञ्चन्प्राणमुपैति बोधमतुलं शक्तिप्रभावादतः॥ ५१॥

अङ्गानां मर्दनं कृत्व श्रमसञ्जातवारिणा।
कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत्॥ ५२॥

ब्रह्मचारी मिताहारी त्यागी योगपरायणः।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा॥ ५३॥

सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम्।
भुज्यते स्वरसं प्रीत्यै मिताहारी स उच्यते॥ ५४॥

कन्दोर्ध्वं कुण्डलीनी शक्ति शुभमोक्षप्रदायिनी।
बन्धनाय च मूढानां यस्तां वेत्ति स योगवित्॥ ५५॥

महामुद्रां नमोमुद्रां उड्डियानं जलन्धरम्।
मूलबन्धनं च यो वेत्ति स योगी मुक्तिभाजनम्॥ ५६॥

वक्षोन्यस्तहनुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्यामवधारयेत् प्रसरितं पादं तथा दक्षिणम्।
आपूर्य श्वसनेन कुक्षियुगलं बद्ध्वा शनैरेचये
देषापातकनाशिनी सुमहती मुद्रा नॄणां कत्यते॥ ५७॥

चन्द्राङ्गेन समभ्यस्य सूर्याङ्गेनाभ्यसेत्पुनः।
यावत्तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत्॥ ५८॥

नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः।
अपि मुक्तं विषं घोरं पीयूषमिव जीर्यते॥ ५९॥

क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योभ्यसेत्॥ ६०॥

कथितेयं महामुद्रा महासिद्धिकरा नॄणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥ ६१॥

कपालकुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोरन्तर्गता दृष्टिर् मुद्रा भवति खेचरी॥ ६२॥

न रोगान्मरणं तस्य न निद्रा न क्षुधा तृषा।
न मूर्च्छा  तु भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्॥ ६३॥

पीड्यते न च शिकेन लिप्यते न च कर्मणा।
बाध्यते न स केनापि यो मुद्रां वेत्ति खेचरीम्॥ ६४॥

चित्तं चलति नो यस्माज्जिह्वा चरति खेचरी।
तेनेयं खेचरी सिद्धा सर्वसिद्धैर्नमस्कृता॥ ६५॥

बिन्दुमूल शरीरणां शिरास्तत्र प्रतिष्ठिताः।
भावयन्ति शरीराणमापादतलमस्तकम्॥ ६६॥

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्यालिङ्गितस्य च॥ ६७॥

यावद् बिन्दुः स्थितो देहे तावन्मृतोर्भयं कुतः।
यावद् बद्धा नभोमुद्रा तावद् बिन्दुर्न गच्छति॥ ६८॥

चलितोऽपि यदा बिन्दुः सम्प्राप्तश् च हुताशनम्।
व्रजत्यूर्ध्वं हृतः शक्त्या निरुद्धो योनिमुद्रया॥ ६९॥

स पुनर्द्विविधो बिन्दुः पण्डुरो लोहितस्तथा।
पाण्डुरः शुक्रमित्याहुर्लोहिताख्यो महाराजः॥ ७०॥

सिन्दूरद्रवसङ्काशं नाभिस्थाने स्थितं रजः।
शशिस्थाने स्थितो बिन्दुस्तयोरैक्यं सुदुर्लभम्॥ ७१॥

बिन्दुः शिवो रजः शक्तिर्बिन्दुम् इन्दू रजो रविः।
अनयोः सङ्गमादेव प्राप्यते परमं पदम्॥ ७२॥

वायुना शक्तिचारेण प्रेरितं तु यदा रजः।
याति बिन्दोः सहैकत्वं भवेद्दिव्यं वपुस्ततः॥ ७३॥

शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम्।
तयोः समरसैकत्वं यो जानाति स योगवित्॥ ७४॥

शोधनं नाडिजालस्य चालनं चन्द्रसूर्ययोः।
रसानां शोषणं चैव महामुद्राभिधीयते॥ ७५॥

उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः।
उड्डीयानं तदेव स्यान्मृत्युमातङ्गकेशरी॥ ७६॥

उदरात्पश्चिमे भागे अधो नाभेर्निगद्यते।
उड्डीयानो ह्यं बन्धस्तत्र बन्धो निगद्यते॥ ७७॥

