Tuesday 8 April 2014

॥ गोरक्ष-शतकम्॥


श्रीः


॥ श्रीगणेशाय नमः॥


॥ गोरक्ष-शतकम्॥


श्री-शंभुं श्री-गुरुं सूर्यं हेरम्बं जगद्-ईश्वरीम्।
प्रणम्य शतक-व्याख्यां कुर्मो योग-तरङ्गिणीम्॥


अत्र योगस्य प्रकरणम् आरभमाणो भगवान् गोरक्षः श्री-गुरु-पादाभिवन्दनात्मकं मङ्गलं शिष्य-शिक्षायै निबध्नाति अर्थाद् विषय-प्रयोजने च सूचयति

श्री-गुरुं परमानन्दं वन्दे स्वानन्द-विग्रहम्।
यस्य सान्निध्य-मात्रेण चिदानन्दायते तनुः॥१॥

अहं गोरक्षः तं श्री-गुरुं श्रीमांश् चासौ गुरुश् च श्री-गुरुः परिपप्रच्छमानानाम् आत्म-तत्त्वावबोधन-शक्ति-युक्तः तं वन्दे अभिवादये।


ननु कोसौ गुरुः यस्याभिवादनं मङ्गल-प्रदम्  इत्य् आकाङ्क्षायाम् आहकथं-भूतं श्री-गुरुं  परमानन्दं परमश् चासाव् आनन्दश् च परमानन्दः निरतिशयानन्द-रूपः परमात्मा तं अनेन श्री-गुरोः ब्रह्म-रूपत्वं दर्शितम्।


ननु ब्रह्मणि शरीरेन्द्रिय-सम्बन्धायोग्यतया गुरौ च तत्-सम्बन्ध-योग्यतया तयोर् भेदोपलब्धेः स्फुरत्वात् कथम् अभेदः प्रतिपाद्यते  तत्राहपुनः कथं-भूतं श्री-गुरुं  स्वानन्द-विग्रहं स्वेषाम् आत्मीयानाम् आनन्दः स्वानन्दः स्वानन्दाय विग्रहो देहो यस्य स स्वानन्द-विग्रहः।

प्रत्यग्-आत्मा तं अनेन भक्तानुकम्पया स्वीकृत-शरीरस्य श्री-गुरोः ब्रह्मत्वं निर्विवादम् इति भेदस्य काल्पनिकतया प्रत्य-गात्मतायापेक्षिकत्वं चाभिहितम् तद्-अभिवादनस्य फलं उत्तरार्धेन दर्शयतियस्येति। यस्य श्री-गुरोः सान्निध्य-मात्रेण शिष्यः तनुः कर्म-भूतं जडम् अपीति भावः। चिदानन्दायते चिदानन्दम् इव करोति। किम् उत चिरम् उपासनेनात्मानं चिदानन्दं न कुर्यात् अपि तु कुर्याद् एवेत्य् अर्थः। तम् अत्र स्वानन्द-विग्रहं परमानन्दम् इति पद-द्वय-सामानाधिकरण्येन जीव-ब्रह्मणोर् एकत्व-लक्षणे विषयः चिदानन्दायते तनुर् इति निरतिशयानन्द-प्राप्ति-रूपं प्रयोजनं च सूचितम्॥१॥


संप्रति पूर्व-सूचित-विषय-प्रयोजन-प्रेक्षावत्-प्रत्ययाय योगाङ्गैः संपादित-प्रयोजनं मीननाथं नमस्कुर्वत् प्रयोजनस्य सुलभतां दर्शयति

अन्तर्-निश्चलितात्म-दीप-कलिकास्व् आधार-बन्धादिभिः
यो योगी युग-कल्प-काल-कलना-तत्त्वं च जेगीयते।
ज्ञानामोद-महोदधिः समभवद् यत्रादिनाथः स्वयं
व्यक्ताव्यक्त-गुणाधिकं तम् अनिशं श्री-मीन-नाथं भजे॥२॥

तं प्रसिद्धं श्री-मीननाथं अनिशं निरन्तरं अहं भजे काय-मनो-वचोभिः समाश्रये। तं कं  य आधार-बन्धादिभिः आधारोड्डीयाण-जलन्धर-बन्धैर् वक्ष्यमाण-लक्षणैः कृत्वा अन्तः हृत्-कमलादिषु निश्चलितात्म-दीप-कलिकासु निश्चलं यथा भवति तथा स्थापिता या आत्म-दीप-कलिका आत्मा एव दीपः प्रकाशकत्वात् तस्य कालिका इव कलिकाः कलिकाकाराणि ज्योतींषि तास् तथोक्ताः तासु सत्सु युग-कल्प-काल-कलना-तत्त्वं युगश् च कल्पश् च युग-कल्पौ ताव् एव कालः तस्य युग-रूपस्य कल्प-रूपस्य कालस्याकलनात्मकं कालात्म-तत्त्वं जेगीयते अतिशयेन गायति निःशेषं जानातीत्य् अर्थः। तं च पुनः यो योगी यत्र यासु निश्चलितात्म-दीप-कलिकासु सत्सु ज्ञानामोद-महोदधिः ज्ञानानन्द-सागरः विदिताखिलात्म-तत्त्व इति यावत्। अत एव आदिनाथः स्वयम् अभवत्।

तं पुनः कथं-भूतं  तम् अत एव च व्यक्ताव्यक्त-गुणाधिकं व्यक्तानि पृथिव्य्-आदीनि स्थूल-भूतानि अव्यक्तानि बुद्ध्य्-अहंकारादीनि च तथोक्तानि। यद् वा व्यक्तं पञ्ची-भूत-भूतोत्थं अव्यक्तम् अपञ्ची-भूत-भूतोत्थं सूक्ष्म-शरीरं गुणाः न स्वरत्व-परिणामित्वादयः स्वभावा तेभ्योधिकस् तैर् अनभिभूतः तथोक्तं तम् इत्य् अर्थः॥२॥

विषय-प्रयोजनेभिधाय स्व-नामाधिकारी सम्बन्धान् आह

नमस्कृत्य गुरुं भक्त्या गोरक्षो ज्ञानम् उत्तमम्।
अभीष्टं योगिनो ब्रूते परमानन्द-कारकम्॥३॥

स एव गोरक्षः पूर्वोक्त-लक्षणं श्री-गुरुं भक्त्या पुनः पुनः नमस्कृत्य योगिनां पूर्व-जन्मानुवृत्त-योग-वासनावतां अभीष्टं संमतं यतः परमानन्द-कारकं अद्वैत-बोध-जनकं अत एव उत्तमं सर्वोत्कृष्टं ज्ञानं ज्ञान-साधनं प्रकरणं ब्रूते कथयति। ज्ञानस्यात्युपकारकत्वात् ज्ञान-साधनोपि ज्ञानत्वोपचार इत्य् अर्थः। अत्र परमानन्द-कारकं ज्ञानम् इत्य् उक्त्या कर्मोपासनाभ्यां सम्पादितान्तः-करण-शुद्धिकः पुरुषोधिकारीति ब्रूते इत्य् उक्त्या वाच्य-वाचक-भाव-लक्षणः सम्बन्ध इति गो-रक्ष इति स्व-नाम इति सूचितम्॥३॥


योगिनाम् अभीष्टं ब्रूते इत्य् उक्तं तत् किम्  इत्य् आकाङ्क्षायां प्रारीप्सितस्य प्रकरणस्य नाम लिखति

गोरक्ष-शतकं वक्ति योगिनां हित-काम्यया।
ध्रुवं यस्यावबोधेन जायते परमं पदम्॥४॥

स एव गोरक्षः योगिनां पूर्वोक्त-लक्षणानां हित-काम्यया हितं कामयते हितकाम्या अनुकम्पा तया गोरक्ष-शतक-नाम-प्रकरणं वक्ति कथयति। कथं-भूतं शतकं  यस्य शतकस्य अवबोधेन गुरूपदेशतो यथार्थ-ज्ञानेन ध्र ध्रु वं उवं निश्चयेन यद् वा ध्रुवं पुनर् आवृत्ति-रहितं परमं पदं शाश्वतं स्थानं जीवन्मुक्तत्वादिकम् इत्य् अर्थः। मुक्त एव हि मुच्यत इति श्रुतेः। जायते प्रादुर्भवति तद् इत्य् अर्थः॥४॥


एतच्-छतकोक्तार्थानुष्ठानात् परमानन्द-प्राप्तिर् इत्य् अभिधाय संप्रत्य् अवश्य्-असेव्यत्वम् अभिधत्ते

एतद् विमुक्ति-सोपानम् एतत्-कालस्य वञ्चनम्।
यद् व्यावृत्तं मनो भोगाद् आसक्तं परमात्मनि॥५॥

एतद् इति। एतच् छतकं स्वोक्त-कर्मानुष्ठान-द्वारा कालस्य प्राणोत्क्रमण-व्यापाराश्रयत्वेन संभावितस्य वञ्चनं तत्-सम्बन्ध-निवर्तकं सत् चिर-काल-योगाभ्यास-साधन-द्वारा विमुक्ति-सोपानं विशिष्टायां कैवल्य-रूपायां मुक्तौ सोपानम् इव सुमेधा-विचारणादि-भूमिका-क्रमेण शीघ्र-प्रापकं यथा प्रासादादिषु सोपानम् अनायासेन प्रापकं तद्वद् इत्य् अवश्य-सेव्यम् इत्य् अर्थः।


तर्हि सर्वैर् अप्य् एतद् एव कुतो न सेव्यते  तत्राहयद् इति। यत् यदि मनः भोगात् विषयास्वादाद् व्यावृत्तम् अन्तर्मुखतयोपरतं सत् परमात्मनि आसक्तं भवेत् तस्यैव नान्यथेति। अनेन शम-दमादि-सिद्ध-भक्ति-वैराग्य-दायैतत् फलं प्राप्यं न तु विषयासक्तैर् इति दर्शितम्॥५॥

ननु मोक्षसाधने वेदबोधितदानव्रतयागादिबहुतरयत्नेषु सत्स्वपि योगम् एव किम् इति स्तौषीत् आकाङ्क्षायां नैतद्दानादिवत् साधारणं कारणं किन्तु विशिष्टं दुर्लभं चेत्याह

द्विज-सेवित-शाखस्य श्रुति-कल्प-तरोः फलम्।
शमनं भव-तापस्य योगं भजत सत्तमाः॥६॥

हे सत्तमाः  भव-तापस्य संसार-चक्र-परिवर्तन-श्रमस्य शमनं नाशनं योगं भजत॥

ननु श्रौत-स्मार्त-विधिनैवं कृतार्था अनवकाशाश् च वयं कथं योगं भजामः  तत्राहद्विजेति। कथं-भूतं योगं  द्विज-सेवित-शाखस्य द्विजैः ब्राह्मणैः सेविता उपासिता शाखा अवयवा यस्य स। तथा तस्य श्रुति-कल्प-तरोः श्रुतिः वेदः स एव कल्प-तरुः कल्प-वृक्षो विचित्र-फल-प्रदत्वात् तस्य श्रुति-कल्प-तरोः समग्रस्येत्य् अर्थः फलम् अतश् चैकैक-शाखा-मात्रावलम्बिनाम् अतिदुर्लभम् इति भावः॥६॥


प्रकृत-शास्त्रस्य स्वरूप-कथनाय अङ्गानि दर्शयति

आसनं प्राण-संरोधः प्रत्याहारश् च धारणा।
ध्यानं समाधिर् एतानि योगाङ्गानि वदन्ति षट्॥७॥


आसनम् इति। आस्यते अनेनेत्य् आसनं पद्मादि। तच् च यथा स्थिरं सुखम् अनुद्वेजकं च भवति तदा योगाङ्गतां भजते। तस्य भेदं लक्षणं च अग्रे वक्ष्यति।

प्राण-संरोध इति प्राणस्य औदर्य-प्रभञ्जनस्य संरोधः श्वास-प्रश्वास-गति-भङ्गः प्राण-संरोधः प्राणायाम इत्य् अर्थः।

प्रत्याहार इति। विषयं विषयं प्रति गच्छताम् इन्द्रियाणां बहिर्मुखानाम् इत्य् अर्थः आ समन्तात् हरणम् अन्तर्मुखतया स्व-स्वरूपेवस्थापनं प्रत्याहारः। तथा सति चित्त-स्वरूपानुकारीणि सर्वेन्द्रियाणि भवन्ति।

धारणेति। नाभि-चक्रादौ वृत्त्य्-अन्तर-परिहारेण चित्तस्यैकाग्रतया धारणं धारणा। तया च संप्रज्ञात-समाधेर् अभ्यासो भवति।

ध्यानम् इति मूलाधारादि-वक्ष्यमाण-नव-चक्रादौ विजातीय-प्रत्यय-परिहारेण सजातीय-प्रत्यय-प्रवाह-करणं ध्यानम्।

समाधिर् इति सम्यग् अधीयते। एकाग्रीक्रियते विक्षेपान् परिहृत्य यत्र मनः स समाधिः। अयम् अर्थःतद् एव ध्यानं यथा अर्थ-मात्रस्यावभासमानं तिरोहित-ज्ञानाद्य्-अखिलेन्द्रिय-स्वरूपतया शून्यताम् इव सम्पद्यते। स समाधिर् इति एतानि षट् योगाङ्गानि वदन्ति॥

न च यम-नियमासन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयोष्टाव् अङ्गानीति पातञ्जल-सूत्रादाव् अष्टाङ्गता-श्रवणात् कथं षड्-अङ्गत्व-कथनम् इति वाच्यम्। अत्र हठाभ्यासावसरे प्रातः-स्नानोपवासादि-काय-क्लेशानां निषेधस्य सर्व-सम्मततया अहिंसा सत्यम् अस्तेयम् इत्य्-आदि-यमानां तपः सन्तोष आस्तिक्यम् इत्य्-आदि-नियमानां च निवृत्ति-निरतस्य पूर्व-काण्डतोनुस्मृततयान्येषां यस्य यस्य यदा यदा अनुष्ठेयत्वं तस्य तस्य तदा तदा गुरु-मुखावगम्यत्वस्य चावश्यकतयाङ्गयोर् अपि यम-नियमयोर् इह ग्रन्थे अनभिधानं बोध्यम्॥


