Tuesday 8 April 2014

महार्थमञ्जरी महेश्वरानन्दप्रणीता



नमो नालयते शुण्डा विषाणेन मृणालिने।
प्रत्यक्कमलकन्दाय कर्णाभ्या पर्णशालिने॥ १॥

जयत्यमूलमम्लानमौत्तर तत्त्वमद्वयम्।
स्पन्दास्पन्दपरिस्पन्दमकरन्दमहोत्पलम्॥ २॥

कारुण्यामृतसिन्धोरुदितमिवावर्तमीक्षणापाङ्गात्।
मौक्तिकमय दधाना ताटङ्क जयति गौरवी मूर्तिः॥ ३॥

स्फूर्तये विश्वशिल्पस्य श्रीशिवानन्दमूर्तये।
नित्योन्मेषनिमेषायै निस्तुषायै नमस्त्विषे॥ ४॥

यस्मादनुत्तरमहाह्रदमज्जन मे
सौभाग्यशाम्भवसुखानुभवश्च यस्मात्।
तत्स्वात्मचित्क्रमविमर्शमय गुरूणा-
मोवल्लियुग्ममुदितोदितवीर्यमीडे॥ ५॥

नमो निखिलमालिन्यविलापनपटीयसे।
महाप्रकाशपादाब्जपरागपरमाणवे॥ ६॥

गोरक्षो लोकधिया देशिकदृष्ट्या महेश्वरानन्दः।
उन्मीलयामि परिमलमन्तर्ग्राह्य महार्थमञ्जर्याम्॥ ७॥

स्वक्रियाया अपि व्याख्या स्वयमेव प्रयुञ्ज्महे।
उपर्यप्यात्मसरम्भसम्भोगाम्रेडनोत्सुकाः॥ ८॥

यद्वा विनेयजनचित्तचमत्क्रियार्थ-
मत्रोद्यमोऽयमुदितोऽस्तु तदेतदास्ताम्।
सक्षेपविस्तरविभागविविक्तशोभः
पुष्पाञ्जलिर्भवतु वाङ्मय एष शम्भोः॥ ९॥

अवगतशिवदृष्टिप्रत्यभिज्ञार्थतत्त्व-
क्रमसरणिरहस्योल्लाससर्वस्ववेदी।
गुरुचरणसपर्याचातुरीचिद्घनोऽह
गहनमपि हृदन्तर्व्योम तद् व्याकरोमि॥ १०॥

इह महति रहस्योन्मीलने मङ्गलाय
प्रभवति मम सविद्योगिनीना प्रसादः।
अपि तु कुलसपर्याबिम्बसबन्ध्यवन्ध्याः
सकृदपि मतिमन्तो नैनमुद्घाटयन्तु॥ ११॥

स्वप्नसमयोपलब्धा सा सुमुखी सिद्धयोगिनी देवी।
गाथाभिः सप्तत्या स्वापितभाषाभिरस्तु सम्प्रीता॥ १२॥

वर्धता देशिकः श्रीमान् सविन्मार्गश्च वर्धताम्।
माहेश्वराश्च वर्धन्ता वर्धता च महेश्वरः॥ १३॥

अथ महार्थमण्जरी

नत्वा नित्यशुद्धौ गुरोश्चरणौ महाप्रकाशस्य।
ग्रथ्नाति महार्थमञ्जरीमिमा सुरभि महेश्वरानन्दः॥ १॥

वर्धता महाप्रकाशो विमर्शविच्छुरितनिश्छलोद्योतः।
सज्ञाविशेषनिर्णयमात्रप्रवृत्तानि यत्र शास्त्राणि॥ २॥

आत्मा खलु विश्वमूल तत्र प्रमाण न कोऽप्यर्थयते।
कस्य वा भवति पिपासा गङ्गास्रोतसि निमग्नस्य॥ ३॥

य जानन्ति जडा अपि जलहार्योऽपि य विजानन्ति।
यस्यैव नमस्कारः स कस्य स्फुटो न भवति कुलनाथः॥ ४॥

अवच्छिन्न प्रत्यक्षमवच्छिन्न तन्मुख चानुमानम्।
आगमदीपालोकस्तस्य प्रकाशयति किमपि माहात्म्यम्॥ ५॥