बध्नाति हि सिरोजालं नाधो याति नभोजलम्।
ततो जालन्धरो बन्धो कण्ठदुःखौघनाशनः॥ ७८॥

जालन्धरे कृते बन्धे कण्ठसंकोचलक्षणे।
पीयूषं न पतत्यग्नौ न च वायुः प्रकुप्यति॥ ७९॥

पार्ष्णिभागेनसंपीड्य योनिमाकुञ्चयेद्गुदम्।
अपानमूर्ध्वमाकृष्य मूलबन्धो विधीयते॥ ८०॥

अपानप्राणयोरैक्यात् क्षयोमूत्रपुरीषयोः।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात्॥ ८१॥

पद्मासनं समारुह्य समकायशिरोधरः।
नासाग्रदृष्टिरेकान्ते जपेदोङ्कारमव्ययम्॥ ८२॥

भूर्भुवः स्वरिमे लोकाः सोमसूर्याग्निदेवताः।
यस्या मात्रासु तिष्ठन्ति तत्परं ज्योतिरोमिति॥ ८३॥

त्रयः कालास्त्रयो वेदास्त्रयो लोकास्त्रयः स्वराः।
त्रयो देवाः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ८४॥

क्रिया इच्छा तथा ज्ञानां ब्राह्मी रौद्री च वैष्णवी।
त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति॥ ८५॥

आकाराश्च उकारश्च मकारो बिन्दुसंज्ञकः।
त्रिधा मात्राः स्थिता यत्र तत् परं ज्योतिरोमिति॥ ८६॥

वचसा तज्जयेद् बीजं वपुषा तत् समभ्यसेत्।
मनसा तत्स्मरेन्नित्यं तत्परं ज्योतिरोमिति॥ ८७॥

शुचिर्वाप्यशुचिर्वापि योजपेत् प्रणवं सदा।
 न स लिप्यति पापेन पद्मपत्रमिवाम्भसा॥ ८८॥

चले वाते चलो बिन्दुर्निश्चले निश्चलो भवेत्।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत्॥ ८९॥

यावद् वायुः स्थितो देहे तावज्जीवं न मुन्चति।
मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत्॥ ९०॥

यावद् बद्धो मरुद् देहे यावच्चित्तं निरामयम्।
यावद् दृष्टिर्भ्रुवोर्मध्ये तावत्कालभयं कुतः॥ ९१॥

अतः कालभयाद् ब्रह्मा प्राणायामपरायणः।
योगिनो मुनयश्चैव ततो वायुं निरोधयेत्॥ ९२॥

षट्त्रिंशदङ्गुलो हंसः प्रयाणं कुरुते बहिः।
वामदक्षिणमार्गेण ततः प्राणोऽभिधीयते॥ ९३॥

शुद्धिमेति यदा सर्वं नाडीचक्रं मलाकुलम्।
तदैव जायते योगी प्राणसंग्रहणे क्षमः॥ ९४॥

बद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथाशक्तिभूयः सूर्येण रेचयेत्॥ ९५॥

अमृतंदधिसङ्काशं गोक्षीरधवलोपमम्।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत्॥ ९६॥

दक्षिणे श्वासमाकृष्य पूरयेदुत्तरं शनैः।
कुम्भयित्वा विधानेन पुनश्चन्द्रेण रेचयेत्॥ ९७॥

प्रज्वलज्ज्वलनज्वालापुञ्जमादित्यमण्डलम्।
ध्यात्वा नाभिस्थितं योगी प्राणायामे सुखी भवेत्॥ ९८॥

प्राणंश्चेदिडयापिबेत्परिमितं भूयोऽन्यया रेचयेत्
पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद् वामया।
सूर्यचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायतां
शुद्धा नाडिगणा भवन्ति यमिनां मासत्रयादूर्ध्वतः॥ ९९॥

यथेष्टं धारणं वायोरनलस्य प्रदीपनम्।
नादाभिव्यक्तिरारोग्यं जायते नाडिशोधने॥ १००॥

॥ इति गोरक्षयोगशस्त्रे पूर्व शतकम्॥

गोरक्षपद्धति
दूसरा शतक

प्राणो देहे स्थितो वायुरपानस्य निरोधनात्।
एकश्वसनमात्रेणोद्घाटयेत् गगने गतिम्॥ १॥

रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः।
प्राणायामो भवेत् त्रेधा मत्रद्वादशसंयुतः॥ २॥

मात्राद्वादशसंयुक्तौ दिवाकरनिशाकरौ।
दोषजालमपध्नन्तौ ज्ञातव्यौ योगिभिः सदा॥ ३॥

पूरके द्वादशीकुर्यात्कुम्भके षोडशी भवेत्।
रेचके दश ॐकराः प्राणायामः स उच्यते॥ ४॥

प्रथमे द्वादशी मात्रा मध्यमेद्विगुणा मता।
उत्तमे त्रिगुणा प्राणायामस्य निर्णयः॥ ५॥

अधमे चोद्यते घर्मः कम्पो भवति मधयमे।
उत्तिष्ठत्युत्तमे योगि ततो वायुं निरोधयेत्॥ ६॥

बद्धपद्नासनो योगी नमस्कृत्य गुरुं शिवम्।
भ्रूमध्ये दृष्टिरेकाकी प्राणायामं समभ्य्सेत्॥ ७॥

ऊर्ध्वमाकृष्य चापानवायुं प्राणे नियोजयेत्।
उर्ध्वमानीयते शक्त्या सर्वपापैः प्रमुच्यते॥ ८॥

द्वाराणां नवकं निरुद्ध्य मरुत पीत्वा दृढं धारितं
नीत्वाकाशमपानवह्निसहितं शक्त्या समुच्चालितम्।
आत्मस्थानयुतस्त्वनेन विधिवद् विन्यस्यमूर्घ्निं ध्रुवं
यावत्तिष्ठति तावदेव महतां संघेन संस्तूयते॥ ९॥

प्राणायामो भवत्येवं पातकेन्धनपावकः।
भवोदधिमहासेतुः प्रोच्यते योगिभिः सदा॥ १०॥

आसनेन रुजो हन्ति प्राणायामेन पातकम्।
विकारं मानसं योगी प्रत्याहारेण मुण्चति॥ ११॥

धारणाभिमतो धैर्यं ध्यानाच्चैतन्यमद्भुतम्।
समाधौ मोक्षमानोति त्यक्त्व कर्म शुभाशुभम्॥ १२॥

प्राणायामद्विषटकेन प्रत्याहारः प्रकीर्तितः।
प्रत्याहारद्विषट्केन ज्ञायते धारणा शुभा॥ १३॥

धारणा द्वादश प्रोक्ता ध्यानाद् धानविशारदैः।
ध्यानद्वादशकेनैव समाधिरभिधीयते॥ १४॥

यत्समाधौ परं ज्योतिरनन्तं विश्वमोमुखम्‌।
तस्मिन्‌ दृष्टे क्रिया कर्म यातायातं न विद्यते॥ १५॥

सम्बद्धासनमेढ्रमंध्रियुगलं कर्णाक्षिनासापुटा
द्द्वाराण्यगुलिभिर्नियम्य पवनं वक्त्रेण सम्पूरितम्‌।
ध्यात्वा वक्षसि वह्न्यपानसहितं मूर्ध्नि स्थितं धारये
देवं याति विशेषतत्त्वसमतां योगीश्वरस्तन्मयः॥ १६॥

गगनं पवने प्राप्त ध्वनिरुत्पद्यते महान्‌।
घण्टादीनां प्रवाद्यानां तदा सिद्धिरदूरतः॥१७॥

प्राणायामेन युक्तेन सर्वरोक्षयो भवेत्‌।
आयुक्ताभ्यासयोगेन सर्वरोगस्य संभवह्॥ १८ ॥

हिक्का कासस्तथा श्वासः शिरः कर्णाक्षिवेदनाः।
भवन्ति विविधा रोगा पवनस्य व्यतिक्रमात्‌॥ १९॥

यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः-शनैः।
अन्यथा हन्ति योक्तारं तथा वायुरसेवितः॥ २०॥

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत्‌।
युक्तं युक्तं च बनीयादेवं सिद्धिरदूरतः॥ २१॥

चरतां चक्षुरादीनां विषयेषु यथाक्रमम्‌।
यत्प्रत्याहरणं तेषां प्रत्याहारः स उच्यते॥ २२॥