तयोः स्वरूपम्


अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं दयार्जवम्।
क्षमा धृतिर् मिताहारः शौचं चेति यमा दश॥
तपः सन्तोष आस्तिक्यं दानम् ईश्वर-पूजनम्।
सिद्धान्त-श्रवणं चैव ह्री-मूर्तिश् च जपो व्रतम्।
दशैते नियमाः प्रोक्ताः

एतेषाम् अङ्गानां भेदानाह याज्ञवल्क्यः

यमश् च नियमश् चैव दशधा संप्रकीर्तितः।
आसनान्य् उत्तमान्य् अष्टौ त्रीणि तेषूत्तमानि तु॥
प्राणायामस् त्रिधा प्रोक्तः प्रत्याहारश् च पञ्चधा॥
धारणं पञ्चधा प्रोक्तो ध्यानं षोडश कीर्तितम्।
त्रीणि तेषूत्तमान्य् आहुः समाधिस् त्व् एक-रूपतः॥ इति॥७॥

तत्रासनानां भेदान् दर्शयति


आसनानि च तावन्ति यावन्तो जीव-जन्तवः।
एतेषाम् अखिलान् भेदान् विजानाति महेश्वरः॥८॥

आसनानीतियावन्तो जीव-जन्तवो जीवस्योपाधि-भेदास् तावन्त्य् एव आसनानि च सन्तीति शेषः। तत्-तद्-उपवेशन-प्रकाराणां पार्थक्यस्यौचित्यात्। एतेषाम् आसनानाम् अखिलान् भेदान् महेश्वर एव जानाति नान्यः। जन्तु-शब्दोत्र जीव-पद-समभिव्याहारे उपाधि-मात्र-परः॥८॥

तर्हि महेश्वर-ज्ञान-मात्र-विषयाणाम् आसनानां कथं योगाङ्गत्वम् योगस्येतर-जन-साधारणत्वाद् इत्य् आशङ्क्य साधारणासनानि सङ्क्षिप्य दर्शयति


चतुराशीति-लक्षाणाम् एकैकं समुदाहृतम्।
ततः शिवेन पीठानां षोडशोनं कृतं शतम्॥९॥

चतुरशीतीति द्वाभ्यां। चतुरशीति-लक्षाणां जीवोपाधीनाम् एकैकं प्रत्य् उपाधि-भिन्नं भिन्नम् आसनम् उदाहृतं कथितम्। ततस् तेभ्यः पीठानां षोडशोनं शतं चतुरशीति-सङ्ख्याकं प्रति लक्षम् एकैकं सर्व-सार-भूतं शिवेन सर्व-साधारणतया कृतम् अभिहितम्। एते नेतर-जनानुष्ठितानाम् अप्य् आसनानाम् अङ्गत्वम् इत्य् उक्तम्॥९॥

ततोपि सार-भूतम् आसन-द्वयम् आह

आसनेभ्यः समस्तेभ्यो द्वयम् एतद् उदाहृतम्।
एकं सिद्धासनं प्रोक्तं द्वितीयं कमलासनम्॥१०॥

आसनेभ्य इति। समस्तेभ्यः आसनेभ्यः एतद् आसन-द्वयम् उत्तमम् उदाहृतं मुख्यं कथितम्। तस्मिन्न् आसन-द्वये एकं सिद्धासनं द्वितीयं कमलासनं पद्मासनम्॥१०॥

तत्र सिद्धासनस्य लक्षणम् आह


योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेन्
मेढ्रं पादम् अथैकम् एव नियतं कृत्वा समं विग्रहम्।
स्थाणुः संयमितेन्द्रियोचल-दृशा पश्यन् भ्रुवोर् अन्तरं
चैतन् मोक्ष-कवाट-भेद-जनकं सिद्धासनं प्रोच्यते॥११॥

योनि-स्थानकम् इति। योनि-स्थानकं गुद-मेढ्रान्तराल-स्थानं। तद् उक्तं मानसोल्लासे

गुदाच् च द्व्य्-अङ्गुलाद् ऊर्ध्वं मेढ्राच् च द्व्य्-अङ्गुलाद् अधः।
योनि-स्थानम् इति ख्यातम्॥ इति।

दृढं यथा स्यात् तथा अङ्घ्रि-मूलेन पाद-पार्ष्णिना घटितं पीडितं कृत्वा एकं पादं विन्यसेत् स्थापयेत्॥


अथ अपरं पादं मेढ्रे लिङ्ग-मूले नियतं स्थिरं कृत्वा विन्यसेत् स्थापयेत्। विग्रहं शरीरं ऋजु कृत्वा स्थाणुः काय-चाञ्चल्य-शून्यः संयमितेन्द्रियः चित्त-चाञ्चल्य-शून्यः सन् अचल-दृशा बद्धैकतानाभ्यां दृग्भ्यां भ्रुवोर् अन्तरं पश्यन् आसीत। एतत् मोक्ष-कपाटस्य कुण्डलिनी-निरुद्ध-सुषुम्ना-मुखस्य उद्घाटकं जीव-ब्रह्मणोर् एकत्वाधायीत्य् अर्थः। सिद्धासनं प्रोच्यते कथ्यते॥११॥


अथ पद्मासनस्य लक्षणम्-

वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम्।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेद्
एतद् व्याधि-विकार-नाशन-करं पद्मासनं प्रोच्यते॥१२॥


वामोरूपरीति वामोरूपरि वामपादोरु-मूल-प्रदेशे दक्षिणं चरणं उत्तानपादतलं यथा भवति तथा संस्थाप्य तथा वामचरणं दक्षोरु-मूले संस्थाप्य पश्चिमेन विधिना पृष्ठ-भागावलम्बिताभ्यां कराभ्यां पादयोर् अङ्गुष्ठौ दृढं यथा स्यात् तथा ग्ढ़ीत्वा अयमर्थः वामोरूगतं दक्षिणपादाङ्गुष्ठं पृष्ठ-भागवेष्टितेन दक्षकरेण एवं दक्षोरुगतं वामपादाङ्गुष्ठं पृष्ठ-भागवेष्टितेन वामकरेणेत्येवं ग्ढ़ीत्वेति चिबुकं हृदये निधाय स्थितः सन् पूर्ववदचलदृशा नासाग्रमालोकयेदेतत् पद्मासनं यमिनां व्याधिविकारनाशनकरं व्याधयः धातुवैषम्यनिमित्ता ज्वरादयो विकाराः कामक्रोधादिजनिता मानसिका विक्षेपास्तेषां नाशकरं भवति। अत एव आसनेन रजो हन्तीति वक्ष्यते॥१२॥


इदानीं विषय-वासना-कलितस्य मनसो निरोधम् अन्तरेण स्व-स्वरूपानुपलब्धेः तन्-निरोधस्य च विनावलम्बनेना शक्यतया तद् अवलम्बन-भूतम् आन्तरीयं षट्चक्रादिकं दर्शयति


षट्-चक्रं षोडशाधारं द्वि-लक्ष्यं व्योम-पञ्चकम्।
स्व-देहे ये न जानन्ति कथं सिद्ध्यन्ति योगिनः॥१३॥

षट्चक्रम् इति। षट्चक्रम् अग्रे वक्ष्यते। षोडशाधारम् इति। तद् उक्तं नित्य-नाथ-पद्धतौतत्र प्रथमं पादाङ्गुष्ठाधारं तत्र तेजो ध्यायेत्। दृष्टिः स्थिरा भवति। द्वितीयं मूलाधारं पाद-पार्ष्णिना तद् आपीड्य तिष्ठेद् अग्नि-दीपनं भवति। तृतीयं गुदाधारं तस्य संकोच-विकासम् अभ्यसेत्। पश्चिम-मार्गेण वज्र-गर्भाख्य-नाड्यां प्रविष्टः पवनो ब्रह्म-ग्रन्थि-त्रयं भित्त्वा भ्रमर-गुहायां विश्रान्त ऊर्ध्वतः शङ्ख-बिन्दुं स्तंभयति। पञ्चमम् उड्डीयमाणाधारं तस्यासनादिषु बन्धनेन मूल-मन्त्र-क्रमीणाम् नाशनं भवति।


षष्ठं नाभि-मण्डलाधारं तत्र चिद्रूपं ध्यात्वा प्रणवं जपेन्नादोदयो भवति। सप्तमं हृदयाधारं तत्र प्राण-निरोधनेन हृत्पद्माविकाशो भवति। अष्टमं कण्ठधारं तत्र चिबुकं गाढं नियोजयेदिडापिङ्गलयोर् वायुप्रवाहः स्थिरो भवति। नवमे घण्टिकाधारे जिह्वाग्रं प्रवेशयेच्चन्द्रगलितामृतकलालाभो भवति।

दशमे तत्त्वाधारे छेदन-दोहनाभ्यां दीर्घीकृतां जिह्वां प्रवेशयेत् काष्ठा भवति। एकादशं जिह्वाधो-भागं जिह्वाग्रेण मन्थयेद् अमृतं प्रादुर्भवति दिव्य-कविता भवति। द्वादशे ऊर्ध्व-दन्त-मूलाधारे जिह्वाग्रं धारयतोखिल-रोग-शान्तिर् भवति। त्रयोदशं नासाग्राधारं लक्षयेत् मनः स्थिरं भवति। चतुर्दशो नासिका-मूलाधारे दृष्टिं धारयेत्। षण्मासाज् ज्योतिः प्रत्यक्षं भवति। पञ्चदशं भ्रू-मध्याधारम् अवलोकयेत्। किरणाकारं ज्योतिः प्रत्यक्षं भवति। एतस्य दृढाभ्यासे सूर्याकाशे मनो लीयते। षोडशं नेत्राधारं तन्-मूलेङ्गुल्या चालनेनायाम-प्रवेशे ज्योतिः दृश्यते। सदा तद्-अवलोकने ज्योतिः साक्षाद् भवति इति षोडशाधाराः॥

अथ द्वि-लक्ष्यम्। लक्ष्यं द्विविधम्। बाह्यम् आभ्यन्तरं च। तत्र बाह्यं नासाग्र-भ्रू-मध्यादि। आभ्यन्तरं मूलाधार-हृत्-पद्मादि।

अथ व्योम-पञ्चकं। तद् उक्तं नित्यनाथपद्धतौ

आकाशं च पराकाशं महाकाशं तृतीयकम्।
तत्त्वाकाशं चतुर्थं स्यात् सूर्याकाशं च पञ्चमम्॥
श्वेतं रक्तं तथा धूम्रं नीलं विद्युन्-निभं पुनः।
एकैकं ज्योती-रूपं तु स बाह्याभ्यन्तरं स्मरेत्॥१३॥

किं च
एक-स्तम्भं नव-द्वारं ग्ढ़ं पञ्चाधिदैवतम्।
स्व-देहे ये न जानन्ति कथं सिद्ध्यन्ति योगिनः॥१४॥

एक-स्तम्भम् इति। स्तंभो हि ग्ढ़ं निवास-योग्यं करोति। तत्सहशं चात्र सकल-वासनाधिकरणत्वान् मन एव। तद् उक्तं श्री-भागवते

चेतः स्वल्पस्य बन्धाय मुक्तये चात्मनो मतम्।
गुणेषु युक्तं बन्धाय रतं वा पुंसि मुक्तये॥ इति।

नव-द्वारम् इति। मुखम् एकं चक्षुर्-नासिका-श्रोत्राणां द्वयं द्वयम् इति ऊर्ध्व-द्वाराणि सप्त। गुदं मेढ्रम् इत्य् अधो-द्वारे द्वे इति नवद्वाराणि।


ग्ढ़म् इति पञ्चाधिदैवतं पञ्चाधिदेवता यस्मिन् तद् ग्ढ़ं शरीरम्। अधिदेवताश् च ब्रह्मा विष्णू रुद्र ईश्वरः सदाशिवः इति पञ्च तद् उक्तम् योग-सारे

चतुरस्र-धरस्यांदौ ब्रह्मा तत्राधिदेवता।
अर्ध-चन्द्राकृतिर् जलं विष्णुस् तत्राधिदेवता॥
त्रिकोण-मण्डलं वह्नी रुद्रस् तत्राधिदेवता।
वायोर् बीजं तु षट्कोणम् ईशस् तत्राधिदेवता।
आकाश-मण्डलं वृत्तं देवतास्य सदा-शिवः॥ इति।

इति पञ्चाधिदैवतम् इति। एतानि वस्तूनि स्व-शरीरे ये योगिनो न जानन्ति न पश्यन्ति ते कथं केन प्रकारेण सिद्ध्यन्ति  अपि न सिद्ध्यन्तीत्य् अर्थः॥१४॥

षट्चक्रम् आह

चतुर्-दलं स्याद् आधारं स्वाधिष्ठानं च षट्-दलम्।
नाभौ दश-दलं पद्मं सूर्य-सङ्ख्य-दलं हृदि॥१५॥


आधार-चक्रं पीत-वर्णम् अधो-मुखं चतुर्-दलं पङ्कजं। दलानि च पीत-वर्णैर् व-श-ष-सैर् उपशोभितानि। तत्-कर्णिकायां शूलाष्टकं वेष्टितायां चतुःकोण-भू-मण्डलान्तर्-गतेन गजेन्द्राधिरूढेन चतुर्बाहुना धरा-बीजाङ्क-गतेन चतुर्-वक्त्रेण तच्-छक्त्या च डाकिन्याख्यया कोटि-सूर्य-प्रकाशया समलङ्कृतायां देदीप्यमानं त्रिकोण-मण्डलं कामाख्या-नाम-पीठे समुल्लसति। यस्य मध्ये पश्चिमाभिमुखं स्वयंभूर् नाम महालिङ्गं विलसति। यस्मिन् लिङ्गे विद्युत्-प्रभोज्ज्वला कुण्डली-शक्तिः सार्ध-त्रि-वलयाकारतयावेष्टित-चतुर्-मुखेन सुषुम्ना-मुखम् आच्छाद्य स्वपिति तस्या एव श्वासोच्छ्वासात् प्राणापानादि-संभवः। तद् उक्तं योग-सारे