येषा निरुपणीयो व्यतिरिक्तः कोऽप्यात्मनो भावः।
आत्मविमुखाना तेषामधिकारिविभागविभ्रमो भवतु॥ ६॥

यत्र रुचिस्तत्र विधिर्यत्रेय नास्ति तत्र च निषेधः।
इत्यस्माक विवेको हृदयपरिस्पन्दमात्रशास्त्राणाम्॥ ७॥

पर्यालोचनविमुखे वस्तुस्वभावस्यात्मनो हृदये।
शङ्काविषवेगेनेव ससारभयेन मुह्यति लोकः॥ ८॥

माणिक्यप्रवेक इव निचोलितो निजमयूखलेखया।
प्रतिभाति लौकिकानामत्यन्तस्फुटोऽप्यस्फुट आत्मा॥ ९॥

ऊर्ध्वो ज्वलति प्रकाशो लोकालोकस्य मङ्गलप्रदीपः।
विमर्शदशामुखानीतदह्यमानमलालितैलविच्छर्दः॥ १०॥

सन् हृदयप्रकाशो भवनस्य क्रियाया भवति कर्ता।
सैव क्रिया विमर्शः स्वस्था क्षुभिता च विश्वविस्तारः॥ ११॥

पृथ्वीपरमशिवयोः प्रत्याहारे प्रकाशपरमार्थे।
योऽन्योन्यविशेषः स एव हृदयस्य विमर्शोन्मेषः॥ १२॥

तथा तथा दृश्यमानाना शक्तिसहस्राणामेकसघट्टः।
निजहृदयोद्यमरूपो भवति शिवो नाम परमस्वच्छन्दः॥ १३॥

स एव विश्वमेषितु ज्ञातु कर्तु चोन्मुखो भवन्।
शक्तिस्वभावः कथितो हृदयत्रिकोणमधुमासलोल्लासः॥ १४॥

ज्ञान क्रियेति द्वयोरपि प्रथमोन्मेषे सदाशिवो देवः।
द्वितीयाया उल्लेखे द्वितीयः स भवतीश्वरो नाम॥ १५॥

ज्ञाता स आत्मा ज्ञेयस्वभावश्च लोकव्यवहारः।
एकरसा ससृष्टि यत्र गतौ सा खलु निस्तुषा विद्या॥ १६॥

एकरसे स्वभावे उद्भावयन्ती विकल्पशिल्पानि।
मायेति लोकपतेः परमस्वतन्त्रस्य मोहनी शक्तिः॥ १७॥

सर्वकरः सर्वज्ञः पूर्णो नित्योऽसकुचश्च।
विपरीत इव महेशो याभिस्ता भवन्ति पञ्च शक्तयः॥ १८॥

य एष विश्वनाटकशैलूषः शुद्धसविच्छम्भुः।
वर्णकपरिग्रहमयी तस्य दशा कापि पुरुषो भवति॥ १९॥

ज्ञानक्रियामायाना गुणाना सत्त्वरजस्तमस्स्वभावानाम्।
अविभागावस्थाया तत्त्व प्रकृतिरिति शाम्भवी शक्तिः॥ २०॥

कल्लोलायमानानि सदा हृदयाम्बुनिधौ त्रीणि करणानि।
आकर्षन्तीदन्ता तत्राहन्ता चात्रार्पयन्ति॥ २१॥

हृदयस्थितस्य विभोर्विषयालोको विशृङ्खलो भवति।
ज्ञानेन्द्रियदीपेषु निजनिजगोलाग्रनित्यलग्नेषु॥ २२॥

भवन्ति करणानि पञ्च खलु कर्मप्रधानानि लोकनाथस्य।
स्पन्दते स्वैर यैर्जनो जडाद् विलक्षणो भवन्॥ २३॥

विश्वोद्यानविरूढानि गन्धप्रमुखानि सुगन्धीनि पुष्पाणि।
पञ्चाप्याजिघ्रन् क्रीडति त्रैलोक्यधूर्त्तो देवः॥ २४॥

स्त्यानस्य क्रमवशादिक्षुरसस्येव शिवप्रकाशस्य।
गुडपिण्डा इव पञ्चापि भूतानि मधुरता न मुञ्चन्ति॥ २५॥