यथा तृतीयकालस्थो रविः प्रत्याहरेत्प्रभाम्‌।
तृतौयाङ्गस्थितो योगी विकारं मानसं तथा॥ २३॥

अङ्गमध्ये यथाङ्गन्‌ कूर्मः संकोचयेद्‌ ध्रुवम्‌।
योगी प्रत्याहरेदेवमिन्द्रियाणि तथात्मनि॥ २४॥

यं यं शृणोति कर्णाभ्यामप्रियं प्रियमेव वा।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित्‌॥ २५॥

अगन्धमथवा गन्धं यं यं जिघ्रति नासिका।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ २६॥

अमेध्यमथवा मेध्यं यं यं पश्यति चक्षुषा।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ २७॥

तं तमात्मेति विज्ञाय प्रत्याहरति योगवित॥ २८॥

लावण्यमलावण्यं वा यं यं रसति जिह्वया।
तं तमात्मेति विज्ञाय प्रत्याहरति योगवित्‌॥ २९॥

चन्द्रामृत्मयीं धारां प्रत्याहरति भास्करः।
यत्प्रत्यहरणं तस्याः प्रत्याहारः स उच्यते॥ ३०॥

एकस्त्री भुज्यते द्वाभ्यामागता चन्द्रमण्डलात्।
तृतीयो यः पुनस्ताभ्यां स भवेदजरामरः॥ ३१॥

नाभिदेशे वसत्येको भास्करो दहनात्मनः।
अमृतात्मा स्थितो नित्यं तालुमूले च चन्द्रमाः॥ ३२॥

वर्षत्यधोमुखश्चन्द्रो ग्रस्त्यूर्ध्वमुखो रविः।
ज्ञातव्या करणी तत्र यथा पीयूषमाप्यते॥ ३३॥

ऊर्ध्व नाभिरधस्तालुरूर्ध्वं भानुरधः शशी।
करणि विपरीताख्या गुरुवाक्येन लभ्यते॥ ३४॥

त्रिधा बद्धो वृषो यत्र रोरवीति महास्वनः।
अनाहतं च तच्चक्रं हृदये योगिनो विदुः॥ ३५॥

अनाहतमतिक्रम्य चाक्रम्य मणिपूरकम्।
प्राप्ते प्राणे महापद्मं योगी स्वयमृतायते॥ ३६॥

ऊर्धवं षोडशपत्रपद्मगलितं प्राणाद्वाप्तं हठा
दूर्ध्वस्यो रसनां निधाय विधिवच्छक्तिं परां चिन्तयेत्।
तत्कल्लोलकलाजलं सुविमलं जिह्वाकुलम् यः पिबे
न्निर्दोषः समृणालकोपुर्योगी चिरं जीवति॥ ३७॥

काकचञ्चुवदास्येन शीतलं सलिलं पिबेत्।
प्राणापानविधानेन योगी भवति निर्जरः॥ ३८॥

रसनातालुमूलेन यः प्राणमनिलं पिबेत्।
अब्दार्द्धेन भवेतस्य सर्वरोगस्य संक्षयः॥ ३९॥

विशुद्धे पञ्चमे चक्रे ध्यात्वासौ सकलामृतम्।
उन्मार्गेण हृतं याति वञ्चयित्वा मुखं रवेः॥ ४०॥

विशब्देन स्मृतो हंसः नैर्मल्यं शुद्धिरुच्यते।
अतः कण्ठे विशुद्धाख्यं चक्रं चक्रविदो विदुः॥ ४१॥

अमृतं कन्दरे कृत्वा नासान्तसुषिरे क्रमात्।
स्वयमुच्चालितं याति वर्जयित्वा मुखं रवेः॥ ४२॥

बद्धं सोमकलाजलं सुविमलं कण्ठस्थलादूर्ध्वतो
नासान्ते सुषिरे नयेच्च गगनद्वारान्ततः सर्वतः।
ऊर्ध्वास्यो भुवि सन्निपत्य निरामुत्तानपादः पिबे
देवं यः कुरुते जितेन्द्रियगणो नैवास्ति तस्य क्षयः॥ ४३॥

उर्ध्वं जिह्वां स्थिरीकृत्य सोमपनां करोति यः।
मासार्द्धन न सन्देहो मृत्युं जयति योगवित्॥ ४४॥