यस्माद् उत्पद्यते वायुः यस्माद् उत्पद्यते मनः।
यस्माद् उत्पद्यते हंसो यस्माद् वह्निः प्रजायते॥
यस्माद् उत्पद्यते बिन्दुः यस्मान् नादः प्रवर्तते।
तद् एव काम-रूपाख्यं पीठं काम-फल-प्रदम्॥

॥ इति मूलाधार-चक्रम्॥


अथ स्वाधिष्ठानं। लिङ्ग-मूल-रक्त-वर्णं षड्-दलम् ऊर्ध्व-मुखं पङ्कजं बा-दि-लान्तैर् वर्णैर् उपशोभितं तत्-कर्णिका च शुक्ल-वर्णा अर्ध-चन्द्राकारा वं-बीजाधिष्ठित-जल-मण्डलालङ्कृता। तस्यां च वं-बीजाङ्क-देशे श्रीवत्स-कौस्तुभ-पीताम्बरालङ्कृतश् चतुर्भुजो विष्णुर् निज-शक्त्या राकिनी-संज्ञया सहितस् तिष्ठति॥

॥ इति स्वाधिष्ठानम्॥


नाभि-मूले नील-वर्णं दश-दलम् ऊर्ध्व-मुखं मणिपूरकं नाम चक्रं। नीलैः डा-दि-फान्तैर् उपशोभितं। तत्-कर्णिकायाम् अरुण-वर्णं तेजो-मण्डलं यद् बहिः स्वस्तिकाकारे मेघारूढं सूर्य-संकाशं चतुर्भुजं वह्नि-बीजम् अस्ति। तस्य चाङ्क-देशे रक्त-वर्णो भस्मा-लिप्ताङ्गो महा-रुद्रो नील-वर्णया चतुर्भुजया लकिनी नाम शक्त्या सहितस् तिष्ठति॥

॥ इति मणिपूरक-चक्रम्॥

तद्-ऊर्ध्व-हृत्-प्रदेशे रक्त-वर्णं कादि-ढान्त-द्वादश-वर्ण-घटित-द्वादश-दलैर् अलङ्कृतम् ऊर्ध्व-मुखम् अनाहतं नाम द्वादश-दल-पद्मं। तत्-कर्णिकायां धूम्र-वर्ण-षट्कोणं वायु-मण्डलं तस्य मध्ये धूम्र-वर्णं चतुर्-बाहुकं वायु-बीजं कृष्ण-मृगारूढं काकिनी-शक्ति-सहितम् अस्ति तस्याङ्क-देशे वराभय-करं ईश्वरोस्ति तत्-कर्णिका-गत-त्रिकोण-मण्डले कनक-वर्णं बाण-लिङ्गम् अस्ति। इदम् एव पूर्ण-गिरि-पीठम्।
|

॥ इति अनाहत-चक्रम्॥१५॥

कण्ठे स्यात् षोडश-दलं भ्रू-मध्ये द्वि-दलं तथा।
सहस्र-दलम् आख्यातं ब्रह्म-रन्ध्रे महा-पथे॥१६॥

तद्-ऊर्ध्वं कण्ठ-मूले रक्त-वर्णैः षोडश-स्वरैर् अलङ्कृतं षोडश-दलम् ऊर्ध्व-मुखं स्फटिकाभं विशुद्धाख्यं चक्रं। तत्-कर्णिकायां पूर्ण-चन्द्राकारं वृत्तं नभो-मण्डलं। तत्रैव निष्कलङ्कं पूर्ण-चन्द्र-मण्डलं। तस्य मध्ये शुक्ल-गजारूढं शुक्लं पाशाङ्कुश-वराभय-करम् आकाश-बीजं शकिन्य्-आख्यया शक्त्या सह तिष्ठति। इदं जलन्धरं नाम पीठं।

॥ इति विशुद्ध-चक्रम्॥


तद्-ऊर्ध्वं भ्रू-मध्ये देशे द्वि-दलं श्वेत-वर्णं ह-क्षाभ्यां समलङ्कृत-मात्रा-नाम-चक्रम् ऊर्ध्व-मुखं तिष्ठति। तत्-कर्णिकायां हाकिनी-शक्त्य्-अलङ्कृतायां योनि-मण्डलं विलसति। यस्यां योनौ इतराख्यं शिव-लिङ्गं तिष्ठति। एतच् चक्रं मनसः स्थानं इदम् एवोड्डीयाण-नामकं पीठं भवति॥

॥ इति आज्ञा-चक्रम्। इति षट्-चक्रम्॥


क्रम-प्राप्तं सहस्र-दलम् आहसहस्र-दलम् इति। महा-पथे ब्रह्म-रन्ध्रे सहस्र-दलं शुभ्रं पूर्ण-चन्द्र-सन्निभम् अधो-वक्त्रं परमानन्द-रूपं कमलम् अस्ति। तत्-कर्णिकायां च अक्थादि-वर्ण-विन्यासने ह-ल-क्षाङ्कित-कोण-त्रयात्मकेनोपलक्षिता योनिर् अस्ति। तस्यां योनौ स्फुरज्-ज्योत्स्ना-जालालङ्कृतं पूर्णेन्दु--मण्डलम् उल्लसति। तन्-मध्ये विद्युद्-आकारम् अतिशयानन्द-राशी-भूतं स्फुरज्-ज्योतिर् उल्लसति। तत्र चिद्-आनन्द-रूपी सकल-वेदान्तैक-वेद्यः परम-शिवो विजयते। तस्याङ्क-देशे सहस्र-सूर्य-प्रकाश-सूक्ष्माणि स-प्रबोध-रूपार्ध-चन्द्र-भङ्गुर-तनुर्-निर्वाण-कलं विलसति। यस्या अन्तः-कोटि-सूर्य-प्रकाश-केशाग्रस्य कोटि-भागैक-रूपा यस्योन्मीलन-निमीलनाभ्यां जगद्-उत्पत्ति-प्रलयौ जायेते। सेयं पूर्ण-निर्वाण-शक्तिः परिलसति। अस्या एवान्तरे योग-मात्रैक-गम्यम् अवाङ्-मनस-गोचरम् अतिशयानन्द-रूपं परात्परतरं परम-शिव-पदं यस्यैवानन्द-लेशेन ब्रह्मादयोप्य् आनन्दवन्तो भवन्ति॥

॥ इति सहस्रदल-चक्रम्॥१६॥


काम-रूपं पीठं तद्-अधिष्ठितौ शक्ति-शिवौ च दर्शयति


आधारं प्रथमं चक्रं स्वाधिष्ठानं द्वितीयकम्।
योनि-स्थानं द्वयोर् मध्ये काम-रूपं निगद्यते॥१७॥

आधारम् इति त्रिभिः मूलाधारं स्वाधिष्ठानं चेति चक्र-द्वयम् अपि प्राग् उक्तं। तयोर् द्वयोर् मध्ये काम-रूपं नाम पीठं निगद्यते कथ्यते॥१७॥

किं तयोर् मध्ये तृतीयं स्थानं  नेत्य् आह-


आधाराख्यं गुद-स्थानं पङ्कजं च चतुर्-दलम्।
तन्-मध्ये प्रोच्यते योनिः कामाख्या सिद्धि-वन्दिता॥१८॥

आधाराख्यम् इति। गुदस्थानं यत् आधाराख्यं चतुर्दलं पङ्कजं तन्-मध्ये तत्कर्णिकायां कामाख्या नाम योनिर्मातृकाक्षरम् इत्य् अर्थः। सर्व-सिद्धैर् अपि वन्दिता नमस्कृता प्रोच्यते कथ्यते॥१८॥

योनि-मध्ये महा-लिङ्गं पश्चिमाभिमुखं स्थितम्।
मस्तके मणिवद् बिम्बे यो जानाति स योगवित्॥१९॥

तस्या योनेर् मध्ये पश्चिमाभिमुखं सुषुम्ना-वदनाभिमुखं यथा स्यात् तथा स्थितं स्वयंभूर्-नामकं महा-लिङ्गम् अस्तीति शेषः। मस्तके तस्य लिङ्गस्य शिरः प्रदेशे मणिवद् देदीप्यमानं बिम्बम्। तद् उक्तं योग-सारे

या मूलाधारगा शक्तिः कुण्डली बिन्दु-रूपिणी।
मस्तके मणिवद् बिम्बं यो जानाति स योगवित्॥ इति।

एतद् द्वयं यो जानाति स योग-वित् योग-ज्ञो भवति। योगानभिज्ञैर् अनभिज्ञेयम् एतद् द्वयम् इति भावः॥१९॥

तत्रैव कालाग्नेः स्थानं दर्शयति-

तप्त-चामीकराभासं तडिल्-लेखेव विस्फुरम्।
त्रिकोणं तत्-पुरं वह्नेर् अधो-मेढ्रात् प्रतिष्ठितम्॥२०॥

तप्तेति। मेढ्रात् लिङ्ग-मूलाद् अधो-भागे आधार-कर्णिकायां लिङ्गं निप्रतिष्ठितं तप्त-चामीकाराभासं तप्त-कनक-सन्निभं तडिल्-लेखेव विद्युल्-लतेव विस्फुरद् देदीप्यमानं तत् प्रोक्तं वह्नेः कलाग्नेः पुरं स्थानं भवति। तद् उक्तं सुरेश्वराचार्येणमूले तिष्ठति कालाग्निर् इति। योग-सारे च

पातालानाम् अधो-भागे कालाग्निर् यः प्रतिष्ठितः।
स-मूलाग्निः शरीरेस्मिन् यस्मान् नादः प्रवर्तते॥ इति॥२०॥

कालाग्निम् एव समाधि-पूर्व-क्षणे चराचर-प्रपञ्चात्मक-प्रणव-द्वारा चिद्-आत्मनि योजनाय व्यापकत्वेन ध्यान-विषयीकृतं विशेष-रूपं दर्शयति


यत् समाधौ परं ज्योतिर् अनन्तं विश्वतो-मुखम्।
तस्मिन् दृष्टे महा-योगे यातायातं न विद्यते॥२१॥

यद् इति। यत् योगिनः समाधौ अनन्तं निरवच्छिन्नं विश्वतो-मुखं विश्व-व्यापकं सत् परं ज्योतिर् उत्तमं तेजः प्रादुर्भवति  तद् एव कालाग्नि-रूपम् इति शेषः। महा-योगे धारणाद्य्-अङ्ग-त्रये महा-योगस्य शक्ति-चालन-द्वारा साधने वा तस्मिन् ज्योतिषि दृष्टे सति यातायातं जनन-मरणं संसार-चक्र-
परिवर्तनम् इति यावत् न विद्यते॥२१॥

स्वाधिष्ठानं विवृणोति

स्व-शब्देन भवेत् प्राणः स्वाधिष्ठानं तद्-आश्रयः।
स्वाधिष्ठानाश्रयाद् अस्मात् मेढ्रम् एवाभिधीयते॥२२॥

स्व-शब्देनेति। स्व-शब्देन वाच्यः प्राणः हंस-रूपी भवेत्। तस्याधिष्ठानम् आश्रयः अस्मात् पदात् मेढ्रम् एवाभिधीयते प्रमीयते। तद् एव द्वितीयं चक्रम् इत्य् अर्थः॥२२॥

मणिपूरकम् आह

तन्तुना मणिवत् प्रोतो यत्र कन्दः सुषुम्नया।
तन् नाभि-मण्डलं चक्रं प्रोच्यते मणिपूरकम्॥२३॥

तन्तुनेति। तन्तुना सूत्रेण प्रोतः मणिर् इव यत्र यस्मिन् सुषुम्नया गुम्फितः कन्दोस्ति तन् नाभि-मण्डलं मणिपूरकं नाम चक्रं प्रोच्यते॥२३॥

अनाहतम् आह-

द्वादशारे महा-चक्रे पुण्य-पाप-विवर्जिते।
तावज् जीवो भ्रमत्य् एव यावत् तत्त्वं न विन्दति॥२४॥

द्वादशार इति। द्वादशारे द्वादश-दले पुण्य-पाप-रहिते अनाहताख्ये महा-चक्रे बुद्धि-कर्मेन्द्रिय-प्राणानां पञ्चकैर् मनो-बुद्धिभ्यां चोपलक्षितो जीवस् तावद् एव भ्रमति यावत्-पर्यन्तं तत्त्वम् आत्म-तत्त्वं न विन्दति न प्राप्नोति॥२४॥

पुर्वोक्तं कन्दम् आह

ऊर्ध्वं मेढ्राद् अधो नाभेः कन्द-योनिः खगाण्डवत्।
तत्र नाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः॥२५॥

ऊर्ध्वम् इति। मेढ्राल् लिङ्ग-देशाद् ऊर्ध्वं नाभेर् अधः कन्दो योनिर् इव योनिः सकल-नाड्य्-उत्पत्ति-स्थानं खगाण्डवत् पतङ्गानाम् अण्डाकारम् अस्तीत्य् अर्थः। तत्र सहस्राणां द्विसप्ततिः नाड्यः समुत्पन्ना इतस् ततः प्रसृताः सन्तीत्य् अर्थः॥२५॥

तेषु नाडी-सहस्रेषु द्विसप्ततिर् उदाहृताः।
प्रधानाः प्राण-वाहिन्यो भूयस् तासु दश स्मृताः॥२६॥

तेष्व् इति। तेषु द्विसप्तति-सहस्रेषु द्विसप्तति-नाड्यः प्राण-वाहिन्यः सन्ततं प्राण-व्यापाराविशिष्टाः। अत एव प्रधानाः भूयः पुनर् अपि तासु द्विसप्तति-नाडीषु दश-नाड्यः प्रधानतराः स्मृताः॥२६॥

पूर्वोक्तानां दश-नाडीनां नामानि स्थानानि च दर्शयति पञ्चभिः


इडा च पिङ्गल चैव सुषुम्ना च तृतीयका।
गान्धारी हस्तिजिह्वा च पूषा चैव यशस्विनी॥२७॥
अलम्बुषा कुहूश् चैव शङ्खिनी दशमी स्मृता।
एतन् नाडी-मयं चक्रं ज्ञातव्यं योगिभिः सदा॥२८॥