सर्वस्य भुवनविभ्रमयन्त्रोल्लासस्य तन्तुवल्लिव।
विमर्शसरम्भमयी उज्जृम्भते शम्भोर्महाशक्तिः॥ २६॥

यदध्वना च षट्क तत्र प्रकाशार्थलक्षणमर्धम्।
विमर्शशब्दस्वभावमर्धमिति शिवस्य यामलोल्लासः॥ २७॥

आलेख्यविशेष इव गजवृषभयोर्द्वयः प्रतिभासम्।
एकस्मिन्नेवार्थे शिवशक्तिविभागकल्पना कुर्मः॥ २८॥

तिलमात्रेऽपि शरीरे प्रेक्षध्व कीटस्यैतावती शक्तिः।
सा स्वच्छन्दश्रियो विश्वशरीरस्य कियती भवतु॥ २९॥

विश्वोन्मेषदशाया देशिकनाथस्य यावान् प्रसरः।
कललावस्थया स्थितोऽपि विश्वनिमेषेऽपि तावान् भवति॥ ३०॥

त्रिपुटीमय खलु समस्त तत्र च ज्ञेये ज्ञातरि च समम्।
दृढग्रन्थिर्ज्ञानकला कलयति त्रैलोक्यमेकलम्॥ ३१॥

कः सद्भावविशेषः कुसुमाद् भवति गगनकुसुमस्य।
यत् स्फुरणानुप्राणो लोकः स्फुरण च सर्वसामान्यम्॥ ३२॥

माणिक्यमरतकयोरिव भावाभावयोर्भेदप्रतिभासम्।
एकरसोऽन्योन्य द्वयोरप्युन्मार्ष्टि स्फुरणसभेदः॥ ३३॥

अण्डमये निजपिण्डे पीठे स्फुरन्ति करणदेव्यः।
प्रस्फुरति च परमशिवो ज्ञाननिधिस्तासा मध्ये॥ ३४॥

स तत्रार्चनीयो विमर्शपुष्पाधिवाससुरभिभिः।
चित्तचषकार्पितैर्वेद्यसुधावीरपाणवस्तुभीः॥ ३५॥

श्रीपीठपञ्चवाहनेत्रत्रयवृन्दचक्राणि स्मरत।
स्मरत च गुरूणा पङ्क्ति पञ्च च शक्तीः सृष्टिप्रमुखाः॥ ३६॥

पीठे कला नव पञ्चैव पञ्चवाहपदव्याम्।
सप्तदश फालनेत्रे द्वादश षोडश चान्यनेत्रयोः॥ ३७॥

प्रकटितपञ्चस्कन्धे चतुष्षष्टिर्भवन्ति वृन्दचक्रे।
न खलु मण्डले गुरूणा नियमो नियमातिलङ्घिना युक्तः॥ ३८॥

सृष्टौ दश कलाः स्थितौ द्वाविशतिर्भवन्ति शक्तयः।
एकादश सहारे त्रयोदश तास्तुरीयपर्वणि॥ ३९॥

भासाया न विकल्पः स्फुरति स्फुरदेकनिष्कलश्रियाम्।
यदि प्रतिबिम्बगत्या स्फुरति पर षोडशाधिका देवी॥ ४०॥

सृष्टेः पञ्चमकला भासेति जनो गणयति व्यवधानम्।
सृष्टेर्मूलकन्दो भासा भासायाः पल्लवः सृष्टिः॥ ४१॥

निजबलनिभालनमेव वरिवस्या सा च दुर्लभा लोके।
सुलभानि विश्वपतेरासवताम्बूलगन्धपुष्पाणि॥ ४२॥

विम्रष्टु निजसत्त्व विभवे कार्योन्मुखे स्तिमितेऽपि।
बाह्यवृत्तान्ताना भङ्गः प्राणस्य सयमो ज्ञेयः॥ ४३॥

शोषो मलस्य नाशो दाह एतस्य वासनोच्छेदः।
आप्लावन तनूना ज्ञानसुधासेकनिर्मिता शुद्धिः॥ ४४॥

अविकल्पतया मर्शो विकल्पवर्गस्याङ्गसन्नाहः।
अर्घ्य वेद्यविलासः पुष्पाणि स्वभावपोषका भावाः॥ ४५॥