बद्धम् मूलबिल येन तेन विघ्नो विदारितः।
अजरामरमाप्नोति यथा पञ्चमुखो हरः॥ ४५॥

संपीड्य रसनाग्रेण राजदन्तबिलं महत्।
ध्यात्वामृतमयीं देवीं षण्मासेन कविर्भवेत्॥ ४६॥

सर्वद्वाराणि बध्नाति तदूर्ध्वं धारितं महत्।
न मुञ्चत्यमृतंकोऽपि स पन्थाः पञ्चधारणाः॥ ४७॥

चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी
सक्षारं कटुकाम्लदुग्धसदृशं मध्वाज्यतुल्यं तथा।
व्याधीनां हरणं जरान्तकरणं शास्त्राङ्गमोदगीरणं
तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम्॥ ४८॥

अमृतापूर्णदेहस्य योगिनो द्वित्रिवत्सरात्।
ऊर्ध्वं प्रवर्तते रेतोऽप्यणिमादिगुणोदयः॥ ४९॥

ईन्धनानि यथा वह्निस्तैलवर्तिं च दीपकः।
तथा सोमकलापूर्णं देहं देही न मुञ्चति॥ ५०॥

नित्यसोमकलपूर्णशरीरं यस्य योगिनः।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति॥ ५१॥

आसनेन समायुक्तः प्राणायामेन संयुतः।
प्रत्याहारेण सम्पन्नो धारणां च समभ्यसेत्॥ ५२॥

हृदये पञ्चभूतानां धारणा च पृथक् पृथक्।
मनसो निश्चलत्वेन धारणा साभिधीयते॥ ५३॥

य पृथ्वी हरितालहेमरुचिरा पीता लकारान्विता
संयुक्ता कमलासनेन हि चतुष्कोणाहृदि स्थायिनी।
प्राणांस्तत्र विलीय पञ्चघटिकं चित्तान्वितान्धारये
देषा स्तम्भकरी सदाक्षितिजयं कुर्यद् भुवो धारणा॥ ५४॥

आर्द्धेन्दुप्रतिमं च कुन्दधवलं कण्ठेऽम्बुतत्त्वं स्थितं
यत्पीयूषवकारबीजसहितं युक्तं सदा विष्णुना।
प्राण तत्रविलीय पञ्चघटिका चित्तानिवितं धारये
देषा दुःसहकालकूटदहनी स्याद्वारुणी धारणा॥ ५५॥

यत्तालुस्थितमिन्द्रगोपसदृशं तत्त्वं त्रिकोणानलं
तेजो रेफ़युतं प्रवालरुचिरं सत्सङ्गतम्।
प्राणं तत्र विलीय पञ्चघटिकं चित्तान्वितं धारये
देषा वह्निजयं सदा वितनुते वैश्वानरी धारणा॥ ५६॥

यद्भिन्नाञ्जनपुञ्जसन्निभमिदं स्यूतं भ्रुवोरन्तरे
तत्त्वं वायुमयं यकारसहितं तत्रेश्वरो देवता।
प्राणं तत्रविलीय पञ्चघटिकं चित्तान्वितं धारये
देषा खेगमनं करोति यमिनः स्याद्वायवीधारणा॥ ५७॥

आकाशं सुविशुद्धवारिसदृशं यद् ब्रह्मरन्ध्रस्थितं
तन्नादेन सदाशिवेन सहितं तत्वं हकारान्वितम्।
प्राणं तत्र विलीया पञ्चघटीकं चित्तन्वितं धारये
देषा मोक्षकपाटपाटनपतुः प्रोक्ता नभोधारणा॥ ५८॥

स्तम्भिनी द्राविणी चैव दाहिनी भ्रामिणी तथा।
शोषिणी च भवात्येषा भूतानां पञ्चधारणाः॥ ५९॥

कर्मणा मनसा वाचा धारणाः पञ्चदुर्लभाः।
विज्ञान सततं योगी सर्वदुःखैः प्रमुच्यते॥ ६०॥

स्मृत्येव सर्वचिन्तायां धातुरेकः प्रपद्यते।
यच्चित्ते निर्मला चिन्ता तद्धि ध्यानं प्रचक्षते॥ ६१॥

द्विविधं भवति ध्यानं सकलं निष्कलं तथा।
चर्याभेदेन सकलं निष्कलं निर्गुणं भवेत्‌॥ ६२॥