इडा चेति। इडा पिङ्गला सुषुम्ना गान्धारी हस्तिजिह्वा पूषा यशस्विनी अलम्बुषा कुहूः शङ्खिनी। एतन् नाडी-मयं नाडी-जाल-वितान-भूतं नाडी-चक्रं योगिभिः सदा ज्ञातव्यम्। एतत् सञ्चारी वायुश् च ज्ञातव्यतयोर् अविरोधेन पवनादि-योगम् अभ्यसेद् इत्य् उभयोर् अर्थः॥२७-२८॥

स्थानान्य् आह-
इडा वामे स्थिता भागे पिङ्गला दक्षिणे स्थिता।
सुषुम्न्ना मध्य-देशे तु गान्धारी वाम-चक्षुषि॥२९॥

इडेति। इडा वामे भागे स्थिता पिङ्गला दक्षिणे भागे स्थिता सुषुम्ना तयोर् मध्ये मेरु-दण्डम् आश्रित्य स्थितेत्य् अर्थः। एतन् नाडी-त्रयं मूलाधार-गतयोन्याः कोण-त्रयात् समुद्भूतं। तत्र वाम-कोणाद् इडा दक्षिण-कोणात् पिङ्गला पश्चिम-कोणात् सुषुम्ना समुद्भूता। तत्रेडा-पिङ्गले सुषुम्नायां समालिङ्गिते स्व-स्व-भाग-गत-नासिका-बिलाभ्यां विनिःसृते। सुषुम्ना तु मूलाधारात् ब्रह्म-रन्ध्र-पर्यन्तम् आगतेत्य् अर्थः। तद् उक्तं सुरेश्वराचार्यैः


मूलाधाराग्र-कोणोत्था सुषुम्ना ब्रह्म-रन्ध्रगा।
तत्-पार्श्व-कोणयोर् जाते द्वे इडा-पिङ्गले स्थिते॥
नाडी-चक्रेण संस्फूते नासिकान्तम् उभे गते॥ इति।

अग्र-कोणोत्था पश्चिम-कोणोद्भूता अन्यास् तु नाभि-चक्र-कन्दाद् उद्भूतास् ततो वाम-चक्षुः-पर्यन्तं गान्धारी॥२९॥

दक्षिणे हस्तिजिह्वा च पूषा कर्णे च दक्षिणे।
यशस्विनी वाम-कर्णे ह्य् आनने चाप्य् अलम्बुषा॥३०॥

दक्ष-चक्षुः-पर्यन्तं हस्तिजिह्वा। तथा दक्षिण-कर्ण-पर्यन्तं पूषा वाम-कर्ण-पर्यन्तं यशस्विनी। आनने मुखे अलम्बुषा॥३०॥


कुहूश् च लिङ्गदेशे तु मूल-स्थाने शङ्खिनी।
एवं द्वारं समाश्रित्य तिष्ठन्ति दश नाड्यः॥३१॥

लिङ्ग-देशे च कुहूः। मूल-स्थाने च शङ्खिनी। इमे द्वे नाड्यौ नाभि-चक्रीय-कन्दाद् अधो-मुखतया गतेत्य् अर्थः। एवम् अमुना प्रकारेण भिन्नं भिन्नम् एकैकं द्वारं प्राण-वायोर् मार्ग-भूतं समाश्रित्य दश-नाड्यस् तिष्ठन्तीत्य् अर्थः॥३१॥

निरन्तरं प्राण-वाहितया एताभ्योपि प्रधान-भूतं नाडी-त्रयम् आह-

इडा-पिङ्गला-सुषुम्नाः प्राण-मार्ग-समाश्रिताः।
सन्ततं प्राण-वाहिन्यः सोम-सूर्याग्नि-देवताः॥३२॥

इडेति। इडा-पिङ्गला-सुषुम्ना एता नाड्यः प्राणस्य श्वासोच्छ्वास-रूपतया प्रवेश-निर्गम-रूप-व्यापाराश् च यस्य मार्गे समाश्रिता मार्गत्वेन स्थिता इत्य् अर्थः। कथं-भूतास् ताः  सोम-सूर्याग्नि-देवता यासां तास् तथोक्ता इडाया चन्द्रो देवता पिङ्गलायाः सूर्यः सुषुम्नाया अग्नि-देवतेत्य् अर्थः॥३२॥

दश-वायून् आह

प्राणोपानः समानश् चोदान-व्यानौ वायवः।
नाग-कूर्मोथ कृकरो देवदत्तो धनञ्जयः॥३३॥

प्राण इत्यादि। प्राणः अपानः उदानः समानः व्यानः नागः कूर्मः कृकरः देवदत्तः धनञ्जय इति। दश तत्र प्राणाद्याः पञ्च वायवः प्रधानाः। तत्र कर्माणि तु श्वासोच्छ्वास-काशादि अन्नादि-पाच-तर्पयन्तानि प्राणस्य विण्-मूत्रादि-विसर्जनम् अपानस्य हानोपानादि-चेष्टा व्यानस्य शरीर-वृद्ध्य्-आदिकम् उदानस्य शोषणादि समानस्य अन्येषां मूले वक्ष्यते॥३३॥


पूर्वोक्त-दश-वायूनां मध्ये पञ्चानां स्थानानि दर्शयति

हृदि प्राणो वसेन् नित्यम् अपानो गुद-मण्डले।
समानो नाभि-देशे तु उदानः कण्ठ-मध्यतः॥३४॥

हृदि प्राण इति। प्राणो नाम वायुः नित्यं हृदि वसेत् वसति अपानो नित्यं गुद-मण्डले आधारचक्रे समानः नित्यं नाभि-मण्डले उदानः कण्ठ-मध्ये वसतीति सङ्क्षेपेणोक्तम्। वस्तुतस् तुमुख-नासिकयोर् मध्ये हृन्-मध्ये नाभि-मध्यमे कुण्डल्याः परितः पादाङ्गुष्ठे प्राणः सदा वसेद् इति प्राण-वायोः॥३४॥


व्यानो व्यापी शरीरे तु प्रधानाः पञ्च-वायवः।
प्राणाद्याः पञ्च विख्याता नागाद्याः पञ्च-वायवः॥३५॥

स्थानानि एवं गुद-मेढ्र ऊरुजानूदरेक्षणकटिनाभिषु अपानः श्रोत्राक्षि-कटि-गुल्फ-घ्राण-गले व्यानः सर्व-सन्धि-स्थाने हस्तयोः पादयोर् अप्य् उदानः समान-वायुश् च जाठराग्नि-कला-सम्मिलितः सर्वाङ्गं व्याप्य तिष्ठति। स्वगत-सुख-दुःखादि-द्वन्द्वं सम्बन्धं विधाय रूपवन्तं कुर्वन् अत एवैते पञ्च-वायवः प्रधानाः कथिताः नागाद्याः पञ्च-वायवः त्वग्-अस्थ्य्-आदिषु तिष्ठन्ति॥३५॥

नागादीनां कर्माण्य् आह

उद्गारे नाग आख्यातः कूर्म उन्मीलने स्मृतः।
कृकरं क्षुतकृत् ज्ञेयो देवदत्तो विजृंभणे॥३६॥

उद्गार इति। उद्गारः नागस्य कर्म उन्मीलनं नेत्र-पक्ष्म-व्यापारः तच् च कूर्मस्य क्षुतं कृकस्य विजृंभणं देवदत्तस्य॥३६॥

न जहाति मृतं चापि सर्व-व्यापी सर्व-व्यापी धनंजयः।
एते सर्वासु नाडीषु भ्रमन्ते जीव-रूपिणः॥३७॥

सर्व-शरीरस्यापि धनञ्जयो धनञ्जयो नाम वायुः मृतं शव-भूतम् अपि शरीरं न जहाति न विमुञ्चति। एते दश-वायवो जीवं रूपयन्ति। स्वस्मिन् ताद्रूप्याध्यासेन ते जीव-रूपिणो अहं सुखी अहं दुःखीति च यः सूक्ष्म-शरीर-गत-जीव-व्यवहारस् तस्य साधनी-भूताः सन्तः सर्वासु नाडीषु भ्रमन्ते। एकत्रावस्थानं नालभन्त इत्य् अर्थः। अत्र यद्यपि अविद्यावच्छिन्नं चैतन्यं जीवो न च तत्र भ्रमणादिकं संभवति। तथाप्य् उपाधि-भूतश-सर्वाङ्क-गतं चाञ्चल्यादिकं तत् प्रतिफलितं चन्द्रादाव् अपि जीवोपाधि-भूत-हंसाकार-बुद्धि-वृत्ति-सञ्चलित-प्राणादि-गतं चलनादिकं तद्-उपहित-जीव-चैतन्येप्य् आरोप्यते जीवोपाधिश् च मनो-बुद्धि-ज्ञान-कर्मेन्द्रिय-प्राण-पञ्चक-रूपे लिङ्ग-देह अत एवायम् अपि चिद्-आभास-रूपो जीव इति व्यपदिश्यते। तथा च लिङ्ग-देहावयवी-भूत-प्राण-निष्ठ-व्यापारस्य तादात्म्यापन्न-जीव-चैतन्येभ्युपगमो न विरुद्धः। अत्र जीवस्य त्रैविध्यं प्रसिद्धम्। तद् उक्तम् आचार्य-स्वामि-चरणैः

अवच्छिन्नश् चिद्-आभासस् तृतीयः स्वप्न-कल्पितः।
विज्ञेयस् त्रिविधो जीवस् तत्राद्यः पारमार्थिकः॥ इति॥

अवच्छिन्नो घटाकाशादिवत् प्राणादि-सङ्घातावच्छिन्नश् चिद्-आत्मेत्य् एक-विधो जीवः चिद्-आभास उदक इव सूर्यादेर् उपाधौ चित्-प्रतिबिम्ब उपाधि-धर्मास्कन्दितो जीवो द्वितीय-विधः। अयम् एव जीवोत्र विवक्षितः। तृतीयस् तु स्वप्न-प्रकल्पितो देवोहं मनुष्योहम् इत्य् एवं स्वप्न इव स्थूल-संपाताभेदे न कल्पित इति त्रिविधो जीवः। तत्राद्यः पारमार्थिको जीव इति तद्-अर्थः। तथा च सिद्ध एवं लिङ्ग-देहे जीव-व्यहारः तत्राद्यस्य पारमार्थिकम् अपि तैर् एवोक्तम्


अवच्छेदः कल्पितः स्याद् अवच्छिद्यं तु वास्तवम्।
तस्मिन् जीवत्वम् आरोपात् ब्रह्मत्वं तु स्वभावतः॥ इति॥३७॥

उक्त-प्रकारेण प्राणादि-रूपतापन्नस्य जीवस्यानेक-विधम् अस्वस्थत्वं स-दृष्टान्तं दर्शयति-


आक्षिप्तो भुज-दण्डेन यथोच्चलति कन्दुकः।
प्राणापान-समाक्षिप्तस् तथा जीवो न तिष्ठति॥३८॥

आक्षिप्त इति। चतुर्भिः यथा वार-विलासिनीभिः भुज-दण्डेन करतलेनाक्षिप्तस् ताडितस् तासां लीलोपकरण-रूपः कन्दुक उच्चलति। भू-तल-प्रतिघातेन ऊर्ध्वम् उत्तिष्ठति। एवं मुहुस् ताडितः कर-भू-तलयोर् आघात-प्रतिघातैर् एकत्रावस्थानम् अलभमान एव विलासिनी-मनो विलासयन् विलसति। तथा प्राण-प्रदेश-गतो अपानेनापान-प्रदेश-गतश् च प्राणेनेत्य् एवं प्राणापानाभ्यां स्व-स्व-प्रदेशम् आकृष्टो जीवोप्य् एकत्र न तिष्ठति। स्व-स्वाकार-मात्र-प्रतिफलिततया प्राणापानाभ्यां स्व-स्व-प्रदेशम् आकृष्ट एकत्रावस्थानम् अलभमान एवाभिमानिनम् अनुकूलन् विलसतीत्य् अर्थः। एवं चात्र यथा कन्दुकस्य वारविलासिनी-कर-परतन्त्रता तथा जीवस्याप्य् अविद्या-कार्य-प्राणादि-पराधीनत्वम् इति भावः॥३८॥


अत एवाह

प्राणापान-वशो जीवो ह्य् अधश् चोर्ध्वं च धावति।
वाम-दक्षिण-मार्गेण चञ्चलत्वान् न दृश्यते॥३९॥

प्राणापान इति।जीवो हि यतः प्राणापानयोर् वश अधीनः अतः कारणात् वाम-दक्षिण-मार्गेण इडा-पिङ्गला-द्वारेण कृत्वा अधो-मूलाधार-पर्यन्तं ऊर्ध्वं मुख-नासिका-विवर-पर्यन्तं च धावति। अतश् चञ्चलत्वात् प्राणापान-वशतया अस्थिरत्वात् न दृश्यते। असंयत-प्राणस्य हृत्-पङ्कजादिषु ध्यान-विषयो न भवति। दृशिर् अत्र ज्ञानार्थः॥३९॥

इदानीं सुषुप्तौ जीवोपाधि-भूताविद्या-कार्य-लये जीव-भाव-विनिर्मुक्तस्य ब्रह्मणः पुनर्-जीव-भावं स-दृष्टान्तं दर्शयति-

रज्जु-बद्धो यथा श्येनो गतोप्य् आकृष्यते पुनः।
गुण-बद्धस् तथा जीवः प्राणापानेन कृष्यते॥४०॥

रज्जु-बद्ध इति। यथा रज्ज्वा चरणादौ बद्धः श्येनः पक्षि-विशेषो गतोपि बन्धन-स्थानात् प्रचलितोपि तया रज्ज्वा पुनर् आकृष्यते तत्रैव स्थाप्यते तथा गुणैर् मायांशैर् अवशिष्टम् आरब्ध-कर्म-फल-भोग-वासना-रूपैर् बद्धो रूढ-सम्बन्धो जीवश् चिद्-आभासात्मा गतोपि लीनायां बुद्धि-वृत्तौ पूर्वोक्तोपाधि-विनिर्मुक्तोपि प्राणापानेनोक्त-भोगार्थम् अवशिष्टेन कृष्यते। जाग्रस् तद्-बुद्धायां बुद्धिर् वृत्तौ पुनर् जीव-भावम् आनीयत इत्य् अर्थः। यद् वा प्राण-प्रदेश-गतस्य जीवस्य प्राण-प्रदेश-प्राप्तौ जाग्रत्य् एव। दृष्टान्तः श्येनः॥४०॥