पूर्णाहन्ताया मुखे विश्वविकल्पाङ्कुराणा विक्षेपम्।
मन्त्रोल्लेखविशुद्ध पूर्ण कुलबिन्दुतर्पण भणामः॥ ४६॥

यो यस्य भावयोगस्तस्य खलु स एव देवता भवति।
तद्भावभाविता अभिलषित तथा फलन्ति प्रतिमाः॥ ४७॥

चित्र न लिखति चित्र चित्रकरः पश्यत लिखति तच्चित्रम्।
तद् भणत कुत्र योग्या कर्तु द्वयोरपि देवताबुद्धिः॥ ४८॥

मननमयी निजविभवे निजसङ्कोचे भये त्राणमयी।
कवलितविश्वविकल्पा अनुभूतिः कापि मन्त्रशब्दार्थः॥ ४९॥

वैखरिका नाम क्रिया ज्ञानमयी भवति मध्यमा वाक्।
इच्छा पुनः पश्यन्ती सूक्ष्मा सर्वासा समरसा वृत्तिः॥ ५०॥

आनन्दोल्लासश्रीः क्षुल्लकिताष्टमहासिद्धिसौभाग्या।
दृश्यते यत्र दशाया सैव देवस्य सर्वमुद्राः॥ ५१॥

हृदयस्थानप्ररूढो विमर्शकल्पद्रुमो महाशाखः।
पुष्प्यति भोगश्रिया फलति च निष्कलसुखोत्सवालोकम्॥ ५२॥

क्रमिको भवति न देवस्तस्य कथ कालकल्मषस्पर्शः।
नित्यनिरावरणस्यापि को जीवतो मोक्षप्रत्यूहः॥ ५३॥

यत् किमपि येन केनापि रूपेण यत्र कुत्रापि कि नास्ति।
तस्मादात्मा नित्यस्थिरः क्षणभङ्ग एवास्थिरो भवति॥ ५४॥

नन्वात्मनः प्रियार्थ सर्वस्य प्रियत्व भणति श्रुतिः।
तस्मादानन्दस्वभाव आत्मा मुक्तोऽमुक्तो वा॥ ५५॥

यदि निजहृदयोल्लास निर्णेतु नित्यनिष्कलमिच्छा।
मध्यतुटिस्त्रुटितव्याऽस्त्र यतोः सोमसूर्ययोः॥ ५६॥

स्थूलतरेष्वपि प्रेक्षध्व भूतेषु खस्य निष्कलावस्थाम्।
षट्त्रिशिकाऽतिलङ्घी कीदृशो भवतु सोमनाथः सः॥ ५७॥

ये कुलकुम्भसुधासवपानमहोत्सवसुखे प्रवर्तन्ते।
ते खलु विकल्पाङ्कुरान् रसिका उपदष्टु प्रगल्भन्ते॥ ५८॥

हन्त मुख प्रतिबिम्बतु प्रतिबिम्बयतु तथा तदपि दर्पणः।
दर्पणः पुनर्यस्मिन् प्रतिबिम्बति सोऽपि ज्ञातव्यः॥ ५९॥

अविकारोभयपार्श्वे चाषपिञ्जसदृक्षेऽर्थे।
अन्तर्मुखो योगी बहिर्मुख इति कल्पना कुतः॥ ६०॥

योगी जागरस्वप्नसौषुप्ततुरीयपर्वपरिपाटिम्।
चित्रामिव मणिमाला विमर्शसूत्रैकगुम्फितामुद्वहति॥ ६१॥

उल्लोकानन्दसुधाशीधुरसोद्वेजितेन हृदयेन।
अभिलषति लोकयात्रातिन्तिणिचर्वणरसान्तर योगी॥ ६२॥

याभिर्ग्ढ़्णाति योगी करणप्रणालीभिर्विषयसौख्यानि।
निजहृदयोद्वमनशीलाभिः स्फुरणमय ताभिः करोति त्रैलोक्यम्॥ ६३॥

यथा तव स्थितिस्तथास्स्व निश्चिन्त इति खलु प्रतिष्ठितोऽर्थः।
तत्राप्यस्ति विवेक एवमुपदिशति तस्य कोऽन्यः॥ ६४॥