अन्तश्चेतो बहिश्चक्षुरधः स्थाप्य सुखासनः।
कुण्डलिन्या समायुक्तं ध्यात्वा मुच्येत किल्विषात्‌॥ ६३॥

आधारं प्रथमं चक्रं स्वर्णाभं च चतुर्दलम्‌।
कुण्डलिन्या समायुक्तं ध्यात्वा मुच्येत किल्विषैः॥ ६४॥

स्वाधिष्ठाने च षट्पत्रे सन्माणिक्यसमप्रभे।
नासाग्रदृष्टिरात्मानं ध्यात्वा योगी सुखी भवेत्‌॥ ६५॥

तरुणादित्यसंकाशे चक्रे च मणिपूरते।
नासाग्रदृष्टिरात्मानं ध्यात्वा संक्षोभयेज्जगत्‌॥ ६६॥

हृदाकाशे स्थितं शम्भु प्रचण्डरवितेजसम्‌।
नासाग्रे दृष्टिमाधाय ध्यात्वा ब्राह्ममयो भवेत्‌॥ ६७॥

विद्युत्प्रभे च हृदत्पद्मे प्राणायामविभेदतः।
नासाग्रदृष्टिरात्मानं ध्यात्वा ब्रह्ममयो॥ ६८॥

सततं घणिटकामध्ये विशुद्धे दीपकप्रभे।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्‌॥ ६९॥

भ्रुवोरन्तकर्गतं देवं सन्माणिक्यशिखोपमम्‌।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत्‌॥ ७०॥

ध्यायन्नीलनिभं नित्यं भूरमध्ये परमेश्वरम्‌।
आत्मानं विजितप्राणो योगी योगमवाप्नुयात्‌॥ ७१॥

निर्गुणं च शिवं शान्तं गगने विश्वतोमुखम्‌।
नासाग्रदृष्टिरेकाकी ध्वात्वा ब्रह्ममयो भवेत्‌॥ ७२॥

आकाशे यत्र शब्दः स्यात्तदाज्ञाचक्रमुच्यते।
तत्रात्मानं शिवं ध्यात्वा योगी मुक्तिमवाप्नुयात्‌॥ ७३॥

निर्मलं गगनाकारं मरीचिजलसन्निभम्‌।
आत्मानं सर्वगं ध्यात्वा योगीमुक्तिमवाप्नुयात्‌॥ ७४॥

गुदं मेढ्रं च नाभिश्च हृत्पझं च तदूर्ध्वतः।
घण्टिका लंबिकास्थान भ्रूमध्ये च नभोबिलम्‌॥ ७५॥

कथितानि नवैतानि ध्यानस्थानानि योगिभिः।
उपाधितत्वमुक्तानि कुर्वन्त्यष्टगुणोदयम्‌॥ ७६॥

एषु ब्रह्मात्मकं तेजः शिवज्योतिरनुत्तमम्‌॥
ध्वात्वा ज्ञात्वा विमुक्तः स्यादिति गोरक्षभाषित्‌॥ ७७॥

नाभौ संयम्य पवनगतिमधो रोधयंसंप्रयत्नादा कुण्च्पापानमूलं हुतबहसदृश तंतुवत्सूक्ष्मरूपम्‌।
तद्बद्ध्वा हृत्सरोजे तदनु दलणके तालु के ब्रह्मरंध्रे भित्वाते यांति शून्यं प्रविशति गगने यत्र देवो महेशः॥ ७८॥

नाभौ शुभ्रारविंद तदुपरि विमलं मंडलं चण्डरश्मेः
संसारस्यैकरूपां त्रिभुवनजननीं धर्मदात्रीं नराणाम्‌।
तस्मिनमध्ये त्रिमार्गे त्रितयतनुधरां छिन्नमस्तां प्रशस्तां
तां वंदे ज्ञानरूपां मरणभयहरां योगिनीज्ञानमुद्राम्‌॥ ७९॥

अश्वमेध्सहस्राणि वाजपेयशतानि च।
एकस्य ध्यानयोगस्य तुलां नार्हन्ति षोडशीम्‌॥ ८०॥

उपाधिश्च तथा तत्त्वं द्वयमेतदुदाहृतम्‌।
उपाधिः प्रोच्यते वर्णस्तत्वमात्माभिधीयते॥ ८१॥