अपानः कर्षति प्राणं प्राणोपानं च कर्षति।
ऊर्ध्वाधः संस्थितावेतौ संयोजयति योगवित्॥४१॥


अपानो मूलाधार-गत-वायुः प्राणम् आज्ञा-गत-वायुं कर्षति। स्व-प्रदेशम् आनयति तथा प्राणश् च अपानं मूलाधार-गत-वायुं कर्षति स्व-प्रदेशम् आनयतीत्य् अर्थः। एवम् असंयत-प्राणस्यावस्थाम् अभिधाय संयत-प्राणस् तु नैवं-विध-दुःखैर् अभिभूयत इति सूचयन्न् उपसंहरतिर्ध्वेति। योगवित् पुरुषस् तूर्ध्वाधः आज्ञाधिष्ठानयोः संस्थितौ एतौ प्राणापानौ वक्ष्यमाण-प्रकारेण संयोजयति एकीकरोति। अयम् एव हठ-योगः। तद् उक्तं योग-चिन्तामणौ-चन्द्र-
सूर्याख्ययोः प्राणापानयोर् ऐक्य-लक्षणं प्राणायामोयं योग इत्य् उच्यत इति॥४१॥

तर्हि किं तत्  इत्य् आकाङ्क्षायां प्राणापानयोर् निर्गम-प्रवेश-प्रतिफलितं हंस-मन्त्रम् आह-

ह-कारेण बहिर् याति स-कारेण विशेत् पुनः।
हंस-हंसेत्य् अमुं मन्त्रं जीवो जपति सर्वदा॥४२॥

ह-कारेणेति। स एव प्राण-वायु-सारुप्यम् आपन्नो जीवश् चिद्-आभास-रूपः ह-कारेण प्राण-बीजेन बहिर् याति स्वाधिष्ठानतो निःसरति। पुनः स-कारेण बीजेन अन्तर् विशति मूलाधारादि-प्रदेशं गच्छति। अमुना प्रकारेण सर्वदा हंसः हंस अमूं मन्त्रं जपति। अतोयं जीव-मन्त्र इति विश्रुतः। अत्र विसर्गान्तत्वस्यावश्यकत्वाद् इति शब्दिनः सम्बन्धिर् आर्षः॥४२॥


तस्य मन्त्रस्याहो-रात्र-सञ्जात-जप-सङ्ख्याम् आह

षट् शतानि त्व् अहो-रात्रे सहस्राण्य् एकविंशतिः।
एतत् संख्यान्वितं मन्त्रं जीवो जपति सर्वदा॥४३॥

षट्-शतानीति। जीवः प्राग् उक्त सर्वदा अहो-रात्रे अहो-रात्र-मध्ये एवं विंशति सहस्राणि पुनः षट्-शतानि षट्-शताधिकैक-विंशति-सहस्राणीत्य् अर्थः। एतत्-सङ्ख्यान्वितं मन्त्रं जपति मन्त्र-जपं करोतीत्य् अर्थः॥४३॥

एतन्-मन्त्रस्य माहात्म्यं दर्शयति

अजपा नाम गायत्री योगिनां मोक्ष-दायिनी।
अस्याः सङ्कल्प-मात्रेण सर्व-पापैः प्रमुच्यते॥४४॥

अजपा नामेति। त्रिभिः इयं अजपा नाम गायत्री। अस्या अजपा-गायत्र्याः सङ्कल्प-मात्रेण जपं विनापीत्य् अर्थः। सर्व-पापैर् अकृत्य-करणादि-जनितैर् इत्य् अर्थः। प्रमुच्यते। अत एव इयम् अजपा-गायत्री योगिनां मोक्षदा भवतीत्य् अर्थः॥४४॥

अनया सदृशी विद्या अनया सदृशो जपः।
अनया सदृशं ज्ञानं न भूतं न भविष्यति॥४५॥

अनया अजपा-गायत्र्या सदृशी तुल्या जीव-ब्रह्मणोर् अभेद-प्रतिपादिका। अन्या विद्या तथा एतज्-जप-सदृशोन्येनायासेन बहु-फल-प्रदो जपः तथा अनया सदृशं स्वरुपेणैवाद्वैतानुभव-जनकं ज्ञानं ज्ञान-साधकम् अन्यत् किम् अपि न भूतं न भविष्यति॥४५॥

कुण्डलिन्याः समुद्भूता गायत्री प्राण-धारिणी।
प्राण-विद्या महा-विद्या यस् तान् वेत्ति स योगवित्॥४६॥

कुण्डलिन्या इति।इयं यतः प्राण-धारिणी कुण्डलिन्याः सकाशात् समुद्भूता गायत्री अतः प्राण-विद्या अत एव महा-विद्या ताम् इमां यो वेत्ति स एव योगवित् योगार्थ-तात्पर्य-वेत्ता भवतीत्य् अर्थः॥ इत्य् अजपा-प्रकरणम्॥४६॥


दशभिः श्लोकैः शक्ति-चालन-प्रकारणस्योद्घाटनाय अपरं कुण्डलिनी-स्थानम् आह

कन्दोर्ध्वे कुण्डली शक्तिर् अष्टधा कुण्डलाकृतिः।
ब्रह्म-द्वार-मुखं नित्यं मुखेनाच्छाद्य तिष्ठति॥४७॥

कन्दोर्ध्वे इति। कन्दस्य सकल-नाडीनां योनि-भूतस्य ऊर्ध्व-देशे मणिपूरक-कर्णिकायाम् इत्य् अर्थः॥ अष्टधा कुण्डलाकृतिः कुण्डली शक्तिः ब्रह्म-द्वार-मुखं स्व-मुखेनाच्छाद्य पिधाय नित्यं तिष्ठति॥४७॥

किं च
येन द्वारेण गन्तव्यं ब्रह्म-स्थानम् अनामयम्।
मुखेनाच्छाद्य तद्-द्वारं प्रसुप्ता परमेश्वरी॥४८॥

येन द्वारेण येन मार्गेण कृत्वा अनामयं जनन-मरणादि-दुःख-चिन्ता-रहितं ब्रह्म-स्थानम् अखण्डानन्द-पदं गन्तव्यं तद्-द्वारं मुखेनाच्छाद्य प्रसुप्ता परमेश्वरी कुण्डली शक्तिः॥४८॥

प्रबुद्धा वह्नि-योगेन मनसा मरुता सह।
सूचीवद् गुणम् आदाय व्रजत्य् ऊर्ध्वं सुषुम्नया॥४९॥


वह्नि-योगेन प्राण-प्रेरितानल-शिखा-सम्बन्धेन कृत्वा प्रबुद्धा त्यक्त-निद्रा सती मनसा मरुता प्राणेन च सह युक्ता सुषुम्नायावध्य-नाड्या कृत्वा ऊर्ध्वं सहस्र-दलाभिमुखं व्रजति। दृष्टान्तम् आह-सूचीवद् इति यथा सूची स्व-संक्तं गुणम् आदाय ऊर्ध्वं पटस्य प्रति तन्त्व्-अन्तरालं व्रजति तद्वद् इयम् अपि स्व-कल्पित-षट्-चक्रं तद् अधितिष्ठति तत् तद् एवतादि सकल-प्रपञ्चं संहृत्य व्रजति॥४९॥

तस्याः स्वरूपं गतिं चाह-

प्रस्फुरद्-भुजगाकारा पद्म-तन्तु-निभा शुभा।
प्रबुद्धा वह्नि-योगेन व्रजत्य् ऊर्ध्वं सुषुम्नया॥५०॥

प्रस्फुरद् इति। सा च वह्नि-योगेन अपान-प्रेरिताया मूलाधार-गत-कालाग्नि-शिखाया योगेन प्रबुद्धा अत एव प्रस्फुरद्-भुजगाकारा प्रस्फुरन् यो भुजगस् तद्-आकारा रभस-युक्त-सर्प इव वक्र-गत्या व्रजन्तीत्य् अर्थः पद्म-तन्तु-निभा पद्म-तन्तु-सदृशी सूक्ष्मा ज्योतिर्-मयी चेत्य् अर्थः। शुभाशुभ-स्वरूपा सती सुषुम्नया सुषुम्ना-मार्गेण ऊर्ध्वं व्रजतीत्य् अर्थः॥५०॥


तथा चानया कुण्डलिन्या सुषुम्ना-मुखं भेदयेद् इति सदृष्टान्तम् आह

उद्घाटयेत् कवाटं तु यथा कुञ्चिकया हठात्।
कुण्डलिन्या तथा योगी मोक्ष-द्वारं प्रभेदयेत्॥५१॥

उद्घाटयेद् इति। यथा ग्ढ़ी-जनः कवाटं ग्ढ़-द्वारं मुद्राङ्कितम् इति शेषः। कुञ्चिकया कृत्वा हठाद् एवोद्घाटयेत् कुञ्चिकां विना तु न कथंचिद् अपीति तु-शब्दार्थः। तथा योगी कुन्डलिन्या कृत्वा मोक्ष-द्वारं सुषुम्ना-मुखं प्रभेदयेत् कुण्डलिनीं विना तु न कथंचिद् अपीति दृष्टान्त-प्रतिफलितोर्थः॥५१॥


अथ पूर्व-श्लोके कुण्डलिन्या मोक्षद्वारं प्रभेदयेद् इत्य् उक्तम्। तच्च कुण्डलिन्यां प्रबुद्धायां संभवेत्। अतस्तत् प्रबोधनोपाय-भूतं पद्मासनं विशेषम् आह


कृत्वा संपुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढे वक्षसि सन्निधाय चिबुकं ध्यात्वा च तच् चेप्सितम्।
पारं पारम् अपानम् ऊर्ध्व-मलिनं प्रोच्चारयेत् पूरितं
मुञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रबोधान् नरः॥५२॥

कृत्वेति। करौ संपुटितौ कृत्वा तयोर् मूल-प्रदेशाभ्यां ववक्षसि संयोजितं पद्मासनं दृढतरं यथास्यात् तथा बध्वा तु पुनश्चिबुकं वक्षस्येव गाढं यथास्यात् तथा निधाय यदीप्सितं तच्च ध्यात्वा अपानमनिलं अपान-वायुं वारंवारं ऊर्ध्वमुच्चारयेत् पुनः पुनः ऊर्ध्वमुत्थापयेत्। पूरितमपानेन सहैकीकृत्य यथा शक्तिधारितं प्राणं वायुमुञ्चन् त्यजन् सन् अनन्तरमेवेत्य् अर्थः। नरः अतुलमपरिमितं बोधमुपैति ज्ञानं प्राप्नोति कस्मात् शक्तिप्रबोधात् अर्थादेतदभ्यासाच्छक्तिप्रबोधो भवति तस्माद् इत्य् अर्थः॥५२॥


अङ्गानां मर्दनं कुर्याच्छ्रमजातेन वारिणा।
कट्वम्ललवणत्यागी क्षीरभोजनमाचरेत्॥५३॥

तस्मिन् कर्मणि नियमानाहद्वाभ्यां अङ्गनाम् इति।श्रमजातेन परिश्रमोत्पन्नेन वारिणा धर्मोदकेनाङ्गानां मर्दनं कुर्यात्। कटु अम्ललवणादिनिषिद्धद्रव्यत्यागी सन् क्षीर-मात्रं तत्प्रचुरं भोजनमाचरेत्॥५३॥

ब्रह्मचारी मिताहारी त्यागी योगपरायणः।
अब्दादूर्ध्वं भवेत्सिद्धो नात्र कार्या विचारणा॥५४॥

किं च ब्रह्मचारीति अत्र ब्रह्मचर्यं मैथुनत्यागः स च स्वाश्रमानुसारेणानुष्ठेयः। तद् उक्तं योगचिन्तामणौ
सर्वत्र मैथुनत्यागो ब्रह्मचर्यं प्रचक्षते।
ब्रह्मचर्याश्रमस्थानां यतीनां नैष्ठिकस्य च॥
ऋतावृतौ स्वदारेषु सङ्गतिर्या विधानतः।
ब्रह्मचर्या तु सैवोक्ता ग्ढ़स्थाश्रमवासिनाम्।

इति मिताहार-लक्षणमनुपदं वक्ष्यतेत्यागी विषयानुराग-रहितः फलानुसन्धानशून्य इति यावत्। योग एव परमतिशयितं अयनं स्थानं आश्रयो यस्य सन्ततं योग-मात्राश्रित इत्य् अर्थः॥एतादृशो योगी अब्दात् वत्सरादूर्ध्वं सिद्धो इच्छा-मात्रोत्थितशक्तिदो भवेद् इत्य् अत्र विचारणा भविष्यति वा न वेति चिन्ता न कार्या इत्य् अर्थः॥५४॥

सुस्निग्धं मधुराहारं चतुर्थांशविवर्जितम्।
भुञ्जते सुरसंप्रीत्यै मिताहारः स उच्यते॥५५॥

मिताहार-लक्षणम् आहसुस्निग्धमिति। स्नेहप्रचुरं मधुरं अम्ललवणवर्जितं यदाहारं चतुर्थांशविवर्जितम्।
तद् उक्तम्
द्वौ भागौ पूरयेदन्नैस्तोयेनैकं प्रपूरयेत्।
प्राण-वायोः प्रचारार्थं चतुर्थमवशेषयेत्॥
इति सुराणां संप्रीत्यै तेभ्यो निवेदितम् इत्य् अर्थः॥
अनिवेद्य न भुञ्जीत मत्स्यमांसादिकं त्यजेत्॥