अहो ससारसुखातिशयः अहो सुलभ मोक्षमार्गसौभाग्यम्।
त्रुटितातङ्ककलङ्का अहो शिवयोगिना यामली सिद्धिः॥ ६५॥

क्षणमात्रस्पृष्टेनाप्यमृतस्वभावेनानेन भवेन।
सर्वोत्तिर्णः सर्वः सर्वचिर लभते सर्वसौभाग्यम्॥ ६६॥

गूढाद् गुढतरो भवति स्फुटादपि स्फुटतर एषः।
देशिककटाक्षपाते पक्षः प्रथमो न भवति धन्यानाम्॥ ६७॥

आस्तामन्या विद्या चतुःस्रोतसामपि सागराणामिव।
एनमेवामृतमय मथ्नाति मन्थानभैरवो देवः॥ ६८॥

हन्त रहस्य भणामो मुढा  मा भ्रमत गर्भगोलेषु।
अत्यासन्न हृदय पर्यालोचयत तस्योद्योगम्॥ ६९॥

एनमेव महार्थ युद्धारम्भे पाण्डुपुत्रस्य।
षोडशसहस्रशक्तिर्देव उपदिशति माधव इति शिवम्॥ ७०॥

इत्थ प्राकृतसूत्रसप्ततिसमुल्लासैकसन्धायिनी
जाग्रत्तत्क्षणनिर्विशेषस्वप्नावतीर्णा प्रतिज्ञोत्तराम्।
लोकोल्लङ्घनयोग्यसिद्धिपदवीप्रस्थानबद्धोद्यमा
कन्थाशूलकपालमात्रविभवा वन्दे ता योगिनीम्॥ ७१॥

इति गुरुमुखाम्नायन्यायान्महाक्रममञ्जरी-
परिमलमिम शिष्यप्रेम्णा बबन्ध महेश्वरः।
कनकसदसो मध्ये नृत्यन्निव प्रभुरद्भुत
यदिह सुलभः साक्षात्कर्तु विमर्शमयः शिवः॥

गाथानामनुभाषण तदनु तच्छाया ततो व्याकृति-
र्ग्रन्थार्थग्रथनक्रियासु गहनो हृद्यश्च कश्चित् क्रमः।
सवादोक्तिसहस्रसङ्कलनया तत्त्वार्थचर्चोत्सवः
सौभाग्य च विमर्शसम्पद इति प्रस्थानमध्यक्ष्यताम्॥

चोलास्ते सततोत्सवा जनपदाः श्लाघ्यो गुणैर्माधवो
रेतोधाः स्फटिकावदातहृदयो नाथः प्रकशो महान्।
स्रोतः स्वच्छमनुत्तर परिणत पाण्डित्यमास्थाधिका
वश्या वागिति हन्त तन्त्रकृदसौ सर्वोत्तरो वर्तते॥

यो मे वामचमत्क्रियोद्यममयः स्तब्धोऽपि सन्नश्नुते
विश्व व्याप्नुवतश्चिदद्वयमहश्चन्द्रोदयाद् विक्रियाम्।
तस्याह्लादमहार्णवस्य न कथ वर्धेत कूलङ्कषो
वाग्विक्षोभविजृम्भया बहुमुख कल्लोलहल्लोहलः॥

कावेर्या इव माधुर्य कह्लारस्येव सौरभम्।
नटेशस्येव तन्नृत्तमस्य ग्रन्थस्य गौरवम्॥

विश्वोत्पत्तिविपत्तिभूः स भगवानत्र प्रवक्ता शिव-
स्तस्याह प्रतिशब्दपर्वतगुहा यन्मे न गर्वग्रहः।
तद्दोषोऽस्तु गुणोऽपि वा न खलु तत् स्वायत्तमित्थ स्थिते
मात्सर्य महतामुदेतु यदि वा वात्सल्यमुज्जृम्भताम्॥

अधिवासयतु सदा मुखमन्यकथालेपलब्धदौर्गन्ध्यम्।
कर्पूरशकल इव मे शिव शिव इति शीतलः शब्दः॥

॥ इति श्रीगोरक्षापरपर्यायमहेश्वरानन्दविरचिता महार्थमञ्जरी परिमलः समाप्ता॥

No comments:

Post a Comment