उपाधेरन्यथा ज्ञानतत्वसंस्थितिरन्यथा।
समस्तोपाधिविध्वंसी सदाभ्यासेन जायते॥ ८२॥

शब्दादीनां च तंमात्रं यावत्कर्णादिषु स्थितम्‌।
तावदेवं स्मृतं ध्यानं समाधिः स्यादतः परम्‌॥ ८३॥

धारण एञ्चनाडीभिर्ध्यानं च षष्टिनाडीभिः।
दिनद्वादशकेन स्यात्समाधिः प्राणसंयमात्‌॥ ८४॥

यत्सर्वं द्वंद्वयोरैक्यं जीवात्मपरमात्मनोः
समस्तनष्टसंकल्पः समाधि साभिधीयते॥ ८५॥

अंबुसैंधवयोरैक्यं यथा भवति योगतः।
तथात्ममनसोरैक्यं समाधिः सोऽभिधीयते॥ ८६॥

यदा संक्षीयते प्राणो मानसं च प्रलीयते।
यदा समरसत्वं च समाधि सोऽभिधीयते॥ ८७॥

न गंधं न रसं रूपं न च स्पर्शं न निःस्वनम्‌।
नात्मानं न परस्वं च योगी युक्तः समधिना॥ ८८॥

अभेद्यः सर्वशस्त्राणाग्वध्यः सर्वदेहिनाम्‌।
अग्राह्यो मंत्रयंत्राणां योगी युक्तः समाधिना॥ ८९॥

बाध्यते न स कालेन लिप्यते न स कर्मणा।
साध्यते न च केनापि योगीः युक्तः समाधिना॥ ९०॥

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु।
युक्तस्वप्नावबोधस्य योगो भवति दुखहा॥ ९१॥

निराद्यन्तं निरालम्बं निष्प्रपञ्चं निरामयम्‌।
निराश्रयं निराकारं तत्वं जानति योगवित्‌॥  ९२॥

निर्मलं निश्चलं नित्यं निष्क्रियं निर्गुणं महत्‌।
व्योमाविज्ञानमानन्दं ब्रह्मं ब्रह्मविदो विदुह्॥ ९३॥

हेतुदृष्टान्तनिर्मुक्तं मनोबुद्ध्योरगोचरम्‌।
व्योम विज्ञानमानन्दं तत्वं तत्वविदो विदुः॥ ९४॥

निरातङ्के निरालम्बे निराधारे निरामये।
योगी योगविधानेन परे ब्रह्मणि लीयते॥ ९५॥

यथा घृते घृतं क्षिप्तं घृतमेव हि जायते।
क्षीरं क्षीरे तथा योगी तत्त्वमेव हि जायते॥  ९६॥

दुग्धे क्षीरं धृते सर्पिरग्नौ वह्निरिवार्पितः।
तन्मयत्वं व्रजत्येवं योगी लीनः परे पदे॥ ९७॥

भवभयहरं नृणां मुक्तिसोपानसंज्ञकम्।
गुह्याद् गुह्यतर गुह्यं गोरक्षेण प्रकाशितम्‌॥ ९८॥

गोरक्षसंहितामेतां योगभूतां जनः पठेत्‌।
सर्वपापविनिर्मुक्तो योगसिद्धिं लभेद्‌ ध्रुवम्‌॥ ९९॥

योगशास्त्रं पठेन्नित्यं किमान्यैः शास्त्रविस्तरैः।
यत्स्वयं आदिनाथस्य निर्गतं वदनाम्बुजात्॥ १००॥

स्नातं तेन समस्ततीर्थसलिलं दत्ता द्विजेभ्यो धरा
यज्ञानां च हुतं सहस्रमयुतं देवाश्च सम्पूजिताः।
स्वाद्वन्नेन सुतर्पिताश्च पितरः स्वर्ग च नीताः पुन
यस्य ब्रह्मविचारणे क्षणमपि प्राप्नोति धैर्यं मनः॥ १०१॥

॥इति श्रीगोरक्षयोगशास्त्रे गोरक्षपद्धतौ मुक्तिसोपानसंज्ञके उत्तर शतकं सम्पूर्णम्॥

No comments:

Post a Comment