इत्यादिवाक्यात् एवं-विधं यमाहारं योगिनो भुञ्जते स मिताहार उच्यते॥५५॥

कन्दोर्ध्वे कुण्डली शक्तिरष्टधा कुण्डलाकृतिः।
बन्धनाय च मूढानां योगिनां मोक्षदा सदा॥५६॥

सैव पूर्वोक्ता कुण्डली उक्त-प्रकारेण बोधिता सती मोक्षदा भवतीत्याहकन्दोर्ध्वे इति पूर्वार्धं पूर्वं व्याख्यातम्। सा च ब्रह्मद्वाराच्छादनेन मूढानां योगकर्मानभि-ज्ञानां सदा सर्वदा सत्यपि तयोर् योगादिकर्मान्तरे इति भावः। बन्धनाय भवति। शक्तिचालनाद्युपायमभिजानतां योगिनां तु ब्रह्मप्रापकतया सदा मोक्षदा जननमरणादिजीवभावनिवर्तयित्री भवतीत्य् अर्थः॥५६॥|

महा-मुद्रां नभोमुद्रामुड्डियानं जलंधरम्।
मूल-बन्धं च यो वेत्ति स योगी मुक्तिभाजनम्॥५७॥

महा-मुद्रादिपञ्चकं शक्तिचालनेवश्यमपेक्षितम् इत्य् आहमहा-मुद्राम् इति ंअहा-मुद्रां नभोमुद्रा खेचरी-मुद्रा तां उड्डीयाणं बन्धनं जलंधरं बन्धं मूल-बन्धमेतन्मुन्द्रापञ्चकं यो वेत्ति स योगी मुक्तिभाजनं मुक्तिपात्रम् इति एतन्मुद्रापञ्चकं ज्ञात्वैव शक्तिं चालयेत्तेनैव मुक्तिभाजनो भवति। नान्यथेत्य् अर्थः। एतदभ्यासे शक्तिः प्रचलिता नवेति जिज्ञासायामुक्तं योगचिन्तामणौ
पिपीलिकायां लग्नायामङ्गे कण्डूर्यथा भवेत्।
सुषुम्नायां तथाभ्यासात् सततं वायुना भवेत्॥
इति
एवमहरहो यथाशक्ति समभ्यस्याभ्यासावसाने महा-मुद्राखेचर्यादिकं शनैः शनैर् उत्सृज्य मूल-बन्धमुत्सृजेत्। न तु प्रागेव तथा च योग-सारे ईश्वरवचनम्
यदा विघटयेन्मुन्द्रां खेचरी योगवित्ततः।
शक्तिः स्वस्थानमभ्येति पूर्वोद्दिष्टेन कर्मणा॥
इति॥५७॥

पार्ष्णि-भागेन संपीड्य योनिम् आकुञ्चयेद् गुदम्।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धो विधीयते॥५८॥

पार्ष्णि-भागेनेति। अपानं वायुं ऊर्ध्वमाकृष्य पादस्य पार्ष्णि-भागेन योनि-गुद-मेढ्रान्तराल-स्थानं संपीड्य गुदं मूल-द्वारम् आकुञ्चयेत् सङ्कोचयेत्। पुनर् अपानम् अधो-देशे यथा न गच्छेत् तथा कुर्याद् इत्य् अर्थः। एवं मूल-बन्धो विधीयते॥५८॥

प्रसङ्गात् मूल-बन्ध-मात्रस्याभ्यासे यत् फलं तद् आह

अपान-प्राणयोर् ऐक्यात् क्षयान् मूत्र-पुरीषयोः।
युवा भवति वृद्धोपि सततं मूल-बन्धनात्॥५९॥

अपान-प्राणयोर् इति। सतत-मूल-बन्धनात् मूल-बन्धस्य निरन्तराभ्यासात् वृद्धोपि बली पलितादि-ग्रस्तोपि युवा षोडश-वार्षिको भवति। तत् कस्मात्  मूल-बन्धाभ्यासात् यद् अपान-प्राणयोर् ऐक्यम् एक-व्यापारः तस्माच् च यः मूत्र-पुरीषयोः क्षयो नाशः तस्मात्॥५९॥

उड्डीयाण-बन्धम् आह

उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः।
उड्डीयाणं तद् एव स्यान् मृत्यु-मातङ्ग-केसरी॥६०॥

उड्डीयाणम् इति। यस्माद् उड्डीयाण-बन्धात् तेन बन्धेन रुद्धो महा-खगः प्राणः अविश्रान्तं यथा भवति तथा सुषुम्नायाम् उड्डीनं उड्डीय गमनं कुरुते। तत् तस्मात् मृत्युर् एव मातङ्गः तस्मिन् केसरी सिंह इव मृत्यु-निवर्तकोयं उड्डीयाणं नाम बन्धो भवतीत्य् अर्थः॥६०॥


अयं बन्धः कुत्र विधीयते  इत्य् आकाङ्क्षायाम् आह

उदरात् पश्चिम-भागे त्व् अधो-नाभेर् निगद्यते।
उड्डीयाणस्य बन्धोयं तत्र बन्धो विधीयते॥६१॥

उदराद् इति। उदरात् पश्चिमे भागे नाभेर् अधः प्रदेशे अयं उड्डीयाणः तस्य बन्धो निगद्यते। सिद्धैर् इति शेषः। तस्माद् अयं बन्धस् तत्रैव विधीयते नान्यत्र॥६१॥

जालन्धर-बन्धस्य फलम् आह-

बध्नाति हि शिराजालम् अधो-गामि-नभो-जलम्।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः॥६२॥


बन्ध्नातीति। जालन्धर-बन्धः कण्ठे यानि दुःखानि तेषाम् ओघस्य समूहस्य नाशनो नाश-कर्ता सन् शरीरे शिराणां नाडीनां नाडीनां जालं बन्ध्नाति स्तंभयति नभो-जलं चन्द्र-कलामृतं अधो न याति। कपाल-गुहरान् न पतति॥६२॥

जालन्धरस्य लक्षणम् आह

जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे।
पीयूषं न पतत्य् अग्नौ न च वायुः प्रकुप्यति॥६३॥

जालन्धर इति। कण्ठस्य सङ्कोचः प्राण-गति-निरोधनं लक्षणं यस्य तस्मिन् जालन्धरे बन्धे कृते सति पीयूषं चन्द्र-कलामृतं अग्नौ सूर्य-रूपे इत्य् अर्थः। न पतति वायुश् च न प्रकुप्यति विरुद्धो न भवतीत्य् अर्थः॥६३॥

हेचरी लक्षणम् आह

कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा।
भ्रुवोर् अन्तर्-गता दृष्टिः मुद्रा भवति खेचरी॥६४॥

कपालेति। विपरीतगासती कपाल-कुहरे लम्बिकोर्ध्व-विवरे प्रविष्टा जिह्वा भ्रुवोर् अन्तः भ्रू-मध्ये गता दृष्टिर् निश्चलम् अवस्थिता दृष्टिर् इयं खेचरी मुद्रा भवति॥६४॥


खेचरी फलम् आह षड्भिः

न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम्॥६५॥


न रोग इति। यः योगी उक्त-लक्षणं खेचरी-मुद्रां वेत्ति चिरम् अभ्यसतीत्य् अर्थः। तस्य योगिनः रोगः कफ-वातादि-प्रयोग-जन्यः। मरणं प्राणोत्क्रमणावस्था-विशेषः। निद्रा मूर्च्छा अवस्था-विशेष एव। क्षुधा तृषा एतानि किम् अपि न संभवतीत्य् अर्थः॥६५॥

पीड्यते न स शोकेन लिप्यते न स कर्मणा।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्॥६६॥

पीड्यते इति। यः योगी उक्त-लक्षणं खेचरी-मुद्रां वेत्ति गुरूक्त-मार्गेणानुतिष्ठति स योगी शोकेन न पीड्यते। माया-प्रपञ्चातीत्वात् स-कर्मणा कर्म-फलेन सुख-दुःखेन न लिप्यते। न स्पृश्यते कालेनापि जगद्-अन्त-कारेण न बाध्यते॥६६॥

चित्तं चरति खे यस्मात् जिह्वा चरति खे गता।
तेनैव खेचरी-मुद्रा सर्व-सिद्धैर् नमस्कृता॥६७॥

खेचरीति। नाम विग्ढ़्णाति चित्तम् इति यस्मात् कारणात् चित्तं ब्रह्मैकतानात्मकम् अन्तः-करणं खे शून्ये चरति। जिह्वा रसना खे आकाशे चरति। चन्द्रामृतं पिबति गच्छति वा तेनैव कारणेनान्तः-करणस्य विषय-सम्बन्ध-निवारकत्वेनेत्य् अर्थः। खेचरी-मुद्रा सर्व-सिद्धैर् अपि नमस्कृता पूजिता॥६७॥

बिन्दु-मूलं शरीरं तु शिरास् तत्र प्रतिष्ठिता।
भावयन्ति शरीरं या ह्य् आपादतलमस्तकम्॥६८॥

बिन्दु-मूलम् इति। शरीरे बिन्दुर् मूलं कारणं यस्य तत् बिन्दु-मूलं बिन्दुनैव संरक्षितम् इत्य् अर्थः। तत् कथं भवेत्  तत्राहहि यस्मात् कारणात् या शिरा आपाद-तल-मस्तकं शरीरं भावयन्ति। बिन्दुना सिञ्चनेन कृत्वा जीवयन्तीत्य् अर्थः। ताः शिरास् तत्र प्रतिष्ठितास् तद्-धेतौ अतः शरीरं बिन्दु-मूलम् इत्य् अर्थः॥६८॥

खेचर्या मुद्रितं येन विवरं लंबिकोर्ध्वतः।
न तस्य क्षरते बिन्दुः कामिन्य्-आलिङ्गितस्य च॥६९॥

तथा च येन योगिना कण्ठ-नालस्य विवरं छिद्रं लम्बिकोर्ध्वतः लम्बिकाया उर्ध्व-भागे खेचर्या मुद्रिकया कृत्वा मुद्रितं रुद्धं तस्य योगिनः कामिन्या लिङ्गितस्यापि बिन्दुर् न क्षरते न स्रवतीत्य् अर्थः॥६९॥

बिन्दुर् न क्षरते इत्य् उक्तं किं तेन  इत्य् आकाङ्क्षायाम् आह

यावद् बिन्दुः स्थितो देहे तवन्मृत्यु-भयं कुतः।
यावद् बद्धा नभोमुद्रा तावद्बिन्दुर्न गच्छति॥७०॥

यावद् इति। यावत्-पर्यन्तं देहे बिन्दु-स्थितोस्ति तावत्-पर्यन्तं मृत्यु-भयं कुतो भवेत्  न कुतोपीत्य् अर्थः। व्योम-चक्रोपरि बिन्दु-स्थानं। तत्र कालस्य प्राप्तेर् अभावाद् इति भावः। बिन्दुश् च कियत्-कालं स्थिरो भवेत्  तत्राहयावद् इति। यावत्-काल-पर्यन्तं नभो-मुद्रा खेचरी-मुद्रा बद्धा भवति तावत्-पर्यन्तं बिन्दुर् न गच्छति न स्रवति॥७०॥

चलितोपि यदा बिन्दुः संप्राप्तश् च हुताशनम्।
व्रजत्य् ऊर्ध्वं हतः शक्त्या निरुद्धो योनि-मुद्रया॥७१॥

यदा कदाचित् चलितोपि बिन्दुः हुताशने सूर्य-मण्डले प्राप्तोपि तत्-क्षणे एव स्व-स्थानाद् उत्थापितया शक्त्या हतः सन् ऊर्ध्वं व्रजति। ततश् च योनि-मुद्रया निरुद्धः सुस्थितो भवतीत्य् अर्थः॥७१॥

तस्य भेदम् आह-

स पुनर् द्विविधो बिन्दुः पाण्डुरो लोहितस् तथा।
पाण्डुरं शुक्रम् इत्य् आहुः लोहिताख्यं महा-रजः॥७२॥

स इति। स बिन्दुः पाण्डुर-लोहित इति भेदे न द्विविधः। तत्र पाण्डुरं बिन्दु शुक्रम् इत्य् आहुःलोहिता आख्या यस्य तत् महा-रजः रजो-रूपं भवतीत्य् अर्थः॥७२॥

तयोः स्थान-भेदं दर्शयति

सिन्दूर-द्रव-संकाशं रवि-स्थाने स्थितं रजः।
शशि-स्थाने स्थितो बिन्दुः तयोर् ऐक्यं सुदुर्लभम्॥७३॥

सिन्दूरेतिसिन्दूरस्य यो द्रवः तैलादि-मिश्रेण संभूतः तत् संकाशं तत्-समान-वर्ण-रजो-रूपं बिन्दुः रवि-स्थाने नाभि-प्रदेशे स्थितं भवति। बिन्दुः शुक्रं शशि-स्थाने षोडशार-चक्रे स्थितः। तयोर् ऐक्यं वक्ष्यमाणोपाय-साध्यं च सुष्ठु दुर्लभं भवति तस्य फलम् अग्रे वक्ष्यते॥७३॥


जगतः शिव-शक्त्य्-आत्मकत्वादि श्रुतं प्रमाणयति

बिन्दुः शिवो रजः शक्तिर् बिन्दुर् इन्दू रजो रविः।
उभयोः सङ्गमादेव प्राप्यते परमं पदम्॥७४॥

बिन्दुर् इति। बिन्दुः पाण्डुरः प्राग् उक्तः शिवो भवति। रजो लोहितं शक्त्य्-अंशः। पुनः स बिन्दुश् चन्द्रो भवति। रजो लोहितं रविः सूर्यो भवति। तथा च चन्द्र-सूर्ययोर् अपि शिव-शक्त्य्-आत्मकत्वम् उक्तम्। अत एव हठ-योग-निरूपण-कारेण चन्द्र-सूर्ययोः प्राणापानयोर् वा जीवात्म-परमात्मनोर् वा एकत्वे ति पर्यायेणोक्तिर् उपपद्यते उभयोस् तयोः सङ्गमाद् एकत्वाद् एव परमं पदं प्राप्यते॥७४॥

वायुना शक्ति-चारेण प्रेरितं तु यदा रजः।
याति बिन्दोः सहैकत्वं भवेद् दिव्यं वपुस् तदा॥७५॥

तयोर् बिन्दुरजसो रेकत्वे उपप्रापकं फलम् आहवायुनेति शक्तिं चारयतीति शक्ति-चारस् तेनशक्तिं चालयता वायुना प्रेरितम् ऊर्ध्वम् उत्थापितं रजः स्त्री-धर्मिण्यारक्तं यदा बिन्दोः सह बिन्दुनेति पाठस् तु नित्यम् एकत्वं याति। समर-सत्त्वं प्राप्नोति। तदा दिव्यं दाह-च्छेदादि-रहितं पलि पलितादि-रहितं च वपुः शरीरं भवेत्॥७५॥

किं च

शुक्रं चन्द्रेण संयुक्तं रजः सूर्येण संयुतम्।
तयोः सम-रसैकत्वं यो जानाति स योगवित्॥७६॥

शुक्रं बिन्दु-रूपं चन्द्रेण संयुक्तं समम् अवस्थितं रजश् च सूर्येण संयुतं समं स्थितं तयोः चन्द्र-सूर्य-रूपतयावस्थितयोः बिन्दु-रजसोः सम-रसतया एकत्वं यो जानाति स योगविद् इति तयोः योगस्यैव योग-पद-वाच्यत्वात्॥७६॥

॥ इति खेचरी-मुद्रा-प्रकरणम्॥

अथ महा-मुद्रा-प्रकरणम् तत्रादौ फलं

शोधनं नाडिजालस्य चालनं चन्द्र-सूर्ययोः।
रसानां शोषणं चैव महा-मुद्राभिधीयते॥७७॥

शोधनम् इति। नाडीजालस्य नाडीनां विस्तारस्य शोधनं तद्-आश्रित-वात-पित्तादि-दोषस्य निःसारणं शशि-सूर्ययोश् चन्द्रादित्ययोश् चालनं एकत्र करणं च पुनः रसानां भुक्त-पीतान्न-पानादि-पाक-जातानां शोषणं नाशनं च यया मुद्रया भवति सेयं महा-मुद्रा अभिधीयते कथ्यते॥७७॥

संप्रति महा-मुद्रा-लक्षणम् आह

वक्षो-न्यस्त-हनुः प्रपीड्य सुचिरं योनिं च वामाङ्घ्रिणा
हस्ताभ्याम् अनुधारयन् प्रसरितं पादं तथा दक्षिणम्।
आपूर्य श्वसनेन कुक्षि-युगलं बद्ध्वा शनै रेचयेद्
एषा व्याधि-विनाशिनी सुमहती मुद्रा नृणां कथ्यते॥७८॥

वक्ष इति। वक्षो-न्यस्त-हनुः वक्षसि स्थापित-चिबुकः योगी वामाङ्घ्रिणा वाम-पाद-पार्ष्णिना योनिं पूर्वोक्तं सुचिरं नितरां प्रपीड्य प्रसरितं दक्षिणं पादं हस्ताभ्याम् अनुधारयन् ग्ढ़्णन् सन् कुक्षि युगलं श्वसनेन प्राणेन आपूर्य पूरयित्वा बद्ध्वा यथोक्त-कालं कुंभयित्वानन्तरं शनै रेचयेत्। एषा नृणाम् योगिनां व्याधि-विनाशिनी सकल-रोग-क्षय-कारिणी सुमहती मुद्रा महा-मुद्रा इति कथ्यते अभिधीयते॥७८॥


तस्याभ्यास-क्रमम् आह

चन्द्रांशेन समभ्यस्य सूर्यांशेनाभ्यसेत् पुनः।
यावत् तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत्॥७९॥

चन्द्रांशेनेति इमां महा-मुद्राम् पूर्वं चन्द्रांशे समभ्यस्य अभ्यासं कृत्वा पुनः सूर्यांशे अभ्यसेत्। चन्द्रांशे वामाङ्गेन सूर्यांशेन दक्षिणाङ्गेनेत्य् अर्थः। यावत्-पर्यन्तं सङ्ख्या-मात्रा तुल्या भवेत्। वाम-दक्षिणयोर् अङ्गयोः समा भवेत्। तावत्-पर्यन्तम् अभ्यसेद् इत्य् अर्थः। ततस् तद्-अनन्तरं मुद्रां विसर्जयेत् दैनन्दिनिकम् अभ्यासं त्यजेद् इत्य् अर्थः॥७९॥

तस्या एव फलम् आह पुनस् त्रिभिः

न हि पथ्यम् अपथ्यं वा रसाः सर्वेपि नीरसाः।
अपि भुक्तं विषं घोरं पीयूषम् इव जीर्यति॥८०॥

नहीति। अस्यां महा-मुद्रायाम् अभ्यस्तायां पथ्यम् अपथ्यं वा न विचारणीयम्। सर्वे रसाश् च कट्व्-अम्ल-लवणादयः नीरसाः स्वं स्व-गुण-दोष-जनने असमर्था भवन्तीत्य् अर्थः। जीयते घोरम् अपि विषादिकं भुक्तं चेत् स्व-दोषम् उन्मादादिकम् अनुत्पाद्य पीयूषम् इव शरीरानुकूल्येनैव जीर्यति किं पुनर् अन्ये रसाः करिष्यन्तीति भावः॥८०॥


अत एव रसानाम् अननुकूलत्वात् क्षय-कुष्ठादयोपि सुस्था भवन्तीत्य् आह

क्षय-कुष्ठ-गुदावर्त-गुल्मा जीर्ण-पुरोगमाः।
रोगास् तस्य क्षयं यान्ति महा-मुद्रां च योभ्यसेत्॥८१॥

क्षयेति। यः योगी महा-मुद्राम् अभ्यसेत् तस्य योगिनः क्षय-कुष्ठ-गुदावर्त-गुल्म-जीर्ण-पुरो-गमाः सर्वे रोगाः क्षयं यान्ति विनश्यन्ति॥८१॥

उपसंहरति

कथितेयं महा-मुद्रा महा-सिद्धि-करी नृणाम्।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्॥८२॥

कथितेति। नृणाम् उपासकानां महा-सिद्धि-करी इयं महा-मुद्रा मया कथिता। प्रयत्नेन गोपनीया रक्षणीया॥ गुप्ता वीर्यवती ज्ञेया निर्वीर्या स्यात् प्रकाशिता इति सर्व-सम्मतत्वात्। अतो यस्य कस्यचिन् न देया साधकाय इयं देया इत्य् अर्थः॥८२॥

॥ इति महा-मुद्रा-प्रकरणम्॥

मनो-वासना-विनाशार्थं प्रणवाभ्यासं सप्तभिः श्लोकैर् आह-

पद्मासनं समारुह्य सम-काय-शिरो-धरः।
नासाग्र-दृष्टिर् एकान्ते जपेद् ओंकारम् अव्ययम्॥८३॥


पद्मासनम् इति। एकान्ते निर्जन-प्रदेशे पूर्वोक्त-लक्षणं पद्मासनं सम्यग् आरुह्य सम-काय-शिरो-धरः ऋजु-शरीर-ग्रीवो नासाग्र-दृष्टिः नासाग्रम् अवलोकयन् सन् अव्ययं ओंकारं प्रणवं जपेत्॥८३॥

कथं-भूतम् ओंकारं जपेत्  इत्य् अत आह

भूर् भुवः स्वर् इमे लोकाः सोम-सूर्याग्नि-देवताः।
यस्य मात्रासु तिष्ठन्ति तत्-परं ज्योतिर् ओम् इति॥८४॥


भूर् इति। अस्य ओंकारस्य मात्रासु अ-कार-उ-कार-म-कारेषु भूर्-लोक-भुवर्-लोक-स्वर्-लोक इति लोकाः सोमः सूर्याग्निर् इति देवताश् च क्रमेण तिष्ठन्ति। तत्-परं कारण-रूपं ज्योतिर्-मयं चैतन्यं ओम् इति साकारं बीजं भवतीत्य् अर्थः॥८४॥

त्रयः कालास् त्रयो वेदाः त्रयो लोकास् त्रयः स्वराः।
त्रयो देवाः स्थिता यत्र तत्-परं ज्योतिर् ओम् इति॥८५॥


त्रय इति पुनः कथं-भूतं  ओं त्रयः कालाः भूत-वर्तमान-भविष्यद्-रूपाः। त्रयो वेदाः ऋक्-यजुः-साम-रूपाः। त्रयो लोका त्रिविधा लोका इत्य् अर्थः ते च स्वेदज अण्डज जरा युजाः लता-गुल्मादीनां जरायुजेष्व् अन्तर्-भाव इत्य् अर्थः स्वर्ग-मृत्यु-पातालं वा। त्रयः स्वराः उदात्तानुदात्त-स्वरिताः। त्रयो देवा ब्रह्म-विष्णु-रुद्राश् च। यत्र यस्मिन् प्रणवे अ-कारादि-मात्रासु क्रमेण स्थिता भवन्ति तद् ब्रह्म-रूपं परं ज्योतिः-स्वरूपं ओम् इति बीजं जपेद् इत्य् अर्थः॥८५॥


क्रिया इच्छा तथा ज्ञानं ब्राह्मी रौद्री च वैष्णवी।
त्रिधा शक्ति स्थिता यत्र तत्-परं ज्योतिर् ओम् इति॥८६॥

पुनः कथं-भूतम् ओम्  इति क्रिया इच्छा ज्ञानम् इति भेदेन त्रिविधा ब्राह्मी वैष्णवी रौद्री इति भेदवती शक्तिर्यत्र प्रणवे अकादि-मात्रासु क्रमेण स्थिता तत्-परं ज्योतिर् ओम् इति॥८६॥


अ-कारश् च उ-कारश् च म-कारो बिन्दु-संज्ञकः।
त्रिधा मात्रा स्थिता यत्र तत्-परं ज्योतिर् ओम् इति॥८७॥

पुनः कथं-भूतम् ओम्  इति अ-कार उ-कार बिन्दु-संज्ञको म-कारश् च इति त्रिविधा मात्रा यत्र यस्मिन् ज्योतिषि स्थिता भवन्ति तत् परं ज्योती-रूपम् ओम् इति बीजं भवतीत्य् अर्थः॥८७॥

किं च
वचसा तज् जपेद् बीजं वपुषा तत् समभ्यसेत्।
मनसा तत् स्मरेन् नित्यं तत्-परं ज्योतिर् ओम् इति॥८८॥

वचसेति। वचसा तद् एव प्रणवं बीजं निखिल-प्रपञ्चस्य कारणं भावयन् जपेत्। कारणत्वं च प्रणवात् सम-व्याहृतयो भवन्ति। व्याहृतिभ्यो गायत्री भवति गायत्र्याः सावित्री भवति। सावित्र्या सरस्वती भवति। सरस्वत्या वेदा भवन्ति। वेदेभ्यो ब्रह्मा भवति। ब्रह्मणो लोका भवन्ति। ततो लोकाः प्रवर्तन्त इति श्रुतेः। वपुषा शरीरेण च तद् एव प्रणवं समभ्यसेत्। क्रिया-शक्ति-विशिष्टं स-गुण-ब्रह्म-रूपं प्रणवं संभावयन् तद्-अर्थानुचिन्तनानुकूलेन सिद्धाद्य्-आसनानानुरूढेन वपुषा तिष्ठेद् इत्य् अर्थः। क्रिया इच्छा तथा ज्ञानम् इति च पूर्व-श्लोकेन क्रियाया प्रणवाङ्गकत्व-कथनात् तद्-अनुकूल-क्रियाभ्यासस्य प्रणवाभ्यासत्वं स्पष्टम् इति भावः। मनसा तत्-परं ब्रह्म-रूपं ज्योतिः स्व-प्रकाश-चैतन्यां गुणादि-लोकानां वर्तमानादि-कालानां सोम-सूर्याग्नि-रूप-देवानां ऋग्-आदि-वेद-त्रयस्य ब्रह्मादि-देव-त्रयस्य क्रियेच्छादि-शक्ति-त्रयस्य अ-कारादि-मात्रा-त्रयस्य सकल-प्रपञ्चस्य अधिष्ठानतया व्यापक-रूपं नित्यं संस्मरेद् इतर-विषयिणीं वासनां मनसा नारोहयेत् किंतु चराचरस्य स्थूल-सूक्ष्म-रूपस्य कस्यापि वस्तुनः साक्षात्कारे प्रणव-प्रतिपादितं व्यापक-रूपं स्व-प्रकाशं चैतन्यम् एवानुसन्दध्याद् इति प्रकरणार्थः॥८८॥


प्रणव-जपस्य फलं दर्शयति

शुचिर् वाप्य् अशुचिर्वापि यो जपेत् प्रणवं सदा।
न स लिप्यति पापेन पद्म-पत्रम् इवांभसा॥८९॥

शुचिर् इति। शुचिः बाह्याभ्यन्तर-शौच-युक्तः अशुचिः तद्-रहितो वापि यः पुरुषः सदा प्रणवं पूर्वोक्त-लक्षणं बीजं जपेत् तद्-अर्थं भावयेत् पुनः पुनश् चेतसि विनिवेशयेद् इत्य् अर्थः। तद् उक्तं पतञ्जलिनातज्-जपस् तद्-अर्थ-भावनम् योसू १२८ इति। स योगी पापेन निषिद्ध-निषिद्ध-कर्म-जनितादृष्टेन न लिप्यति न सम्बद्ध्यते। केन किम् इव  अंभसा पद्म-पत्रम् इव यथा अम्भसि जले वर्तमानम् अपि पद्म-पत्रं अंभसा जलेन न लिप्यति न स्पृश्यते तद्वद् इत्य् अर्थः। अत्र पापेनेत्य् उपलक्षणं प्रणवस्यापि यथा पापस्याविद्या-मूलत्वात् सद्यः प्रतिफलित-तेजो-रूपस्य प्रणवस्याभ्यासेन नाशः तथा विद्या-मूलत्वाविशेषात् प्रणवस्यापि नाशः समुचित इत्य् अर्थः॥८९॥

अथ वायु-निरोधं चतुर्भिः श्लोकैः प्रस्तौति-

चले वाते चलेद् बिन्दुर् निश्चले निश्चलो भवेत्।
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरुद्धयेत्॥९०॥

चले वात इति। वाते प्राण-वायौ चले श्वासोच्छ्वास-रूप-व्यापार-विशेषे सति बिन्दुः पूर्वोक्त-लक्षणं शुक्रं बिन्दुर् उच्यते सोपि चलो भवति। प्राण-वायौ निश्चले व्यापार-रहिते सति बिन्दुर् अपि निश्चल-स्थिरो भवति। तथा सति निरुद्धा स्थाणुत्वं स्थाणुवत् शीतोष्णादि-सहिष्णुत्वं चिर-काल-योगाभ्यास-क्षमत्वम् इत्य् अर्थः। आप्नोति प्राप्नोतीत्य् अर्थः। ततस् तस्मात् कारणात् योगी वायुं प्रण-वायुं निरुद्धयेत्॥९०॥
 किं च

यावद् वायुः स्थिरो देहे तावज् जीवनम् उच्यते।
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरुन्धयेत्॥९१॥

यावत्-काल-पर्यन्तं वायुः प्राणः देहे शरीरे श्वासोच्छ्वास-रूप-व्यापारासक्ततया कुंभितत्वेन वा स्थितो भवति तावत्-पर्यन्तं जीवनम् इत्य् उच्यते। तस्य वायोर् निष्क्रान्तिर् निर्गमनम् एव मरणम् इत्य् उच्यते। ततस् तस्माज् जीवन-मरणयोः प्राण-वाय्व्-अधीनत्वात् तं प्राण-वायुम् अवश्यं निरुन्धयेत्॥९१॥

किं च

यावद् बद्धो मरुद् देहे यावच् चित्तं निरामयम्।
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् कालाद् भयं कुतः॥९२॥

यावत्-पर्यन्तं प्राण-वायुः देहे बद्धः पूर्वोक्त-व्यापारासक्तः कुंभितो वा भवति यावत्-पर्यन्तं च चित्तं निरामयं स्व-समीहितार्थाकार-प्रत्यपेक्षया विषयान्तराकार-वृत्त्य्-अन्तरापत्तिर् आमयस् तादृश-वृत्त्य्-अन्तर-रहितं भवति यावत्-पर्यन्तं च भ्रुवोर् मध्ये दृष्टिर् निश्चला भवति तावत्-पर्यन्तं कालात् मृत्यु-रूपात् भयं कुतः  अपि तु न कुतश्चिद् अपीत्य् अर्थः। अत्र यद्यपि यः प्राण-पवन-स्पन्दश् चित्तस्यान्तः-सरा बहीति चित्त-प्राणयोर् एक-व्यापाराश्रयणात् यावच् चित्तम् इति द्वितीयः पादोधिक इवाभाति तथापि चित्तस्य विषयान्तरानुसन्धान-राहित्ये तथा ज्ञेयं विषयान्तरानुसन्धाने तु सत्य् अपि कुंभके चित्तस्य व्यापारान्तराश्रयणं बाधकाभावात् एकीक्रियते योगी कालेन न बाध्यते इत्य् अर्थः॥९२॥

प्रमाणयति

अतः काल-भयाद् ब्रह्मा प्राणायाम-परायणः।
योगिनो मुनयश् चैव ततो वायुं निरुद्धयेत्॥९३॥


अत इति। अतः कारणात् जीवन-मरणौ प्रमाणाधीनौ। अतः कारणात् काल-भयात् ब्रह्मा योगिनः सनकादयः कश्यपादयः अन्ये च काल-भय-भीताः सर्वेपि प्राणायाम-परायणाः प्राणायाम-रता भवन्ति। अतस् तस्मात् कारणात् अन्योपि जनः काल-भय-भीतश् चेत् वायुं निरुद्धयेत् प्राणायामं कुर्यात्। येन जरा-मरण-वर्जितो भवतीत्य् अर्थः॥९३॥

इदानीं प्राण-वायोः हंसस्य समान-रूपत्वं दर्शयति

षट्त्रिंशद्-अङ्गुलो हंसः प्रयाणं कुरुते बहिः।
वाम-दक्षिण-मार्गेण ततः प्राणोभिधीयते॥९४॥

षट्त्रिंशद् इति। षट्त्रिंशद्-अङ्गुलः षट्त्रिंशद्-अङ्गुल-परिणामः प्राणापान-भेद-विशिष्टः हंसः वाम-दक्षिण-मर्गेण इडा-पिङ्गलाभ्यां बहिः प्रयाणं कुरुते निःसरतीत्य् अर्थः। ततस् तस्मात् प्रयाण-रूप-व्यापाराश्रयणात् प्राण इत्य् अभिधीयते कथ्यते। तथा च प्राणापानयोः हंस-रूपत्वं न तु हंसः कश्चिद् अन्य इति भ्रमिगव्यति इति भावः॥९४॥

शुद्धिम् एति यदा सर्वं नाडी-चक्रं मलाकुलम्।
तदैव जायते योगी प्राण-सङ्ग्रहणे क्षमः॥९५॥

शुद्धिम् इति यदा मलाकुलं मलेन व्याप्तं सर्वम् अपि नाडी-चक्रं पूर्वोक्त-नाडी-शोधन-प्रकारेण शोधितं सत् शुद्धिम् एति मल-जालं विमुञ्चति तदा एव योगी प्राण-सङ्ग्रहणे प्राण-वायोः स्तंभने क्षमः समर्थो भवेत्। अन्यथा प्राण-रक्षण-क्षमो न भवतीत्य् अर्थः॥९५॥
एवं प्राणायामं प्रस्तुत्य संप्रति प्राणायाम-प्रकारं दर्शयति-

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत्।
धारयित्वा यथा-शक्तिर् भूयः सूर्येण रेचयेत्॥९६॥

द्वाविंशतिभिः श्लोकैः बद्ध-पद्मासनेत्य् आदिना अत्र आवश्यकम् अपि कुशाद्य्-आस्तरणं ग्रन्थ-गौरव-भिया नोपदर्शितम्। तद् उक्तं नारदीय-पुराणे-

कुशैश् च सुमृदुभिश् छिन्नैः पवित्रेणाथ चर्मणा।
तत्रोपविष्टः सततं योगाङ्गानि समभ्यसेत्॥ इति।

योग-सारे चकुश-चैलाजिनास्तीर्ण इति। एवं कुशाजिन चैल-क्रमेणास्तीर्णे आसने उक्त-प्रकारेण बद्ध-पद्मासनो योगी चन्द्रेण इडा-मार्गेण प्राण-वायुं पूरयेत्। शनैः शनैर् अवेगेनेव तं वायुं प्रवेशयेत् यथा-शक्ति धारयित्वा कुंभयित्वा भूयः पुनः सूर्येण पिङ्गला-मार्गेण रेचयेत्॥९६॥


अथ चन्द्र-मार्गाभ्यस्त-प्राणायामे ध्यानम् आह

अमृतं दधि-संकाशं गो-क्षीर-धवलोपमम्।
ध्यात्वा चन्द्रमसो बिम्बं प्राणायामी सुखी भवेत्॥९७॥

अमृतम् इति। प्राणायामी पुरुषः दधि-संकाशं दधिवद् आभासं गो-क्षीरवद् धवलं अमृत-रूपं चन्द्रमसो बिम्बं ध्यात्वा सुखी भवेत्। सुखाकारान्तः-करण-वृत्ति-परिणामात् सन्ततं सुखानुभवो भवतीत्य् अर्थः॥९७॥

चन्द्राङ्गाभ्यासम् अभिधाय सूर्याङ्गाभ्यासम् अभिधत्ते

दक्षिणे श्वासम् आकृष्य पूरयेद् उदरं शनैः।
कुंभयित्वा विधानेन पुनश् चन्द्रेण रेचयेत्॥९८॥

दक्षिण इति। दक्षिणे दक्षिणेनेत्य् अर्थः। चन्द्रेणेत्य् अनुरोधात् तथा च पिङ्गलाख्यया दक्षिण-नाड्या श्वासं बाह्य-वायुं शनैर् अनतिवेगेन आकृष्य उदरं पूरयेत् विधानेन विध्य्-उक्त-कुंभक-मात्रा-सङ्ख्यया कुंभयित्वा पुनश् चन्द्रेण इडाख्य-वाम-नाड्या रेचयेत् पूरितं प्राणं त्यजेत्॥९८॥


अथ सूर्याङ्गाभ्यस्त-प्राणायामे ध्यानम् आह

प्रज्वल-ज्वलन-ज्वाला-पुञ्जम् आदित्य-मण्डलम्।
ध्यात्वा नाभि-स्थितं योगी प्राणायामी सुखी भवेत्॥९९॥

प्रज्वल इति। प्राणायामी योगी प्रज्वलन् यो ज्वलनो वह्निः तस्य ज्वालानां पुञ्जं समूहम् इव नाभि-पद्मे-स्थितम् आदित्य-मण्डलं वह्नि प्रचुरम् इत्य् अर्थः ध्यात्वा सुखीभवेत्। श्लोकद्वयेनैतद् उक्तं भवति। पूर्वं इड्या अधम-मध्यमोत्तमेषु अन्यतम-मात्रया द्वादश-प्रणवैर् बाह्य-वायुम् आपूर्य षोडश-प्रणवैः कुंभयित्वा दश प्रणवैः शनैर् निःशेषं रेचयेत्। अत्र कुंभके पूर्वोक्तं चन्द्र-मण्डलं नाभौ ध्यायेत्। एवं पिङ्गया द्वादश-प्रणवैः पूरयित्वा षोडश-प्रणवैः कुंभयित्वा दश-प्रणवैः रेचयेत्। अत्रापि उक्त-विधं सूर्य-मण्डलं कुंभक-समये नाभौ ध्यायेद् इति॥९९॥

श्लोक-चतुष्टयोक्तम् अर्थं सङ्क्षिप्यैकेन दर्शयति-


प्राणं चेद् इडया पिबेत् परिमितं भूयोन्या रेचयेत्
पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया।
सूर्याचन्द्रमसोर् अनेन विधिना बिम्ब-द्वयं ध्यायतां
शुद्धा नाडि-गणा भवन्ति यमिनां मास-त्रयाद् ऊर्ध्वतः॥१००॥


प्रमाणम् इति। चेद् यदि प्राणं समीरणं पूर्वोक्त-मात्रा-काल-परिमितं इडया वाम-नाड्या पिबेत्। तर्हि परिमित-कालं बद्ध्वा कुम्भयित्वा अन्यया पिङ्गल्या परिमित-कालेन शनै रेचयेत्। न तु इडयैवेत्य् अर्थः। भूयः पुनः पिङ्गलया परिमितं प्राणं पीत्वा कुंभयित्वा पूर्ववत् वामया रेचयेत्। अथो अनेन विधिना प्राणायामं कुर्वन् वाम-नाड्या पूरितस्य कुंभके चन्द्र-बिम्बं दक्षिण-नाड्या पूरितस्य कुंभके सूर्य-बिम्बम् एवं सूर्या-चन्द्रमसोः बिम्ब-द्वयं ध्यायतां यमिनां यमिनां मास-त्रयात् ऊर्ध्वतः मास-त्रयानन्तरं नाडी-गणाः शुद्धा भवन्ति।

तथा च नाडी-शुद्ध्य्-अर्थं षट् कर्म-परिश्रमो नादर्तव्यः। कफादि-दोष-साम्ये तु एवं तस्यापि नावश्यकत्वम् इति भावः। अत्र देवता-द्वन्द्व चेति सूत्रे अनाश्रितो द्वन्द्व इति सूत्रात् द्वन्द्व-पदानुवृत्तौ पुनर् द्वन्द्व-पदं प्रसिद्ध-साहचर्यस्य परिग्रहार्थं तेनैक हविर्-भागित्वासाहचर्यस्य प्रसिद्धत्वान् मित्रावरुणाव् इत्य् अत्रानड भवतीति स्थिते सूर्याचन्द्रमसोस् तु तादृश-साहचर्यस्याप्रसिद्धतया नडों प्राप्तौ छान्दसं रूपम् इति केचिद् आहूतस् तन्-नातयोर् अपि सन्निकर्ष-विप्रकर्षाभ्यां दर्शपौर्णमासी निरूपकत्व-साहचर्यस्य लोक-त्रय-प्रसिद्धस्योपलभ्यमानतया आनडा-प्रवृत्तौ बाधकाभावात्। तथा च गोभिलःयः परो विप्रकर्षः सुर्या-चन्द्रमसोः सा पौर्णमासी यः परः सन्निकर्षः सामावास्येति विस्तरश् चायम् अर्थो निर्णयामृते न चादित्य-चन्द्राव् इत्य् आदाव् अपि तच्-छङ्क्यम् आदित्य-पत्यत्वापर-पर्यायस्यादित्यत्वस्येन्द्रोपेन्द्रादि-साधारणतया तत्रातिथि-निरूप-कृतावच्छेदकत्व-व्यभिचाराद् इत्य् अलम् अतिबाल-लीला-विलासनेति॥१००॥

नाडी-शुद्धेः फलं दर्शयति

यथेष्टं धारणम् वायोर् अनलस्य प्रदीपनम्।
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनम्॥१०१॥

इति गोरक्ष-शतके पूर्वाङ्ग शतकं समाप्तम्॥

यथेष्टम् इति। नाडी-शोधनानन्तरं यथेष्टं स्वाभीष्ट-मात्रा-परिमित-काल-पर्यन्तं वायोः प्राणस्य धारणं अन्तर् नाड्यां शोभनम् इत्य् अर्थः। तथा अनलस्य जठराग्नेः प्रदीपनम् उद्बोधनं तथा नादस्य अभिव्यक्तिः स्पष्टतया श्रवणं तथा आरोग्यं कफ-वातादि-जनित-बाधा-शून्यत्वं एतत् सर्वं जायते तेनोत्तराङ्गाभ्यासाधिकार-संपन्नो भवतीत्य् अर्थः॥१०१॥

॥ इति गोरक्ष-शतक-व्याख्यायां योग-तरङ्गिण्यां प्रथम-शतकं समाप्तम्॥

No comments:

Post a Comment